सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३२२ दशकुमारचरितम् । [ उत्तरपीठिकायां

३२२ दशकुमारचरितम् । [ उत्तरपीठिकायां
तत्रैचोपाविशत् । अशंसच्च-सैषा मे प्राणसमा, यद्विरहो दहन इव
दहति माम् । इदं च मे जीवितमपहरता राजपुत्रेण मृत्युनेव निरुष्मतां
नीतः । न च शक्नोमि राजसूनुरित्यमुष्मिन्पापमाचरितुम् । अतोऽनया-
त्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि निष्प्रतिक्रियान्प्राणान् इति । सा तु
पर्यश्रुमुखी समभ्यधात् - 'मा स्म नाथ, मत्कृतेऽध्यवस्यः साहसम् ।
यस्त्वमुत्तमात्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिरभिहितना-
मधेयः पुनर्मदव्यासङ्गाद्वेशदास इति द्विषद्भिः प्रख्यापितोऽसि, तस्मिंस्त्व-
सन्-अकथयत् मामिति शेषः । सा मया पूर्वमुक्ता । यद्विरहः यस्याः प्राणसमा-
या विरहो विच्छेदः । दहनः अनलः । जीवितं प्राणान् । अपहरता-विनाशयता ।
राजपुत्रेण-भीमधन्वना । निरुष्मतां-निष्प्राणताम् । नीतः प्रापितः अहमिति
शेषः । राजसूनुः राजपुत्र इति हेतोः । अमुष्मिन्-राजपुत्रे । पापमनिष्टम् । आच-
रितुं विधातुम् । अतः प्रतीकारामसमर्थत्वात् । अनया मत्प्राणसमया । आत्मानं सु-
दृष्टं कारयित्वा एतस्यां मेऽनन्यसाधारणोऽनुरागो वर्त्तत इति विश्वासमुत्पाद्येति
भावः । निष्प्रतीति-निन्नास्ति प्रतिक्रिया प्रतीकारो येषां तान् । इत्यन्तं युवकवच-
नम् । सा त्वित्यादि पुनर्मित्रगुप्तस्योक्तिः । सा चन्द्रसेनानाम्नी अङ्गना । पर्यश्रुमुखी-
वाष्पपूर्णवदना रुदतीति यावत् । समभ्यधादकथयत् । मास्मेत्यस्य अध्यवस्य इति
क्रियया सम्बन्धः । नाथेति सम्बोधनम् । मत्कृते मदर्थम् । अध्यवस्यः साहसं मा
कार्षीः । मदर्थं त्वया प्राणा न त्यक्तव्या इति भावः । अध्यवस्य इति अधि-अव-
पूर्वक सो धातोलँङि रूपम् । उत्तमात्-श्रेष्ठात् । सार्थवाहात् वणिजः । अर्थदास
इति युवकस्य पितुर्नाम् । उत्पद्य-जन्म लब्ध्वा । कोशदास इति युवकस्य नाम । गु-
रुभिः पित्रादिभिः । अभिहितनामधेयः कृतनामकरणः । मद्व्यासङ्गात्-मयि अव्या-
सक्तेः कारणात् । वेशदासः-वेश्यादासः । द्विषद्भिः-तव शत्रुभिः । प्रख्यापितः-
कहा- 'यह मेरी प्राणप्यारी है जिसका वियोग मुझे अग्नि के सदृश जलाता था । मेरे
इस जीवनके अपहरण द्वारा राजकुमारने मुझे निष्प्राण बना दिया था । राजकुमार
होनेके कारण मैं उसका कुछ भी अनिष्ट नहीं कर सकता हूँ। अत एव मैं अपना दर्शन
इस अङ्गनाको कराकर अब अपने प्राणोंको त्याग दूँगा क्योंकि इसके अतिरिक्त मेरे
पास कोई प्रतिक्रिया नहीं। उपर्युक्त बातें श्रवणकर रोती हुई चन्द्रसेना बोली- 'हे नाथ !
