सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१० दशकुमारचरितम् । [ पूर्वपीठिकायां

१० दशकुमारचरितम् । [ पूर्वपीठिकायां
विघूर्णयन्निजभरनमन्मेदिनीभरेणायस्तभुजगराजमस्तकबलेन चतुरङ्गब-
लेन संयुतः सङ्ग्रामाभिलाषेण रोषेण महताविष्टो निर्ययौ ।
(१३) मालवनाथोऽप्यनेकानेकपयूथसनाथो विग्रहः सविग्रह इव
साग्रहोऽभिमुखीभूय भूयो निर्जगाम ।
(१४) तयोरथ रथतुरगखुरक्षुण्णक्षोणीसमुद्भूते करिघटाकटस्रव-
निजभरेण स्वभारेण नमन्त्या अधोगच्छन्त्याः पृथिव्या भरेण भारेण । अत्र करणे
तृतीया । आयस्तं क्लिष्टमतिपीडितं भुजगराजस्य वासुकेर्मस्तकबलं शिरसां धारण-
सामर्थ्यं येन तथाभूतेन, अत्र कर्त्तरि तृतीया । चतुरङ्गबलेन गजवाजिरथपदातिरूप-
चतुर्विधसैन्येन संयुतः सहितः । संग्रामाभिलाषेण युद्धाकाङ्क्षया । महता अतिश-
यितेन रोषेण क्रोधेनाविष्टः समाक्रान्तः सन् । मगधराजो निर्ययौ निर्जगाम । युद्धमा-
योधनं जन्यम्। मौलिः किरीटे धम्मिल्ले चूडायाम् । पालिः कर्णलतायां स्यात्प्रदेशे
पंक्तिच्छिद्योः । दन्ती दन्तावलो हस्तीति च कोशः । (अत्र असम्बन्धे सम्बन्ध-
रूपातिशयोक्तिरनुप्रासश्चेत्यनयोः संसृष्टिः । घस्मर इत्यत्र च 'सृघस्यदः क्मरच्'
इत्यनेन क्मरच्) ।
(१३) मालवनाथः मानसारः । अनेकैरसंख्यातैः अनेकपानां हस्तिनां यूथैः स-
मूहैः सनाथो युक्तः । द्विरदोऽनेकपो द्विप इत्यमरः । विग्रहः समरः । सविग्रहः सश-
रीरः मूर्त्तिमान् । साग्रहः युद्धाभिनिवेशवान् । भूयः पुनरपि ।
(१४) अथ निर्गमनानन्तरम् । तयोर्मगधराजमालवराजयोः । रथैः रथचक्रैः तुरगाणां
अश्वानां खुरैः शफैः क्षुण्णायाः पिष्टायाः क्षोण्याः पृथिव्याः समुद्भूते उत्थिते उत्पन्ने वा
धूलीपटले इत्यस्य विशेषणम् । करिघटानां हस्तिसमूहानां कटेभ्यो गण्डेभ्यः स्रवन्त्या
करके समुद्रके महाघोषको तिरस्कृत करनेवाले, दुंदुभियोंकी ध्वनियोंको हठात् श्रवण
करनेसे भयभीत दिग्गजोंको कँपानेवाले, अपने भारसे दबो हुई पृथ्वीके भारसे भुजंगराजके
मस्तकको व्यथित करनेवाली चतुरंगिणी—हाथी, घोड़े, पैदल और रथोंसे सज्जित—
सेना लेकर, युद्धार्थ निकल पड़े ।
(१३) शरीरधारी संग्रामस्वरूप मालवेश्वर भी अनेक हाथियोंकी सेनाको लेकर
आग्रहके साथ युद्धके लिये पुनः अपने पुरसे निकल पड़ा ।
(१४) उसके पश्चात् उन दोनोंमें संग्राम छिड़ गया । उस युद्धकालमें रथोंके पहियोंसे
तथा घोड़ोंके खुरोंसे चूर्ण की हुई पृथ्वीसे उत्पन्न धूलि एवं हाथियोंके कपोलोंसे बहनेवाली
मदधारासे सिक्त धूलिपटल नूतन वल्लभोंको वरण करनेके निमित्त आयी देव-कन्याओंके

