सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३३४ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

३३४ दशकुमारचरितम् । [ उत्तरपीठिकायां

कथंचिदक्षीयत क्षपा । क्षपान्ते च कृतयथोचितनियमस्तमेव प्रिया-
दर्शनसुभगमुद्यानोद्देशमुपागतोऽस्मि । तत्रैव चोपसृत्य राजपुत्रो निरभि-
मानमनुकूलाभिः कथाभीमामनुवर्तमानो मुहूर्तमास्त । नीत्वा चोपकार्या-
मात्मसमेन स्नानभोजनशयनादिव्यति करेणोपाचरत् । तल्पगतं च स्वप्ने-
नानुभूयमानप्रियादर्शनालिङ्गनसुखमायसेन निगडेनातिबलवद्बहुपुरुषैः
पीवरभुजदण्डोपरुद्धमबन्धयन्माम् ।
( १५ ) प्रतिबुद्धं च सहसा मामभ्यधात्—'अयि दुर्मते, श्रुतमाल्पितं

द्विवचनस्य । कथंचित्केनापि प्रकारेण-अतिकष्टेनेति भावः । अक्षीयत-प्रभातोऽ-
भवत् । क्षपा रात्रिः । क्षपान्ते निशावशाने । कृतेति-कृताः सम्पादिता यथोचिता
विहिता नियमाः प्रातःकृत्यादिक्रिया येन सः । तं पूर्वदृष्टम् । प्रियेति-प्रियायाः
कन्दुकाबत्या दर्शनेनावलोकनेन सुभगं मनोरमम् । उद्यानॊद्देशम् उपवनप्रदेशम् ।
उपागतः प्राप्तः । तत्रैव उपवने । राजपुत्रः भीमधन्वा । निरभिमानमहङ्कारशून्यं
यथा तथा । अनुकूलाभिः मदभिलषिताभिः । कथाभिर्वार्त्तालापैः । अनुवर्तमानः-
मामुपचरन् । आस्त अतिष्ठत् । नीत्वा प्रापय्य मामिति शेषः । उपकार्यां राज-
सदनम् । आत्मसमेन स्वानुरूपेण । स्नानेति-स्नानभोजनशयनादीनां व्यतिकरः
प्रबन्धस्तेन । उपाचरत्-मामसेवत । तल्पगतं शय्यास्थं शयितमिति यावत् ।
स्वप्नेन स्वप्नावस्थया । अनुभूयमानमनुभवविषयीकृतं प्रियायाः कन्दुकाबत्या
दर्शनालिङ्गनयोः सुखं येन तथाभूतम् । मामित्यस्य विशेषणद्वयम् । आयसेन
लोहमयेन । निगडेन शृङ्खलेन । अतिबलवद्भिर्महाशक्तिशालिभिर्बहुभिरनेकः
पुरुषैः करणभूतैः । पीवरेति-पीवराभ्यां मांसलाभ्यां भुजदण्डाभ्यामुपरुद्धं निरुद्धं
यथा तथा । अबन्धयत् बन्धनं प्रापितवान् ।
( १५ ) प्रतिबुद्धं जागरितं मामिति शेषः । दुर्मते दुष्टबुद्धे । सम्बोधनपदमे-

करते हुए, रात व्यतीत की । प्रभात होनेपर मैं यथाविधि नित्यकृत्य करके उसी बगीचेमें
जा पहुँचा जहाँपर राजपुत्रोके दर्शन हुए थे। उसी बगीचेमें राजपुत्र भीमधन्वा भी आ
गया और मेरे अनुकूल कथाएँ सुनाता हुआ मेरे पास निरभिमान होकर कुछ समयतक
बैठा रहा । फिर मुझे राजसदनमें ले जाकर अपने सदृश स्नान, भोजन और शयन
आदिसे मेरा राजकुमारोचित स्वागत किया । शय्यापर सो जानेपर मैंने स्वप्नमें देखा
कि मैंने राजकन्याके साथ रमणकर उसके आलिंगन सुखको प्राप्त किया । तथा लोहेकी
हथकड़ियोंसे मैं बहुत बलवान् राजपुरुषों द्वारा, जिनकी भुजाए बड़ी मोटी हैं, बन्दी बना
दिया गया हूँ ।
( १५ ) जागनेपर मैं सम्बोधित किया गया-'हे दुर्बुद्धे ! मन्दभाग्या चन्द्रसेनाकी

