दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३२४ दशकुमारचरितम् । [ उत्तरपीठिकायां
३२४ दशकुमारचरितम् । [ उत्तरपीठिकायां
देवीं विन्ध्यवासिनीमाराधयितुम् । अनिषिद्धदर्शना चेयमस्मिन्कन्दुको-
त्सवे । सफलमस्तु युष्मच्चक्षुः । आगच्छतं द्रष्टुम् । अहमस्याः सकाशवर्ति-
नी भवेयम्' इत्ययासीत् ।
(६) तामन्वयाव चावाम् । महति रत्नरण्ङ्गपीठे स्थितां प्रथमं ताम्रो-
ष्ठीमपश्यम् । अतिष्ठच्च सा सद्य एव मम हृदये । न मयान्येन वान्तराले
दृष्टा । चित्रीयाविष्टचित्तश्चाचिन्तयम्—'किमियं लक्ष्मीः । नहि नहि ।
तस्याः किल हस्ते विन्यस्तं कमलम्, अस्यास्तु हस्त एव कमलम् । अभु-
क्तपूर्वा चासौ पुरातनेन पुंसा पूर्वराजैश्च, अस्याः पुनरनवद्यमयातायामं
रिका राजपुत्री । अनिषिद्धदर्शना-अनिवारितदर्शना । सर्वैरेनां द्रष्टुमर्हन्तीत्यर्थः।
सफलं-कृतार्थम् । आगच्छतं युवामिति शेषः । अस्याः कन्दुकावत्याः । सकाशव-
र्तिनी समीपस्था । इति-एवमुक्त्वा । अयासीत्-अचलत् ।
(६) तां चन्द्रसेनाम् । अन्वयाव-अनुगतवन्तौ । आवाम्-मित्रगुप्तकोश-
दासौ । रत्नरण्ङ्गपीठे रत्ननिर्मितासने । प्रथमं प्रागेव । ताम्रोष्ठीं-रक्ताधरबिम्बाम् ।
कन्दुकावतीमिति शेषः । अतिष्ठत्-अधिष्ठिताऽभवत् । सद्यस्तत्क्षणम् । अन्त-
राले-मध्ये-पूर्वमिति भावः । चित्रीयेति-चित्रीया विस्मयस्तया आविष्टमाक्रान्तं
चित्तं यस्यासौ । तस्याः लक्ष्म्याः । विन्यस्तं-स्थितम् । अस्याः कन्दुकावत्याः ।
हस्ते कमलमित्यनेन हस्तकमलयोर्भेदः । हस्त एव कमलमित्यनेन च तयोरभेदः
सूचितः । अभुक्तपूर्वा-पूर्वमभुक्ता । असौ-राजपुत्री । पुरातनेन पुंसा-नारायणेन ।
कन्दुक नृत्यसे भगवती.विन्ध्यवासिनी अष्टभुजादेवीकी आराधना करनक लिये आ गयीं ।
इस समय (कन्दुकोत्सवकालमें) सब लोग इनका दर्शन कर सकते हैं (क्योंकि बिना
देखे हुए वे अभिलषित पतिका कैसे वरण करेंगी यद्यपि 'असूर्यम्पश्या राजदाराः' होती
हैं पर इनके लिये देवीका वर अपवादरूपमें है) अपनी दृष्टियोको कृतार्थ कीजिये ।
आप लोग आइये और इनका दर्शन कीजिये । मैं उनकी पार्श्वभूता (सहचरी) रहूँगी ।
ऐसे वाक्य कहकर वह चन्द्रसेना वहाँसे राजकुमारीके समीप चली गयी ।
(६) हम दोनोंने (कोशदास और मित्रगुप्तने) उस चन्द्रसेनाकी गति का अनुसरण
किया । मैंने विशाल रत्नासन पर बैठी हुई, रक्ताधरबिम्बोष्ठी, राजकुमारी कन्दुकावतीको
प्रथम ही देखा । वह उसी समय मेरे मनमें बस गयी । मेरे और राजकुमारीके बीचमें
कोई व्यवधान नहीं दिखाई देता था । मैं आश्चर्यान्वित हृदयसे सोचने लगा-'क्या
यह लक्ष्मी है । नहीं, नहीं, उन लक्ष्मीजीके हाथोंमें तो कमल होते हैं । इस राजकुमारीके
तो हाथ ही कमल हैं । वे पूजनीय लक्ष्मीजी तथा मान्या राज्यलक्ष्मी यथाक्रम भगवान्
