दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३७६ दशकुमारचरितम् [ उत्तरपीठिकायां
३७६ दशकुमारचरितम् [ उत्तरपीठिकायां
त्यभिज्ञा सकरुणमरोदीत् । अवादीच्च-'नाथ, त्वद्दर्शनादुपोढरागां तस्मि-
न्कन्दुकोत्सवे पुनः सख्या चन्द्रसेनया त्वत्कथाभिरेव समाश्वासितास्मि ।
त्वं किल समुद्रमध्ये मज्जितः पापेन मद्भ्रात्रा भीमधन्वना इति श्रुत्वा
सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुरेकाकिनी क्रीडावनमुपा-
गमम् । तत्र च मामचकमत कामरूप एष राक्षसाधमः । सोऽयं मया
भीतयावधूतप्रार्थनः स्फुरन्तीं मां निगृह्याभ्यधावत् । अत्रैवमवसितोऽ-
भूत् । 'अहं च दैवात्तवैव जीवितेशस्य हस्ते पतिता । भद्रं तव' इति ।
( ५१ ) श्रुत्वा च तया सहावरुह्य, नावमध्यारोहम् । मुक्ता च नौः
प्रतिवातप्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत् । अवरूढाश्च वयमश्रमेण
कृतग्रीवा । अभिनिरूप्य समन्ततो दृष्ट्वा । धातेति-जाता उत्पन्ना प्रत्यभिज्ञा स
एवायमिति ज्ञानं यस्याः सा । उपोढरागा-सञ्जातानुरागा । परिजनं दासीवर्गम् ।
जिहासुः त्यक्तुमिच्छुः । अचकमत-कामयामास । कामरूपः । मायावी । अवधूत-
प्रार्थनः-अवधूता तिरस्कृता प्रार्थना यस्य सः । स्फुरन्तीं वेपमानाम् । निगृह्य बला-
दाकृष्य । अत्र अस्मिन् पर्वते एवं-ब्रह्मराक्षसेन सह युद्धं कृत्वा । अवसितः समाप्तिं
गतः निहत इति यावत् । दैवात् अदृष्टवशात् । जीवितेशस्य पत्युः । भद्रं मङ्गलम् ।
( ५१ ) तया कन्दुकावत्या । अवरुह्य पर्वतशिखरादवतीर्य । मुक्ता परि-
चञ्चिता । प्रतिवातप्रेरिता अनुकूलवायुचालिता । उपातिष्ठत्-उपाजगाम । अव-
तो पूर्वपरिचितकी स्मृति आ गयी । तब वह करुणस्वरसे रोकर कहने लगी 'हे स्वामिन् !
उस कन्दुकक्रीड़ामें आपके दर्शनसे उद्भूत रागवती होकर मैं अपनी प्रियसखी 'चन्द्रसेना
द्वारा आपकी कथा-वार्त्ताओंसे समाश्वासित की गयी। मेरे पापी भाई भीमधन्वाद्वारा
आप समुद्रमें डुबवाये गये। यह वृत्त सुनकर मैं अपने परिजन और सहचरियोंको छलकर
अपनी आत्महत्याके लिये अकेली क्रीड़ावनमें भाग आयी । उस क्रीड़ावनमें इस मायावी
राक्षसाधमने मेरे साथ कामेच्छा प्रकट की । भयान्वित मेरे द्वारा उसकी प्रार्थना तिरस्कृता
होनेपर यह राक्षस मुझ कांपती हुई गात्रवालीको जबर्दस्ती पकड़कर ले भागा । वह इस
पहाड़पर इस तरह लड़कर मर भी गया । सौभाग्यसे मैं अपने पतिके ( आपके ) हाथोंमें
ही आ पड़ी । आप तो कुशलतासे हैं ?'
