सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

११६ दशकुमारचरितम् । [ उत्तरपीठिकायां

११६ दशकुमारचरितम् । [ उत्तरपीठिकायां
यामतिमात्राभिलाषः प्राणैरैनं न व्ययूयुजत् । अपि त्वनीनयदपनीता-
शेषशल्यमकल्पसंधो बन्धनम् । अजीगणच्च गणकसंघैः 'अद्यैव क्षपाव-
साने विवाहनीया राजदुहिता' इति ।
(१२) कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्रतिनिवृत्त्यैणजङ्घो
नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसन्देशमावेदयत् - 'अयि
मूढ, किमस्ति कन्यान्तःपुरदूषकेऽपि कश्चित्कृपावसरः । स्थविरः स राजा
जराविलुप्तमानावमानचित्तो दुश्चरितदुहितृपक्षपाती यदेव किञ्चित्प्रलपति
त्वयापि किं तदनुमत्या स्थातव्यम् । अविलम्बितमेवं तस्य कामोन्मत्तस्य
चित्रवधवार्ताप्रेषणेन श्रवणोत्सवोऽस्माकं विधेयः । सा च दुष्टकन्या
सहानुजेन कीर्तिसारेण निगडितचरणा चारके निरोद्धव्या इति ।
बन्धनं कारागृहम् । बन्धनमिति द्वितीयं कर्म, नयतेर्द्विकर्मकत्वात् । अजीगणत्
गणयामास । गणकसंघैः ज्योतिषिकैः । क्षपावसाने रात्रिशेषे ।
(१२) कृतकौतुकेति-कृतं विहितं कौतुकं मङ्गलं विवाहसम्बन्धि कृत्यं येन
तस्मिन् । तस्मिन् चण्डवर्मणि । एकपिङ्गाचलात् तदाख्यपर्वतात् । प्रतिनिवृत्य
आगत्य । जंघाकरिकः वेगगामी दूतः । प्रभवतः प्रभोः । प्रतिसन्देशं प्रत्युत्तरम् ।
अयि मूढेति चण्डवर्मणः सम्बोधनम् । कन्यान्तःपुरेति-यः कन्यान्तःपुरं प्रविश्य
दूषयति तस्मिन् । अत्र राजवाहने इत्यर्थः । कृपावसरः करुणाया अवकाशः ।
अस्ति किं नास्तीत्यर्थः । स्थविरो वृद्धः । स राजा मानसारः । जरेति-जरया
वार्द्धकेन विलुप्तौ नाशितौ मानापमानौ यस्य तादृशं चित्तं यस्य सः । चित्रवधेति-
चित्रेण प्रकारेण यो वधस्तस्य वार्त्ताप्रेषणेन-अद्भुतोपायेन तं निहत्य तद्वृत्तान्तज्ञा-
पनेनेत्यर्थः । श्रवणयोः कर्णयोरुत्सव आनन्दः । निगडितचरणा निबद्धपादयुगला ।
चारके बन्धनालये । इत्यन्तं दर्पसारस्य सन्देशवचनम् ।
अम्बालिकाके साथ परिणय होनेका शुभलग्न निकालने की प्रार्थना की जिससे विवाह
शीघ्र रातमें ही हो जाय ।
(१२) वैवाहिक मांगलिक कार्य हो जानेके पश्चात् एणजंघ नामक एक सेवक कैलास
पर्वतपरसे महाराज दर्पसारका प्रतिसन्देश लेकर आया और बोला - 'महाराज की आज्ञा
है कि अरे मूर्ख ! राजपुत्रीके अन्तःपुरमें प्रविष्ट होकर व्यभिचार करनेवाले दुष्टपर भी
कभी दया की जाती है ! वह राजा तो अत्यन्त वृद्ध हो गया है इस कारण उसके अन्तः-
करणमें मानापमानके भाव नहीं रह गये हैं । यह बात स्वाभाविक भी है । ऐसा दशामें
यदि वह अपनी दुश्चरित्रा पुत्रीका पक्षपात करता हुआ बकवाद करता है तो क्या तुम भी

