दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
६८ दशकुमारचरितम् । [ पूर्वपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
६८ दशकुमारचरितम् । [ पूर्वपीठिकायां
र्यनिमित्तं वित्तं निश्चित्य भवदनुग्रहाल्लब्धस्य साधकत्वस्य साहाय्यकरण
दक्षं शिष्यगणं निष्पाद्य विन्ध्यवनमध्ये पुरातनपत्तनस्थानान्युपेत्य विवि-
धनिधिसूचकानां महीरुहाणामधोनिक्षिप्तान्वसुपूर्णान्कलशान् सिद्धाञ्जनेन
ज्ञात्वा रक्षिषु परितः स्थितेषु खननसाधनैरुत्पाद्य दीनारानसंख्यान् राशी-
कृत्य तत्कालागतमनतिदूरे निवेशितं वणिक्कटकं कश्चिदभ्येत्य तत्र बलिनो
बलीवर्दन् गोणीश्च क्रीत्वान्यद्रव्यमिषेण वसु तद्रोणीसंचितं तैरूह्यमानं
शनैः कटकमनयम् ।
( १० ) तदधिकारिणा चन्द्रपालेन केनचिद्वणिकपुत्रेण विरचितसौ-
खस्य । साहाय्यकरणे दक्षं निपुणम् । निष्पाद्य एकीकृत्य । पुरातनपत्तनस्थानानि
प्राचीननगरभूमीः । विविधनिधिसूचकानां नानारत्नकुम्भस्थितिनिर्देशकानां महीरु
हाणां वृक्षाणाम् । वसुपूर्णान् धनपूरितान् । सिद्धाञ्जनेन नयनदत्तकज्जलेन । रक्षिषु
रक्षापुरुषेषु । परितः समन्तात् स्थितेषु वर्त्तमानेषु । खननसाधनैः खनित्रादिखननो-
पायैः । उत्पाद्य भूमिमध्यादुत्थाप्य । दीनारान् स्वर्णमुद्रादीन् तत्कालगत्तं तस्मिन्
समये तत्रोपस्थितम् । अनतिदूरे निकटे निवेशितं स्थापितम् । वणिक्कटकं वणिक्शि-
विरम् । अभ्येत्य गत्वा । बलिनो बलवतः पुष्टानित्यर्थः । बलीवर्दन् वृषभान् गोणीः
धान्यादिवहनार्थाधारविशेषान् । अन्यद्रव्यमिषेण द्रव्यान्तरच्छलेन । तैः बलीवर्दैः
शनैर्मन्दं मन्दं क्रमशः इति भावः ।
( १० ) तदधिकारिणा कटकस्वामिना । विरचितं कृतं सौहृदं मैत्री येन सः ।
जानेका समस्त वृत्त कह सुनाया । तब मैने उन दोनोंको एक मुनिकी कुटीमें ले जाकर स्थित
कर दिया । फिर मैं आपकी खोजमें निकला। मैंने एक दिन विचार किया कि सभी कार्य
धनसे साधे जाते हैं। आपकी दयासे उसी क्षण मुझे धन-प्राप्तिकी साधनाका एक उपाय प्राप्त
हो गया। और मैंने कुछ दक्ष शिष्योंको धनलब्धकर्त्तव्यमे समर्थ किया तथा विन्ध्याचलके एक
प्राचीन नगरके भग्नावशेष स्थलमें जा पहुँचा। सिद्धाञ्जनसे मैंने नाना प्रकारके कोषोंकी
सूचना देनेवाले वृक्षोंके नीचे स्थापित पृथ्वीके भीतरके घड़ोंको ज्ञात कर लिया। मैंने उन
वृक्षोंके चारों ओर रक्षकोंको खड़ा कर दिया और कुदारी आदिसे पृथ्वी खुदवाकर अगणित
मुद्राएँ एकत्र की। तत्पश्चात् तत्काल आए हुए वणिक्-समुदायसे पूरित पास हीके स्थलमें
पहुँचा। उन लोगोंसे मैंने अति बलिष्ठ कुछ बैल तथा गाड़ियां खरीदीं और अन्नादिके ढोने
का बहाना करके उन गाड़ियोंपर सुवर्ण लादकर धीरे-धीरे उस स्थानपर आ पहुंचा।
