दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
६६ दशकुमारचरितम् । [ पूर्वपीठिकायां
६६ दशकुमारचरितम् । [ पूर्वपीठिकायां
तदैव वर्धते । दोषाकरस्य दुष्कर्म किं वर्ण्यते मया । यदनेन निजसोदर्याः
पद्मालयाया गेहभूतमपि कमलं विहन्यते ।
( १८ ) विरहानलसंतप्तहृदयस्पर्शेन नूनमुष्णीकृतः स्वल्पीभवति मल-
यानिलः । नवपल्लवक्लृप्तं तल्पमिदमनङ्गाग्निशिखापटलमिव सन्तापं
तनोस्तनोति । हरिचन्दनमपि पुरा निजयष्टिसंश्लेषवदुरगरदनलिप्तोल्ब-
णगरलसंकलितमिव तापयति शरीरम् । तस्मादलमलमायासेन शीतलो-
पचारे । लावण्यजितमारो राजकुमार एवागदंकारो मन्मथज्वरापहरणे ।
सोऽपि लब्धुमशक्यो मया । किं करोमि' इति ।
(१६) बालचन्द्रिका मनोज्ज्वरावस्थापरमकाष्ठां गतां कोमलाङ्गीं तां
प्रकर इति । दोषां रात्रिं करोतीति दोषाकरश्चन्द्रः, दोषाणामाकरश्च । निजसोदर्याः
स्वभगिन्याः । लक्ष्मीचन्द्रौ समुद्राज्जाताविति प्रसिद्धिः । विहन्यते मुकुलीक्रियते ।
( १८ ) विरहानलेन सन्तप्तस्य हृदयस्य स्पर्शेन उष्णीकृत उत्तप्तीकृतो मलयानिलः
स्वल्पीभवति नूनं मन्ये । उष्णवस्तुसंसर्गादन्योऽपि शुष्यति अतः स्वल्पीभाव
उष्णत्वञ्च तस्य भवतीति भावः । नवपल्लवकॢप्तं नूतनकिसलयरचितम् । पुरा
प्राक् । निजयष्ट्याः स्वशाखायाः संश्लेषवतः सम्पर्किणः उरगस्य सर्पस्य रदनेन दन्तेन
लिप्तं युक्तं यदुल्बणं तीव्रं गरल विशं तेन संकलितं व्याप्तम् । चन्दनतरौ सर्पाणां
वासः प्रसिद्धः । हरिचन्दनमपि विषलिप्ततया शरीरस्य तापजनकत्वेनोत्प्रेक्ष्यते ।
तस्मादिति—युष्माभिर्यद् यत् शीतलयोपन्यस्यते तत्सर्वमेव मे सन्तापदायकं
भवति—अतो निरर्थकमेव—युष्माभिर्निर्वर्त्यताम् इति भावः । अगदंकारश्चिकित्सकः ।
( १९) परमकाष्ठाम् अतिशयम् । अनन्यशरणामनन्यगतिकाम् । स्मरणीयां
(चन्द्रके ) कृष्णपक्षमें प्रवेश करनेपर सूखने लगता है । और शुक्लपक्षमें इसके बाहर आ
जानेपर पुनः बढ़ने लगता है । मैं इस चन्द्रके दुष्कर्म कहाँ तक कहूँ । यह अपनी सगी
बहिन लक्ष्मीके आधारभूत कमलोंको भी मुकुलित कर देता है।
( १८ ) मेरी वियोगरूपी अग्निके द्वारा सन्तप्त हृदयके स्पर्शमात्रसे उष्ण होकर मलय
पवन भी अल्प हो जाता है । नवीन पल्लवों द्वारा रचित मेरी शय्या तथा बिछौने कामाग्नि
के शिखा-समूहके समान मेरे शरीरको जलाये डाल रहे हैं । चन्दनके वृक्षोंपर लिपटे सर्पों
के दाँतोंके द्वारा गलित विष साक्षात् मूर्त्तिमान होकर चन्दनके लेपके रूपमें मुझे सन्तप्तित
कर रहा है । अतः इन शीतलोपचारवाली वस्तुओंसे मेरा उपचार वृथा है । अपने सौन्दर्य
से कामदेवको जीतनेवाले राजवाहन ही इस कामज्वरको हटानेमें समर्थ हैं । परन्तु खेद है,
कि वे अप्राप्य हैं । हाय अब क्या करूँ ?
