सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

६४ दशकुमारचरितम् । [ पूर्वपीठिकायां

६४ दशकुमारचरितम् । [ पूर्वपीठिकायां
भूत्' इति मरालमिव कुमारमुद्दिश्य समुचितालापकलापं वदन्ती पुनः
पुनः परिवृत्तदीननयना वदनं विलोकयन्ती निजमन्दिरमगात् ।
( १६) तत्र हृदयवल्लभकथाप्रसङ्गे बालचन्द्रिकाकथिततदन्वयनाम-
धेया मन्मथबाणपतनव्याकुलमानसा विरहवेदनया दिने दिने बहुलपक्ष-
शशिकलेव क्षामक्षामाहारादिसकलं व्यापारं परिहृत्य रहस्यमन्दिरे मल-
यजरसक्षालितपल्लवकुसुमकल्पिततल्पतलावर्तिततनुता बभूव ।
( १७ ) तत्र तथाविधावस्थामनुभवन्तीं मन्मथानलसन्तप्तां सुकुमारीं
कुमारीं निरीक्ष्य खिन्नो वयस्यागणः काञ्चनकलशसञ्चितानि हरिचन्दनो-
कोपं मा कार्षीरित्यर्थः । मरालमिवेति-यथा राजहंसकुलतिलक इत्यनेन मराल
.उद्दिष्टस्तथा कुमारोऽपीत्यर्थः । परिवृत्ते विवृत्ते दीने विषण्णे नयने यया सा । वदनं
मुखं राजपुत्रस्येति शेषः । मन्दिरं गृहम् ।
( १६) तत्र निजमन्दिरे । बालचन्द्रिकया कथिते प्रकाशिते तदन्वयनामधेये
राजपुत्रस्य कुलनामनी यस्यै सा । दिने दिने प्रतिदिनम् । बहुलपक्षे कृष्णपक्षे या
शशिकला ज्योत्स्ना सेव । अतिक्षीणेत्यर्थः । क्षामक्षामा अतिकृशा । रहस्यमन्दिरे
निर्जनगृहे । मलयजरसेन चन्दनद्रवेण क्षालितः सिक्तैः पल्लवः किसलयैः कुसुमैश्च
कल्पितं रचितं यत् तल्पतलं तत्र आवर्त्तिनी लुठन्ती तनुलता यस्याः सा ।
( १७) खिन्नो विषण्णः । वयस्यागणः सखीवर्गः । हरिचन्दनं चन्दनविशेषः ।
उशीरं नलदं घनसारः कर्पूरं तैर्मिलितानि मिश्रितानि । तस्या अवन्तिसुन्दर्या-
व्यवहारपर आप कुपित नहीं हों और मेरा अनुराग आपपर नहीं यह न समझें तथा
मुझपर अनुराग भी कम न करें । इस रीतिसे राजहंसके बहाने राजकुमारसे विनय करती
हुई वह राजकुमारी दीनतापूर्ण नेत्रोसे राजवाहनको देखती हुई अपने भवनमें माताके साथ
चली गयी ।
( १६ ) घरपर आनेके पश्चात् बालचन्द्रिकाके आनेपर, उसकी बहुत बुरी दशा हो
गयी । जब उसने बालचन्द्रिकाके मुखसे अपने हृदयेश्वरके नाम तथा वंश आदिकी ख्याति
सुनी तब तो वह कामबाणोंसे पूर्ण विद्ध हो गयी और मनमें बड़ी व्याकुल हुई । उसकी
देहकान्ति कृष्णपक्षके चन्द्रके समान बराबर क्षीणप्रभ होने लगी । भोजन तथा शयनादि
सभी व्यापार उसके अव्यवस्थित हो गये । वह एकान्तमें एक कमरेमें चन्दन-वासित जलसे
सींची जाती, तथा पुष्पों और पत्रोंकी शय्यापर लोटती हुई पड़ी रहती ।
(१७) सुकुमारी राजकुमारीको कामदेवपीड़ित सन्तप्त दशाओंमें देखकर उसकी सखियाँ
अत्यन्त खिन्नमुखी तथा दुखी हुईं । वे लोग एक सुवर्णके घड़ेमें मलयगिरि चन्दन, खस,