(१०) फिर बनियोंके अधिपति चन्द्रपाल नामक वणिक् पुत्रसे मित्रता करके उसीके
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
चतुर्थोच्छ्वासः ] व्याख्योपेतम् । ६६
हृदोऽहममुनैव साकमुज्जयिनीमुपाविशम् । मत्पितरावपि तां पुरीमभिग-
मय्य सकलगुणनिलयेन बन्धुपालनाम्ना चन्द्रपालजनकेन नीयमानो माल-
वनाथदर्शनं विधाय तदनुमत्या गूढवसतितमकरवम् । ततः काननभूमिषु
भवन्तमन्वेष्टुमुद्युक्तं मां परममित्रं बन्धुपालो निशम्यावदत्–'सकलं धर-
णितलमपारमन्वेष्टुमक्षमो भवान्मनोग्लानिं विहाय तूष्णीं तिष्ठतु । भव-
न्नायकालोकनकारणं शुभशकुनं निरीक्ष्य कथयिष्यामि इति ।
(११) तल्लपितामृताश्वासितहृदयोऽहमनुदिनं तदुपकण्ठवर्ती कदा-
चिदिन्दुमुखीं नवयौवनावलीढावयवां नयनचन्द्रिकां बालचन्द्रिकां नाम
तरुणीरत्नं वणिङ्मन्दिरलक्ष्मीं मूर्तामिवावलोक्य तदीयलावण्यावधूतधी-
अमुना चन्द्रपालेन । उपाविशं न्यवसम् । मत्पितरौ मदीयां जननी जनकञ्च । तां
पुरीमुज्जयिनीम् । अभिगमय्य प्रापय्य । सकलानां सर्वेषां गुणानां शौर्यदाक्षिण्या-
दीनां निलय आधारस्तेन । मालवनाथदर्शनं उज्जयिनीपतिसन्दर्शनम् । तदनुम-
त्या तस्य मालवनाथस्यानुमत्याऽऽज्ञया । गूढवसतिं गुप्तवासम् । अपारमनन्तम् ।
अक्षमोऽसमर्थः । मनोग्लानिं निर्वेदम् । भवतस्तव नायकस्य प्रभोरालोकनस्य दर्श-
नस्य कारणं निमित्तम् । शुभशकुनं मङ्गलचिह्नम् ।
(११) तस्य बन्धुपालस्य लपितं भाषितमेवामृतं तेन । आश्वासितं निर्वृतं हृद्
स्वान्तं यस्य सः । अहं पुष्पोद्भवः । तस्य बन्धुपालस्य उपकण्ठवर्त्ती समीपवर्त्ती ।
नवयौवनेन अवलीढा व्याप्ता अवयवा अङ्गानि यस्यास्ताम् । नयनयोर्नेत्रयोःचन्द्रिका
ज्योत्स्नारूपिणी ताम् । मूर्ता मूर्त्तिमतीम् । तदीयेन बालचन्द्रिकासम्बन्धिना लाव-
ण्येन सौन्दर्येण अवधूतस्तिरस्कृतो धीरभावो धैर्यं यस्य सः । लतान्ता कुसुमानि
बाणाः शरा यस्य सः काम इत्यर्थः तस्य बाणलक्ष्यतां शरण्यत्वम् अयासिषमग-
साथ साथ उज्जैन चला गया। कुछ काल के अनन्तर मैं अपने माता पिता को भी वहीं ले
आया। सकलगुणनिधान चन्द्रपालके पिता बन्धुपालके साथ मालवेशका दर्शन किया तथा
उनकी आज्ञा से उनकी भूमिपर प्रच्छन्नवेश से निवास करने लगा। एकदा वन में आपको
खोजते हुए ज्ञातकर मेरे परम मित्र बन्धुपालने कहा-यह भूमंडल अति विशाल है, इसका
अन्वेषण करना सर्वथा असम्भव है। अतः आप शान्ति धरकर चुप बैठें। शुभ समय आने
पर मैं शुभ शकुन बता दूँगा। तब आप अन्वेषण करें तो सफल होंगे।
(११) उसके उन सुधामय वचनोंको सुनकर मेरा चित्त कुछ शान्त हुआ तथा मैं प्रति
दिन उसके पास जाने लगा। एक दिन मैंने साक्षात् लक्ष्मीस्वरूपा एक सुन्दरीको जो गृहके
समीप रहती थी, देखा। वह अति मनोशा थी। उसके मुखकी शोभा चन्द्रमाके समान थी।