( ५१ ) इन बातोंको श्रवणकर मैं उस कन्दुुकावतीके साथ पहाड़परसे नीचे उतर
आया तथा नावपर सवार हो गया । चलायी हुई नाव अनुकूल पवनके कारण सोधी
उसी दामलिप्ता नगरीमें पहुँची । हम लोग बिना परिश्रमके किनारे पर उतर गये ।
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३७७
'तनयस्य च तनयायाश्च नाशादनन्यापत्यस्तुङ्गधन्वा सुह्मपतिर्निष्कलः
स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनोपरन्तुं प्रतिष्ठते । सह
तेन मर्तुमिच्छत्यनन्यनाथोऽनुरक्तः पौरवृद्धलोकः' इत्यश्रुमुखीनां प्रजाना-
माक्रन्दमश्रृणुम ।
(५२) अथाहमस्मै राज्ञे यथावृत्तमाख्याय तदपत्यद्वयं प्रत्यर्पित-
वान् । प्रीतेन तेन जामाता कृतोऽस्मि दामलिप्तेश्वरेण । तत्पुत्रो मदनु-
जीवी जातः । मदाज्ञप्तेन चामुना प्राणवदुज्झिता चन्द्रसेना कोशदासम-
भजत् । ततश्च सिंहवर्मसाहाय्यार्थमत्रागत्य भर्तुस्तव दर्शनोत्सवसुखम-
नुभवामि' इति ।
रूढा तीरमागता । तनयस्य पुत्रस्य भीमधन्वनः । तनयायाः कन्दुकावत्याः ।
अनन्यापत्यः अनपत्यः । निष्कलो वृद्धः । सकलत्रः सदारः । निष्कलङ्केति निष्क-
लङ्के निष्पापे गङ्गारोधसि गङ्गातटे । अनशनेन उपवासेन । उपरन्तुं मर्तुम् । प्रति-
ष्ठते यात्रां करोति । तेन राज्ञा तुङ्गधन्वना । अनन्यनाथः अशरणः अश्रुमुखीनां
सवाष्पवदनानाम् । आक्रन्दं विलापम् ।
(५२) अहं मित्रगुप्तः । यथावृत्तं यावत्संघटितम् । तदपत्यद्वयं-भीमधन्वानं
कन्दुकावतीञ्च । तेन तुङ्गधन्वना । तत्पुत्रः राजपुत्रो भीमधन्वा । मदाज्ञप्तेन-
मदादिष्टेन । अमुना भीमधन्वना । उज्झिता-त्यक्ता ।
नावसे उतरकर हम लोगोंने आखोंमें आँसू भरे हुए प्रजाजनोंको विलाप करते हुए
देखा । बात यह थी कि वृद्ध सुह्मपति महाराज तुंगधन्वा अपने पुत्र भीमधन्वा और पुत्री
कन्दुकावतीकी मृत्युसे बड़े दुःखी हुए । साथ ही अन्य सन्तान न होने से उन्होंने
निष्कलंकिनी गंगाके किनारे जाकर अपनी रानीके सहित अनशन (उपवास) करके
प्राणोंको त्यागनेकी ठानी थी। उसके साथ नगरके वृद्ध लोगोंने भी अपने प्राणोंको
अनाथ होनेके कारण तथा राजभक्तिके कारण त्यागना ठाना था ।
(५२) विलाप सुनने के पश्चात् मैंने महाराज तुंगधन्वाको उनकी दोनों सन्तानें
अर्पणकर दीं और सभी घटनाएँ भी बतला दीं। उन महाराज दामलिप्तेश्वरने प्रीतिसे
मुझे जामाता बनाया। उनका पुत्र भीमधन्वा मेरा अनुजीवी हुआ। मेरी आज्ञासे
उसने प्राणके समान चन्द्रसेनाको त्याग दिया जो कोशदासकी सेविका हो गयी। इसके
बाद राजा सिंहवर्माकी सहायताके लिये मैं (मित्रगुप्त) यहांपर आया और हे स्वामिन् !
आपके दर्शनसुखके उत्सवका अनुभव कर रहा हूं।'
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
३७८ दशकुमारचरितम् । [ उत्तरपीठिकायां
( ५३ ) श्रुत्वा 'चित्रेयं दैवगतिः । अवसरेषु पुष्कलः पुरुषकारः'
इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः
पातयामास देवो राजवाहनः । स किल करकमलेन किञ्चित्संवृताननो
ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलाधरमणिनिरोष्ठ्यवर्णमात्मच-
रितमाचचक्ष—
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं
नाम षष्ठ उच्छ्वासः ।
( ५३ ) चित्रा विस्मयोत्पादिका । अवसरेषु-योग्यसमयेषु । पुष्कलः प्रचुरः
महान् इति यावत् । स्मितेति-स्मितेन मन्दहास्येन अभिषिक्तौ लिप्तौ दन्तच्छदौ
ओष्ठाधरौ यस्य सः । मन्त्रगुप्ते तन्नामककुमारे । पातयामास अर्पयामास । स
मन्त्रगुप्तः । किञ्चित्संवृताननः-ईषदावृतमुखः । ललितेति-ललितवल्लभया प्रिय-
दयितया रभसेनौत्सुक्येन पौर्वापर्यमविचार्यैव वा दत्तं यद्दन्तक्षतं तेन यद् व्यसनं
पीडा तेन विह्वलश्चञ्चलोऽधरमणिरधरबिम्बं यस्य सः । निरोष्ठ्यवर्णं तदोष्ठे क्षत-
सत्त्वात् ओष्ठ्यवर्णरहितम् ।
इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां
दशकुमारचरितव्याख्यायां मित्रगुप्तचरितं
नाम षष्ठ उच्छ्वासः ।
( ५३ ) राजवाहनने इन बातोंको सुनकर कहा—दैवगति बड़ी विस्मयकारिणी
होती है तथा समयपर पुरुषार्थ भी अति उपकारी होती है । तत्पश्चात् मन्द मुसकान-
द्वारा दोनों अधरोंको अनुलिप्त करके देव राजवाहनने हर्षयुक्त विस्फारित नयनोंसे
मन्त्रगुप्तकुमारको देखा । तब उस मन्त्रगुप्त ने भी कमलरूपी हाथोंसे ओठको
थोड़ा आच्छादित करते हुए अपना वृत्तान्त कहना आरम्भ किया । उसके ओंठपर
उसकी सुन्दरी कामिनीद्वारा दन्तक्षत कर दिया गया था । जिस दन्तक्षतकी व्यथासे
उसके अधरविम्ब व्याकुल थे । अतः मन्त्रगुप्तने ओष्ठ्यवर्ण रहित वर्णोंमें अपना
वर्णन प्रारम्भ किया ।
इस प्रकार से दशकुमार चरितके मित्रगुप्तचरितके षष्ठ उच्छ्वासकी
हिन्दी टीका बालक्रीड़ा समाप्त हुई ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
सप्तमोच्छ्वासः
( १ ) राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च
गतः कदाचित्कलिङ्गान् । कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाहस्थान-
संसक्तस्य कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलयसंस्तरे तले
निषद्य निद्रालीढदृष्टिरशयिषि । गलति च कालरात्रिशिखण्डजालकान्ध-
कारे, चलितरक्षसि क्षरितनीहारे निजनिलयनिलीननिःशेषजने नितान्त-
( २ ) अस्मिन् मन्त्रगुप्तचरिते ओष्ठ्यवर्णान् विहायैव पदानि निबद्धानि कवि-
नेति द्रष्टव्यम् । नगरन्ध्रगतस्य पर्वतगुहाप्रविष्टस्य । ते = वाहनस्य । अहं
मन्त्रगुप्तः । कलिङ्गान् तदाख्यप्रदेशान् । नात्यासन्नेति-नात्यासन्ने किञ्चिद्दूरे
संस्थितमवस्थितं यत् जनदाहस्थानं श्मशानं तत्संसक्तस्य लग्नस्य । कान्तारधर-
णscreen
णिजस्य आरण्यकभूरुहस्य । आस्तीर्णेति-आस्तीर्णः विस्तारितः सरसकिसलयानां
नवीनपल्लवानां संस्तरः शयनीयं यत्र तस्मिन् । तले इत्यस्य विशेषणमेतत् ।
निषद्य उपविश्य । निद्रालीढदृष्टिः निद्राक्रान्तनयनः । अशयिषि निद्रितोऽभवम् ।
गलति-नश्यति-अतिक्रामति सतीति यावत् । कालरात्रीति-कालरात्र्याः संहार-
रजनीरूपाया भगवत्याः 'कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणे'ति सप्तशत्युक्तेः ।
शिखण्डजालकं केशसमूहस्तद्वत् अन्धकारं यस्मिन् तत्र । चलितानि इतस्ततः
सञ्चरणशीलानि रक्षांसि राक्षसा यस्मिन् तत्र । क्षरितो गलितः नीहारो हिमं
यस्मिन् तत्र । निजनिलये स्वस्वगृहे निलीनाः स्थिता निःशेषा अखिला जना