शीरघनसारमिलितानि तदभिषेककल्पितानि सलिलानि बिसतन्तुमयानि
वासांसि च नलिनीदलमयानि तालवृन्तानि च सन्तापहरणानि बहूनि
संपाद्य तस्याः शरीरमशिशिरयत् । तदपि शीतलोपचरणं सलिल-
मिव तप्ततैले तदङ्गदहनमेव समन्तादाविश्चकार। किंकर्त्तव्यतामूढां विष-
ण्णां बालचन्द्रिकामीषदन्मीलितेन कटाक्षवीक्षितेन बाष्पकणाकुलेन वि-
रहानलोष्णनिःश्वासग्लपिताधरया नताङ्ग्या शनैः शनैः सगद्गदं व्य-
लापि—'प्रियसखि, कामः कुसुमायुधः पञ्चबाण इति नूनमसत्यमुच्यते ।
इयमहमयोमयैरसंख्यैरिषुभिरनेन हन्ये । सखि, चन्द्रमसं वडवानलाद-
तितापकं मन्ये । यदस्मिन्नन्तःप्रविशति शुष्यति पारावारः, सति निर्गते


अभिषेकाय स्नानाय कल्पितानि स्थापितानि । बिसतन्तुमयानि मृणालसूत्र-
रचितानि । अशिशिरयत् शीतलीचकार । सलिलमिव तप्ततैले-तप्ततैले जल निक्षेपाद्
यथा तैलस्याधिकतप्तता जायते तद्वत् तस्याः शरीरे कृतेन शीतलोपचारेण तस्या
दाहाधिक्यमेव जातमिति भावः । दहनम् अग्निम् । किंकर्त्तव्यतामूढामधुनाकिंकर्त्त-
व्यं तन्निश्चेतुमशक्नुवानाम् । विरह एवानलस्तस्योष्मनिःश्वासेन ग्लपितः म्लानोऽ-
धरो यस्यास्तया । काम इति—कामस्य आयुधानि कुसुमानि, तस्य बाणा अपि पञ्च-
संख्यका एवेति यदुच्यते तन्मिथ्या । यतोऽयोमयैर्लोहनिर्मितैरसंख्यैः संख्यातुमश-
क्यैः इषुभिर्बाणैः अनेन कामेन हन्ये हतास्मि । अहमिति शेषः । यस्मिन्निति ।
यस्मिन् चन्द्रमसि । अस्तसमये चन्द्रः पारावारे प्रविशति तदा पारावारस्य वृद्धिनं
भवति, उदयसमये तु पारावारस्य वृद्धिर्भवति-अतो ब्रवीमि चन्द्रस्यान्तः स्थित्या
पारावारः शुष्यति निर्गमेण च वर्धत इति । अत एव च वाडवाग्नेरधिकतापकरः हिम-


कर्पूर आदि मिश्रित जल उसके स्नानार्थ ले आयीं । कमालतन्तुओंके वस्त्र तथा कमलके पत्रोंके
पंखे और सन्तापहरण करनेवाला बहुतसी वस्तुएँ लाकर उसके शरीरपर उपचार करने लगीं
परन्तु वे शीतलोपचारकी वस्तुएं उसे और दाहक प्रतीत होने लगीं और शीतलता न दे सकीं ।
वे वस्तुयें तपे तेलमें पानीके बिन्दुके समान हुई अर्थात्-तापको शान्त न कर सकीं । किं-
कर्त्तव्यविमूढ़ा, दुःखी बालचन्द्रिकाको उसने आँखोंमें आँसू भरे नेत्रोंसे देखा । उस समय
विरहव्यथाग्निसे उसका मुख उदास हो गया था तथा सर्वाङ्ग मुरझा गये थे । विलाप करती
हुई वह गद्गदस्वरमें बोली—हे प्रिय सखी ! संसारी पुरुषोंकी यह बात सर्वथा असत्य हं
कि कामदेवके पाँचों बाण पुष्प-निर्मित हैं वह तो मुझे असंख्य लोहेके तीरोंसे छेद रहा है—
मारे डाल रहा है । हे सखी, जिस चन्द्रमाको लोग हिमराशि कहते हैं वह मुझे वाडवाग्निसे
भी अधिक सन्तापप्रद मालूम पड़ रहा है । यदि ऐसा नहीं होता तो क्योंकर समुद्र इसके