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३३५
हतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं तच्चेष्टावबोधप्रयुक्तयानया कुब्जया,
त्वं किलाभिलषितो वराक्या कन्दुकावत्या तव कलानुजीविना मया स्थे-
यम्, त्वद्वचः कलानतिक्रमता मया चन्द्रसेना कोशदासय दास्यते'
इत्युक्त्वा पार्श्वचरं पुरुषमेकमालोक्याकथयत् - 'प्रक्षिपैनं सागरे' इति ।
स तु लब्धराज्य इवातिहृष्टः 'देव, यदाज्ञापयसि' इति यथादिष्टमकरोत् ।
(१६) अहं तु निरालम्बनो भुजाभ्यामितस्ततः स्पन्दमानः किमपि
काष्ठं दैवदत्त मुरसोपश्लिष्य तावदप्लोषि, यावदपासरद्वासरः शर्वरी च
सर्वा । प्रत्युषस्यदृश्यत किमपि वहित्रम् । अमुत्रासन्यवनाः ते मामुदूधृत्य
तत् । आलपितं भाषितम् । हताया मन्दभागिन्याः । जालरन्ध्रनिःसृतं गवाक्ष-
च्छिद्रनिर्गतम् आलपितमित्यस्य विशेषणम् । कथमिति ? तच्चेष्टेति । तस्याश्च-
न्द्रसेनायाश्चेष्टावबोधाय ईहितज्ञानाय प्रयुक्तया नियुक्तया । कुब्जया-हीनाङ्ग्या
कयाचित् स्त्रिया । किं श्रुतमिति चेत्-त्वं किलेत्यादि । वराक्या हतभाग्यया ।
अनुजीविना-त्वदायत्तजीवितेन । मया भीमधन्वना । स्थेयं स्थातव्यम् । त्वद्वचः
तव मित्रगुप्तस्य वाक्यम् । अनतिक्रमता-अलङ्घयता । मया भीमधन्वनेत्यर्थः ।
अत्र किल शब्दा असम्भाव्यार्थबोधकाः । पार्श्वचरं-समीपवर्तिनम् । एनं मित्र-
गुप्तम् । सः पुरुषः । यथादिष्टमादेशानुरूपं सागरप्रक्षेपम् ।
(१६) अहं मित्रगुप्तः । निरालम्बनः निराश्रयः । स्पन्दमानः-सञ्चलन् ।
उरसा वक्षसा । उपश्लिष्य आलिङ्गय । तावत्-तावत्कालपर्यन्तम् । अप्लोषि-
प्लवमानोऽभवम् । 'प्लुङ्' प्लवने इत्यस्य धातोलुंङि उत्तमपुरुषैकवचने रूपम् ।
यावत्-यावता कालेन । अपासरत्-अत्यक्रामत् । सर्वा शर्वरी निखिला रात्रिश्चा-
पासरदिति शेषः । प्रत्युषसि प्रभाते । अदृश्यत-दृष्टमभवत् । वहित्रं जलयानम् ।
बातोंको मैंने एक कुब्जाद्वारा सुना, जिसने खिड़कीके छेदोंसे चन्द्रसेनाकी बातें श्रवण
की थीं कि, हतभागिनी कन्दुकावती मेरो भगिनी तुम्हें चाहती है। अतः मैं तेरे अधीन
होकर रहूँगा। और तेरे कथनानुसार मैं चन्द्रसेनाको कोशदाससे उद्वाहित कर दूंगा।'
ऐसा कह कर उसने अपने समीपके एक नौकरको देखकर कहा-'इस मित्रगुप्तको समुद्रमें
फेंक दो ।' उस राजभक्त नौकरने (सेवकने) राज्यप्राप्तिके सदृश प्रसन्नता प्रकट करते
हुए कहा-'जैसी प्रभुकी (आपकी) आज्ञा ।' और मुझे यथादेश समुद्रमें फेंक दिया ।
(१६) निराश्रित होकर मैं बंधी हुई भुजाओंको सञ्चालित करता हुआ समुद्रमें
इधर-उधर डूबता हुआ बह रहा था कि, दैववशात् मुझे एक काठ मिल गया। उस
काठको वक्षःस्थलसे लगाकर मैं एक दिन और एक रात तैरता ही रह गया। दूसरे दिन
Nepal Sanskrit University, Balmeeki Campus, Kathmandu