  • उत्प्रेक्षानुप्रासयोः सङ्करः ।

प्रथमोच्छ्वासः ] - व्याख्याद्वयोपेतम् । ११
न्मदधाराधौतमूले नव्यवल्लभवरणागतदिव्यकन्याजनजवनिकापटमण्डप
इव वियतलव्याकुले धूलीपटले दिविषदध्वनि धिक्कृतान्यध्वनिपटहध्वान-
बधिरिताशेषदिगन्तरालं शस्त्राशस्त्रि हस्ताहस्ति परस्पराभिहतसैन्यं
जन्यमजनि ।
(१५) तत्र मगधराजः प्रक्षीणसकलसैन्यमण्डलं मालवराजं जीव-
ग्राहमभिगृह्य कृपालुतया पुनरपि स्वराज्ये प्रतिष्ठापयामास ।
(१६) ततः स रत्नाकरमेखलामिलामनन्यशासनां शासदनपत्यतया

क्षरन्त्या मदधारया मदजलप्रवाहेण धौतं क्षालितं मूलं मूलदेशो यस्य तस्मिन् ।
नव्यवल्लभानां नवीनरमणानां वरणाय आगतस्य युद्धक्षेत्रे समुपस्थितस्य दिव्य-
कन्याजनस्याप्सरः समूहस्य जवनिकया तिरस्करिण्या युक्तः पटमण्डपः पटवासस्त-
स्मिन्निव । वियतलव्याकुले नभस्तलसम्भृते । धूलीपटले पांसुसमूहे । दिवि सीदन्ति
ये ते दिविषदो देवास्तेषामध्वनि मार्गे आकाशे इत्यर्थः । धिक्कृतस्तिरस्कृतः दूरी-
कृत इति यावत्, अन्येषां ध्वनिः शब्दो येन तादृशेन पटहध्वानेन ढक्का शब्देन
बधिरितानि बधिरीकृतानि अशेषाणि दिगन्तरालानि तत्रस्थजना इत्यर्थः यस्मिन्
तत् । शस्त्रैः शस्त्रैश्च प्रहृत्य यद्युद्धं प्रवृत्तमिति शस्त्राशस्त्रि । हस्तैश्च हस्तैश्च प्रहृत्य
यत्प्रवृत्तं तद् हस्ताहस्ति । परस्परस्य अभिहतं समाक्रान्तं सैन्यं यस्मिन् तत् । जन्यं
युद्धम् ।
(१५) तत्र युद्धे । प्रक्षीणं हतविध्वस्तं सकलं समस्तं सैन्यमण्डलं यस्य तम् ।
जीवग्राहमभिगृह्य जीवन्तमेव धृत्वा,
(१६) रत्नाकरः समुद्रो मेखला रशना यस्यास्ताम् । ससागरामित्यर्थः । इलां
पृथ्वीम् । अनन्यशासनां-न विद्यतेऽन्यस्य नृपस्य शासनं यस्यां ताम् । अनपत्यतया

लिए पटमंडप ( परदेका ) काम करने लगी अर्थात धूलि-पटल आकाशमें फैल गया ।
अन्य सभी शब्दोंको दबानेवाली युद्धकी वाद्यध्वनियां समस्त दिशाओंमें गूंज गयीं -
जिससे सम्पूर्ण दिशाएँ ऐसी बहिरी हो गयीं कि कुछ सुनाई ही न देता था । उस युद्धमें
योद्धागण शस्त्रसे शस्त्र और हाथसे हाथ भिड़ाकर परस्पर मार-काट करनेमें तल्लीन थे ।
(१५) उस तुमुल संग्राममें माधवराजने मालवराजकी समस्त सेना नष्ट कर दी और
मालवेश्वर मानसारको जीते जी पकड़ लिया तथा पुनः दया करके उसे उसीके राज्यपर
प्रतिष्ठित कर दिया ।
(१६) तब वे मगधाधिपति जो समुद्र पर्यन्त पृथ्वीका शासन करते थे, अनपत्य होनेके