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ११७
( १३ ) तच्चाकर्ण्य 'प्रातरेव राजभवनद्वारे स च दुरात्मा कन्या-
न्तःपुरदूषकः संनिधापयितव्यः । चण्डपोतश्च मातङ्गपतिरुचितकल्पनो-
पपन्नस्तत्रैव समुपस्थापनीयः ! कृतविवाहकृत्यश्चोत्थायाहमेव तमनार्य-
शीलं तस्य हस्तिनः कृत्वा क्रीडनकं तदधिरूढ एव गत्वा शत्रुसाहाय्याय
प्रत्यासीदतो राजन्यकस्य सकोशवाहनस्यावग्रहणं करिष्यामि' इति पार्श्व-
चरानवेक्षांचक्रे । निन्ये चासावहन्त्यन्यस्मिन्नुन्मिषत्येवोषोरागे राजपुत्रो
राजाङ्गणं रक्षिभिः । उपतस्थे च क्षरितगण्डश्चण्डपोतः ।
( १३ ) संनिधापयितव्यः सन्निधौ स्थापयितव्यः । चण्डपोतस्तदाख्यो मातङ्ग-
पतिर्गजराजः । उचिताभिर्योग्याभिः कल्पनाभिरलङ्कारादिसाधनैरुपपन्नो युक्तः ।
तत्रैव राजभवनद्वारे । समुपस्थापनीयः आनेतव्यः । अनार्यशीलं दुष्टस्वभावम् ।
तं राजवाहनम् । क्रीडनकं क्रीडनसाधनं खेलनमिति यावत् । तदधिरूढः—तमेव
गजमधिरुह्येत्यर्थः । शत्रुसाहाय्याय शत्रोः सिंहवर्मणः साहाय्यं कर्तुम् । प्रत्या-
सीदतः समीपमागच्छतः । राजन्यकस्य क्षत्रियसमूहस्य । अवग्रहणं प्रतिबन्धं
बन्धनमिति यावत् । पार्श्वचरान् पार्श्वस्थवीरान् । अवेक्षांचक्रे ददर्श, सावधानांश्चक्रे
वा । निन्ये चेति—असौ राजपुत्रः राजवाहनः अन्यस्मिन् अहनि दिवसे उन्मिषति
स्फुरति उषोरागे प्रभातसम्बन्धिरक्तिम्नि रक्षिभिः रक्षाधिकृतैः राजाङ्गणं निन्ये नीतः ।
उपतस्थे—उपस्थितोऽभवत् । क्षरितगण्डः स्रवत्कपोलः ।
उसी के कथनानुसार कार्य करोगे ? यदि नहीं, तो शीघ्र ही क्रूरता के साथ उसकी
हत्या का वृत्तान्त भेजकर मेरी आत्मा को प्रसन्न करो उसके छोटे भाई कीर्तिसार को
भी हाथ-पाँव बाँधकर कारागार में डाल दो ।
( १३ ) यह वृत्त श्रवण करते ही उसने अपने दासों को आदेश दिया—'कल प्रातःकाल
ही राजवाहन राजद्वार पर उपस्थित किया जाय । हाथियों में श्रेष्ठ हाथी चण्डपोत भी
अलंकृत किया जाकर वहाँपर तैयार खड़ा रहे। वैवाहिक मांगलिक कार्य सम्पन्न होते ही
वहाँपर आ जाऊँगा और अपने सामने उसे उस हाथी से कुचलवा करके मरवा डालूँगा।
तत्पश्चात् उसी हाथी पर चढ़कर मैं उन दुराचारी राजाओंपर भी आक्रमण कर दूँगा जो
सिंहवर्मा की सहायता के लिए आये थे। मैं उनपर आक्रमण करके उनके सैन्य तथा
निधिपर अधिकार जमा लूँगा। चण्डवर्मा की आज्ञानुसार सूर्योदय होते ही सेवकों ने
राजवाहन को ले जाकर राजद्वार पर उपस्थित कर दिया । हाथियों में प्रमुख हाथी चण्डपोत
भी सजा हुआ वहाँ खड़ा था । उसके गण्डप्रदेश से मदधारा बह रही थी ।