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३२५
च यौवनम्' इति चिन्तयत्येव मयि, सानघसर्वगात्री व्यत्यस्तहस्तपल्ल-
वाग्रस्पृष्टभूमिरालोलनीलकुटिलालका सविभ्रमं भगवतीमभिवन्द्य कन्दुक-
ममन्दरागरूषिताक्षममङ्गमिवालम्बत । लीलाशिथिलं च भूमौ मुक्तवती ।
मन्दोत्थितं च किञ्चित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना पाणिपल्लवेन
समाहत्य हस्तपृष्ठेन चोन्नीय, चटुलदृष्टिलाञ्छितं स्तबकमिव भ्रमरमा-
लानुविद्धमवपतन्तमाकाश एवाग्रहीत् । अमुञ्चच्च ।
पूर्वराजैः पूर्ववर्त्तिभिर्नृपैः । लक्ष्मीर्नारायणेनोपभुक्ता-राजलक्ष्मीपि पूर्वर्नृपैरुप-
भुक्ता। इयन्तु केनापि नोपभुक्ता अतो नेयं प्रसिद्धा लक्ष्मीरिति तात्पर्यम् । अनव-
द्यमनिन्द्यम् । अयातयामं-प्रत्यग्रं अनुपभुक्तमिति यावत् । अनघसर्वगात्री-अनघं
निर्दोषं सर्वं निखिलं गात्रं शरीरं यस्याः सा । व्यत्यस्तेति-व्यत्यस्तेन परावर्त्तितेन
हस्तपल्लवाग्रेण करकिसलयाग्रेण स्पृष्टा चुम्बिता भूमिः पृथ्वो यया सा। आलो-
लेति-आलोला ईषच्चञ्चलाः नीलाः कृष्णवर्णाः कुटिला वक्रा अलकाश्चूर्णकु-
न्तलाः यस्याः सा। सविभ्रमं सविलासम् । अमन्देति-अमन्देनातिशयितेन रागेण
रक्तिम्ना-रूषिते भूषिते अक्षिणी नयने यस्य तथाविधमनङ्गं काममिव । आल-
म्बत गृहीतवती । लीलेति-लीलया विलासेन शिथिलं श्लथम् । क्रियाविशेष-
णम् । मुक्तवती क्षिप्तवती । मन्दोत्थितमीषददुद्गतम् कन्दुकमिति शेषः । किञ्चि-
दिति-किञ्चिदीषत् कुञ्चितो वक्रीकृतोऽङ्गुष्ठोऽङ्गुलिविशेषो यत्र तेन । प्रसृतेति-प्रसृता
विस्तारिताः कोमला अङ्गुलयो यत्र तेन । विशेषणद्वयं पाणिपल्लवेनेत्यस्य । समा-
हत्य ताडयित्वा । उन्नीय-उद्ध्र्वीकृत्य । चटुलेति-चटुलया चञ्चलया दृष्ट्या
दृष्टिपातेन लाञ्छितं शोभितम् । अतएव भ्रमरमालया मधुकर्पंक्त्या अनुविद्ध-
मनुसृतं स्तबकं पुष्पगुच्छमिवावपतन्तमधोगच्छन्तम् । आकाशे मध्ये। अग्रहीत्
कन्दुकमिति शेषः ।
विष्णु और पूर्ववर्ती राजाओंसे उपभुक्त हैं। किन्तु यह राजकुमारी तो किससे भी उप-
भुक्त नहीं है। इसके अनिन्द्य अवयव हैं और नूतन अनुपभुक्त तारुण्यशालिनी है। मैं
ऐसे तर्क-वितर्क कर ही रहा था कि उस निर्दोष अङ्गवाली (सर्वाङ्गसुन्दरी) ने अपने
परावर्त्तित हस्तरूपी किसलयोंके अग्रभागसे पृथिवीको स्पर्शित किया। कुछ चंचल तथा
काले टेढ़े बालोंकी चोटीसे विलासपूर्वक अष्टभुजादेवीको प्रणाम किया। फिर अतिशय
रागसे विभूषित नेत्रवाली उसने कामदेवके समान कन्दुकको उठा लिया। पुनः विलाससे
श्लथ गेंदको पृथिवीपर फेंक दिया। ततः ऊपर की ओर उछलते हुए कन्दुकको कुछ संकुचित
अँगूठे तथा फैली हुई अङ्गुलियोंवाले करकिसलयसे ताड़ित कर हाथके पिछले भागसे ऊपर-
Nepal Sanskrit University, Balmeeki Campus, Kathmandu