यस्मिन् तत्र । नितान्तं समधिकं शीतं यत्र तादृशे निशीथेऽर्धरात्रे । घनतरेति
(१) [ इस मन्त्रगुप्तके चरितवर्णनमें दण्डि कविने ओष्ठ्यवर्ण रहित वर्णोंमें वर्णन किया है :
ऐसा सुन्दर प्रयास शायद ही किसी अन्य उन्नत भाषामें दृष्टिगत हो, आश्चर्य तो
यह है कि ओष्ठ्य वर्ण रहित होनेपर भी कथापाठमें कुछ भी अरोचकता वा कठिनताकी
प्रतीति नहीं होती है ] मन्त्रगुप्त का चरित्र—राजाधिराजनन्दन ! जब आप
पर्वतगुहामें प्रविष्ट हो गये तब आपकी गतिके जाननेके हेतु मैं ( मन्त्रगुप्त ) कलिङ्गदेशमें
पर्यटन करते हुए पहुँचा । उस कलिङ्गदेशके समीपमें ही श्मशानकी भूमिसे सटे हुए
एक वृक्षके नीचे नूतन पल्लवोंको एकत्र करके उनका बिछौना बनाकर मैं बैठ गया ।
और निद्रासे भरी आँखोंसे वहीं सो गया। कालरात्रिके केशसमूहके सदृश अन्धेरा होनेपर,
राक्षसोंके इधर-उधर गमन करनेसे बर्फके गिरने पर, अपने-अपने गृहोंमें सभी जनोंके
सो जानेपर, खूब ठण्ड पड़नेपर आधी रातमें, अत्यन्त सान्द्र तरुओंकी डालियोंके
२५ द० कु० उ०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
शीते निशीथे घनतरसालशाखान्तरालनिर्हादिनि नेत्रर्निंसिनीं निद्रां नि-
गृह्णन्, कर्णदेशं गतं 'कथं खलेनानेन दग्धसिद्धेन रिरंसाकाले निदेशं
दित्सता जन एष रागेणानर्गलेनादितं इत्थं खलीकृतः । क्रियेतास्याणकन-
रेन्द्रस्य केनचिदनन्तशक्तिना सिद्ध्यन्तरायः' इति किंकरस्य किंकर्र्याश्चा-
तिकातरं रटितम् ।
(२) तदाकर्ण्य 'क एष सिद्धः, का च सिद्धिः, किं चानेन किङ्करेण
करिष्यते' इति दिदृक्षाक्रान्तहृदयः किंकरगतया दिशा किंचिदन्तरं गत-
घनतराणां सान्द्रतराणां सालानां वृक्षाणां शाखान्तरालाणि निर्हादयति अव्यक्त-
शब्दं कारयतीत्येवंशीले, एतदपि निशीथे इत्यस्य विशेषणम् । नेत्रर्निंसिनीं नय-
नचुम्बिनीम् । आगतप्रायामिति भावः । णिसि चुम्बने इत्यस्य धातो रूपमेतत् ।
निगृह्णन् निवारयन् । कर्णदेशं गतं श्रवणे प्रविष्टम् । खलेन दुष्टेन दग्धसिद्धेन हत-
तापसेन । रिरंसाकाले रमणसमये । निदेशमाज्ञां दित्सता कुर्वता । एष जनः-
अहमिति कश्चित् कथयति । रागेण प्रेम्णा । अनर्गलेन अप्रतिबन्धेन । अर्दितः
पीडितः वशीकृत इति यावत् । इत्थमनेन प्रकारेण, असमये निदेशदानेनेति
भावः । खलीकृतः उपद्रुतः । क्रियेत कर्तुं शक्येत सम्भावनायां विधिलिङ् ।
आणकनरेन्द्रस्य-आणकानां कुत्सितानां नरेन्द्रस्य श्रेष्ठस्य-पापस्य विषवैद्यस्य वा ।
अनन्तशक्तिना-समधिकशक्तिशालिना । सिद्ध्यन्तरायः कार्यसिद्धेर्विघ्नः । क्रियेते-
त्यस्य कर्मपदमेतत् । किङ्करस्य दासस्य । किङ्कर्याः दास्याः । अतिकातरं अतिदी-
नम् । रटितं विलपितम् ।
(२) तदाकर्ण्य अहं मन्त्रगुप्त इति शेषः । दिदृक्षेति-दिदृक्षया दर्शनેચ્છया
आक्रान्तं व्याप्तं हृदयं यस्य सः । किङ्करगतया शब्दानुमितया किङ्कराध्यासितया ।
अन्तरालोंसे अस्पष्ट ध्वनि निकलनेपर, नयन-चुम्बिनी निद्राको रोकनेपर, मेरे कानोंमें
सुनायी दिया कि—कौन ऐसा दुष्ट तपस्वी ( हततापस ) है जो हम लोगोंके रमणके
समय भी ऐसी-ऐसी आज्ञाएँ दिया करता है कि 'इस जनको अप्रतिबद्धप्रेमसे वशीभूत
करो' ऐसी बुरी आज्ञाद्वारा वह हमें रमणकालमें तंग करता है । हाय ! ऐसा कोई