(१९) जब बालचन्द्रिकाने देखा कि राजकुमारी सखी अवन्तिसुन्दरी कोमलांगी
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:
पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६६
( २१ ) इति पठित्वा सादरमभाषत-‘सखि, छायावन्मामनुवर्तमा-
नस्य पुष्पोद्भवस्य वल्लभा त्वमेव तस्या मृगीदृशो बहिश्चराः प्राणा इव
वर्तसे । त्वच्चातुर्यमस्यां क्रियालतायामालवालमभूत् । यत्तवाभीष्टं येन
प्रियामनोरथः फलिष्यति तदखिलं करिष्यामि । नताङ्ग्या मन्मनःकाठि-
न्यमाख्यातम् । यदा केलीवने कुरंगलोचना लोचनपथमवर्तत तदैषापहृ-
तमदीयमानसा सा स्वमन्दिरमगात् । सा चेतसो माधुर्यकाठिन्ये स्वय-
मेव जानाति । दुष्करः कन्यान्तःपुरप्रवेशः । तदनुरूपमुपायमुपपाद्य श्वः
परश्वो वा नतांगीं संगमिष्यामि । मदुदन्तमेवमाख्याय शिरीषकुसुमसुकु-
माराया यथा शरीरबाधा न जायेत तथाविधमुपायमाचर’ इति ।
(२२) बालचन्द्रिकापि तस्य प्रेमगर्भितं वचनमाकर्ण्य संतुष्टा कन्या-
(२१) छायया तुल्यं छायावत् यथा छाया पुरुषं सर्वथा अनुसरति तद्वदि-
त्यर्थः । अनुवर्तमानस्य अनुसरतः सर्वदैव मां सेवमानस्येत्यर्थः । बहिश्चराः प्राणाः
द्वितीयमिव जीवितम् । क्रिया कार्यं मत्प्रयोजनमित्यर्थः । सैव लता तस्याम् । आल-
वालं जलसेकभूमिः । ( आलवालं विना लतायाः पुष्टिर्यथा न भवति तथा त्वच्चा-
तुर्यं विना मत्प्रयोजनमपि न सेत्स्यतीति भावः ) । मम मनसः काठिन्यं कठोरता ।
अपहृतं चोरितं मदीयं मानसं चित्तं यया सा । माधुर्यं कोमलता च काठिन्यं कठो-
रता च ते । उपपाद्य कृत्वा श्वः आगामिदिने । परश्वः-द्वितीयदिने ।
(२२) प्रेम्णा गर्भितं प्रेमपूर्णम् । तत्रोद्याने । चकोरस्येव दीर्घे लोचने यस्याः
( २१ ) इस पत्रोत्तरमें राजवाहनने उससे आग्रहके साथ कहा-हे सखि ! पुष्पोद्भव
छायाके समान मेरे पास रहता है । उस पुष्पोद्भवकी वल्लभा तुम हो और उस मृगनयनी
मेरी प्यारीकी सखी हो तथा उसके बाहरी प्राणोंके सदृश इतस्ततः परिभ्रमण करती हो ।
इस कार्यरूपी लतामें तुम्हारी चतुरता अलवाल (थाले) का काम करती है । अतः आपकी
जो अभिलाषा होगी तथा जो अभीष्ट होगा उसे मैं पूर्णतया सफल करूँगा । यद्यपि वह
सुकुमारी मेरे मनको कठोर कहती है परन्तु, मैने जिस समय उस नतांगीको उस उपवनमें
देखा था उसी समयसे वह मेरे मनको चुराकर अपने घर भाग गयी ! वह नतांगी हृदयकी
कठिनता तथा मृदुता खूब जानती है । अस्तु कन्याके अन्तःपुरमें प्रविष्ट होना अति दुष्कर
हैं । अतः वहाँ जानेका कोई सरल उपाय सोचकर मैं कल या परसों उनसे मिलूँगा । इस
रीति से मेरे वृत्तान्तोंको उसे सुनाकर तुम ऐसी युक्ति करो जिससे शिरीषकुसुमके समान
कोमल अङ्गोंवाली इस राजपुत्रीको कोई कष्ट न होवे ।
(२२) वह बालचंद्रिका राजवाहनके इस प्रेमपूर्ण सन्देशको वहनकर प्रसन्नचित्त होकर