मेरे लिये आप ऐसा साहसका काम न करें क्योंकि श्रेष्ठ सार्थवाहसे आप उत्पन्न हुए
हैं और आपके बड़े लोगोंने आपका नाम कोशदास रखा है। फिर मेरे ऊपर आपकी
आसक्ति होनेके हेतु आपका नाम 'वेशदास' प्रख्यात किया है। ऐसे मुझपर अनुरक्त

षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३२३
द्युपरते यद्यहं जीवेयं नृशंसो वेश इति समर्थयेयं लोकवादम् । अतोऽद्यैव
नय मामीप्सितं देशम् इति ।
(५) स तु मामभ्यधत्त—'भद्र, भवद्दृष्टेषु कतमत्समृद्धं संपन्नसस्यं
सत्पुरुषभूयिष्ठं च' इति । तमहमीषद्विहस्याब्रवम्—'भद्र, विस्तीर्णेयमर्ण-
वाम्बरा । न पर्यन्तोऽस्ति स्थानस्थानेषु रम्याणां जनपदानाम् । अपितु
न चेदिह युवयोः सुखनिवासकारणं कमप्युपायमुत्पादयितुं शक्नुयाम्
ततोऽहमेव भवेयमध्वदर्शी' । तावतोदैरत रणितानि मणिनूपुराणाम् ।
अथासौ जातसंभ्रमा 'प्राप्तैवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन
प्रसिद्धीकृतः । तस्मिन् तादृशे । उपरते=मृते । जीवेयं-प्राणिष्यामि । नृशंसः-क्रूरः ।
वेशः-वेश्याजनः । समर्थयेयं-दृष्टान्तेन दृढीकरिष्यामि । लोकवादं जनोक्तिम् ।
नय-प्रापय । अभीप्सितं-स्वन्मनोगतम् ।
(५) स कोशदासः । मां मित्रगुप्तमित्यर्थः । राष्ट्रेषु-जनपदेषु । समृद्धं-प्रचु-
रधनम् । सम्पन्नशस्यं पर्याप्तधान्यम् । सत्पुरुषभूयिष्ठं-सज्जनबहुलम् । तं-कोश-
दासम् । अहं-मित्रगुप्तः । विस्तीर्णा-विशाला । अर्णवाम्बरा पृथ्वी । पर्यन्तः शेषः ।
अपितु-किन्तु । इह दामलिप्तनगरे । सुखेति-सुखेन निवासो वसतिस्तस्य कारणं
जनकम् । उत्पादयितुं कर्तुम् । ततस्तर्हि । अध्वदर्शी मार्गदर्शकः । अहमेव युवा-
मन्यत्र नेष्यामीति भावः । तावता-तस्मिन् काले । उदैरत-उत्पन्नानि बभूवुः । ईण्
गतौ कम्पने चेत्यस्य धातोलँङि आत्मनेपदस्य बहुवचने रूपम् । रणितानि-
शब्दाः । असौ-चन्द्रसेना । जातसम्भ्रमा-उत्पन्नसंवेगा । प्राप्ता-आगता । भर्तृदा-
आपकी मृत्युपर यदि मैं जीवित रहूं तो सब लोग मुझे क्रूर वेश्या कहेंगे । और मैं इस
लोकापवादको दृढ़ करनेवाली हो जाऊँगी कि 'वेश्याएँ क्रूर होती हैं।' अत एव आज
ही आप मुझे चाहे जिस देशमें ले चलिये।'
(५) उसने उस चन्द्रसेनाकी बातें श्रवणकर मुझसे कहा—'हे सौम्य ! आपने
अनेक देशोंको पर्यटनकर देखा है। कृपया बताइये कि कौनसा देश धनसे तथा धान्यसे
परिपूर्ण एवं भले मनुष्योंसे विभूषित है।' उस कोशदाससे मैने (मित्रगुप्तने) हँसकर
कहा—'हे सौम्य ! यह समुद्रपरिधाना पृथिवी अति विशाल है। इसमें स्थान-स्थानपर
रमणीय नगर बसे हैं जिनका परिगणन नहीं हो सकता । यदि आपलोग इस दामलिप्त
नगरमें सुखसे रहनेमें असमर्थ हैं तो मै कोई उपाय रचूँ और आप लोगोंका मार्गदर्शक
होकर कहीं दूसरे स्थलमें ले चलूँ।' इसी क्षणमें मणि-नूपुरोंकी बजती हुई ध्वनि मालूम
पड़ी । तत्क्षण ही वह चन्द्रसेना सम्भ्रमित होकर बोली 'ये राजकुमारी कन्दुकावती