नहीं जो इस कुत्सित पापी विषवैद्यको अपनी अधिक शक्तिसे इसकी कार्यसिद्धिमें
विघ्न करता ! उपयुक्त वार्त्ता दास-दासीमें अति दीनतासे हो रही थी ।
(२) इन कथनोंको सुनकर मैं (मन्त्रगुप्त.) 'यह सिद्ध कौन है, इसकी
सिद्धि क्या है, इस किंकरद्वारा क्या किया जाता है ? आदि' । कौतूहलको
देखनेके लिये आक्रान्त हृदयसे किंकरकी ध्वनिवाली दिशामें चला । कुछ दूर
सप्तमोच्छ्वासः ] बालप्रबोधिनीव्याख्यासहितम् । ३८१
स्तरलतरनरास्थिशकलरचितालंकाराक्रान्तकायम्, दहनदग्धकाष्ठनिष्ठा-
ङ्गाररजःकृताङ्गरागम्, तडिल्लताकारजटाधरम्, हिरण्यरेतस्यरण्यचक्रान्ध-
कारराक्षसे क्षणगृहीतनानेन्धनग्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिल-
सिद्धार्थकादीन्निरन्तरचटचटायितानाकिरन्तं, कंचिदद्राक्षम् । तस्याग्रे स
कृताञ्जलिः किंकरः 'किं करणीयम्, दीयतां निदेशः' इत्यतिष्ठत् । आदि-
ष्टश्चायं तेनातिनिकृष्टाशयेन—'गच्छ, कलिङ्गराजस्य कदर्दनस्य कन्यां
कनकलेखां कन्यागृहादिहानय' इति ।
किञ्चिदन्तरं कियद्दूरम् । तरलेति-तरलतरैरतिचञ्चलैः नरास्थिशकलैर्मनुष्या-
स्थिखण्डैः रचितेन निर्मितेन अलङ्कारेण भूषणेन आक्रान्तः व्याप्तः कायः शरीरं
यस्य तादृशम् । दहनेति-दहनेन अग्निना दग्धं यत्काष्ठमिन्धनं तन्निष्ठं तत्र स्थितं
यदङ्गाररजः भस्म तेन कृतः अङ्गरागः अङ्गलेपनं येन तादृशम् । तडिदिति-तडि-
ल्लताकारं विद्युल्लतासदृशीं जटां धरतीति । तादृशम् । हिरण्यरेतसि अग्नौ ।
अरण्येत्यादि-विशेषणद्वयं हिरण्यरेतसीत्यस्य । अरण्येति-अरण्यचक्रे काननमण्डले
ये अन्धकारास्तेषां राक्षसे भक्षके नाशके इति यावत् । तथा क्षणेन स्वल्पसमयेन
गृहीतानां घृतानां नानेन्धनानां विविधकाष्ठानां ग्रासेन भक्षणेन दहनेनेति यावत् ।
चञ्चन्ती स्फुरन्ती अर्चिः शिखा यस्य तादृशे । दक्षिणेतरेण वामेन । सिद्धार्थाः श्वेत-
सर्षपाः । तदादीन् तण्डुलयवांश्चेत्यर्थः । निरन्तरचटचटायितान्-अजस्रं चटचटेति
अव्यक्तशब्दं कुर्वतः । आकिरन्तं क्षिपन्तम् । कञ्चित्पुरुषमिति शेषः । तस्य होमं
कुर्वतः पुरुषस्य । स पूर्वोक्तः । अयं किङ्करः । तेन पुरुषेण । अतिनिकृष्टाशयेन-
अत्यन्तनीचप्रकृतिना । कदर्दन इति कलिङ्गराजस्य नाम ।
गया था कि मैंने देखा—'एक आदमी, मनुष्योंकी हड्डियोंके टुकड़ोंसे बने हुए
अति चंचल अलंकारोंको अपनी देह भरमें पहने हुए है। आगमें जले हुए काष्ठ
आदिकी अंगारभस्मको अपने शरीर भरमें पोते हुए है। जिसकी जटा बिजलीकी
लताके समान (चमकदार) है अर्थात् विद्युल्लताके समान जटाओंको धारण किये
हुए हैं। जो काननमण्डल (वनसमूह) के अन्धकारको नाश करनेमें अग्निके समान
है। क्षण-क्षणमें काष्ठ, ईंधन आदिसे अग्नि प्रज्वलित हो रही थी। जो अपने बायें हाथसे
तिल, सफेद सरसों, यव, चावल आदिसे लगातार हवन कर रहा है। जिससे अग्निमें
लगातार चट-चट शब्द हो रहा है ऐसे हवन करनेवाले, एक आदमीको मैने देखा।
उस हवनकर्त्ताके सम्मुख वह किंकर बद्धाञ्जलि होकर पूछ रहा था—'क्या करना है,
आज्ञा दें।' इस प्रकारसे हाथ जोड़े खड़े हुए उस किंकरको उस नीच बुद्धिवाले हवन
Nepal Sanskrit University, Balmeeki Campus, Kathmandu