दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३१० दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
३१० दशकुमारचरितम् । [ उत्तरपीठिकायां
देनामभ्युपगमय्य गत्वा तदेव खर्वटं वृद्धविटेन समगंसि । ससम्भ्रमं
सोऽपि विश्रमय्य तथैव स्नानभोजनादि कारयित्वा रहस्यपृच्छत्-‘आर्य,
कस्य हेतोरचिरेणैव प्रत्यागतोऽसि’ ।
(२०) प्रत्यवादिषमेनम्-‘स्थान एवाहमार्येणास्मि पृष्टः । श्रूयताम् ।
अस्ति हि श्रावस्तीनाम नगरी । तस्याः पतिरपर इव धर्मपुत्रो धर्मवर्धनो
नाम राजा । तस्य दुहिता, प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः,
सौकुमार्यविडम्बितनवमालिका, नवमालिका नाम कन्यका । सा मया
समापत्तिदृष्टा कामनाराचपङ्क्तिमिव कटाक्षमालां मम मर्मणि व्यकिरत् ।
करणं कारकम् । आरचय्य-कृत्वा । एनां युवतिम् । अभ्युपगमय्य-सम्यग् बोध-
यित्वा-प्रतिज्ञायेति यावत् । तदेव पूर्वोक्तम् । खर्वटं ग्रामम् । समगंसि सङ्गतोऽ-
भवम् । ससम्भ्रमं-सचकितम् । स वृद्धविटः । विश्रमय्य विश्रामं कारयित्वा मा-
मिति शेषः । रहसि एकान्ते । कस्य हेतोः-किमर्थम् । अचिरेण-अतिसत्वरम् ।
(२०) प्रत्यवादिषं प्रत्युत्तरमदाम् । एनं वृद्धविटम् । स्थाने-युक्तम् । आ-
र्येण-भवता । तस्याः श्रावस्त्याः । धर्मपुत्रः युधिष्ठिरः । प्रत्यादेशः निराकृतिः
प्रत्याख्यानमिति यावत् । लक्ष्म्या अपि विजेत्रीत्यर्थः । प्राणाः-जीवनम् । सौकु-
मार्येति-सौकुमार्येण कोमलतया विडम्बिता कदर्थिता नवमालिका यया सा ।
समापत्तिदृष्टा-यद्च्छावलोकिता । कामनाराचपङ्क्तिं मदनबाणपरम्पराम् । मर्मणि-
हृदयादिमर्मस्थले । व्यकिरत्-विक्षिप्तवती । तच्छल्येति-तस्य शल्यस्य कीलस्यो-
मैंने कहा—‘यदि आपकी सखीका प्रेम मनसे मेरे ऊपर है तो वे कुछ दिन और इसी तरह
बितावैं । फिर मैं कन्यापुरमें निवास करनेका कोई निश्शंक उपाय रचकर वहाँपर आऊँगा ।
इस प्रकारसे उस बालाको समझाकर मैं पुनः उसी वृद्धके गाँव लौट आया । आश्चर्यके
साथ उस वृद्धने मेरा पूर्वकी तरह स्नान-भोजनादि द्वारा स्वागत सत्कार करके एकान्तमें
पूछा—‘हे आर्य ! किस कारणसे इतनी जल्दी ही लौट आये ?’
(२०) मैंने उस वृद्धको उत्तर दिया—‘आपने मुझसे उचित रीतिसे और योग्य अव-
सरपर यह प्रश्न किया—सुनिये, श्रावस्ती नामकी नगरी है । उसका स्वामी, दूसरे
धर्मपुत्रके समान, धर्मवर्धन नामक राजा है । उसकी पुत्री लक्ष्मी के समान है जो काम-
देवकी प्राणोंके समान प्रिया है। जिसका नाम नवमालिका है । जो अपनी सुकुमारतासे
नवीन लताओंको भी तिरस्कृत करनेवाली है। वह मुझे अकस्मात् दिखलायी पड़ी।
उसने मुझे देखकर अपने कामबाणोंके समान कटाक्षोंसे मेरे वक्षःस्थलको बेध डाला है ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३१६
तच्छल्योद्धरणाक्षमश्च धन्वन्तरिसदृशस्त्वदृते नेतरोऽस्ति वैद्य इति प्रत्या-
गतोऽस्मि । तत्प्रसीद कञ्चिदुपायमाचरितुम् ।
( २१ ) अयमहं परिवर्तितस्त्रीवेषस्ते कन्या नाम भवेयम् । अनुगतश्च
मया त्वमुपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि—'ममेयमेकैव दुहिता ।
जातमात्रायां त्वस्यां जनन्यस्याः संस्थिता । माता च पिता च भूत्वाहमेव
व्यवर्धयम् । एतदर्थमेव विद्यामयं शुल्कमर्जितुं गतोऽभूदवन्तिनगरीमुज्ज-
यिनीमस्मद्वैवाह्यकुलजः कोऽपि विप्रदारकः। तस्मै चेयमनुमता दातुमित-
रस्मै न योग्या । तरुणीभूता चेयम् । स च विलम्बितः । तेन तमानीय
द्धरणे निष्कासनेऽक्षमोऽसमर्थः । धन्वन्तरिसदृशः-धन्वन्तरितुल्यः । त्वद् । भवतः ।
ऋते विना । इतरः अन्यः कोऽपि । वैद्यः-चिकित्सकः । प्रसीद-प्रसन्नो भव । आच-
रितुं कर्तुम् ।
( ३१ ) अयमहं-अहमेव । परीति-परिवर्त्तितो धृतः स्त्रियाः कामिन्या वेषः
स्वरूपं येन सः, नामेत्यलीके । अनुगतः अनुसृतः । त्वं वृद्धविटः इत्यर्थः । धर्मा-
सनगतं विचारासनोपविष्टम् । जातमात्रायां स्वस्यां-जन्मसमये एव । संस्थिता-
मृता । व्यवर्धयमपालयमेनामिति शेषः । एतदर्थ-इमां कन्यां परिणेतुम् । विद्या-
मयं-विद्यारूपम् । शुल्कं पणम् । विदुषे एव कन्या समर्पणीया भवतीति हेतोः
तां विद्यामर्जितुं अध्येतुम् । गतोऽभूत् गतवान् । अस्मदिति-अस्माकं वैवाह्ये
विवाहयोग्ये कुले वंशे जातः । कोऽपि-अनिर्दिष्टनामा । विप्रदारकः ब्राह्मणकुमारः ।
तस्मै विप्रदारकाय । दातुं-सम्प्रदानार्थम् । इयं-कन्या । अनुमता-अभिलषिता ।
इतरस्मै-अन्यजामात्रे न योग्या दातुमिति शेषः । तरुणीभूता-यौवनमधिगता ।
स जामाता । विलम्बितः-विद्याध्ययनार्थं बिलम्बं करोनात्यर्थः । तेन-तेन
उन बाणोंको निकालनेमें केवल आपही एक धन्वन्तरिके तुल्य वैद्य हैं—अन्य कोई है
ही नहीं। इसी हेतु मैं आपके पास आया हूँ । अतः प्रसन्न होकर उपाय कीजिये ।
( २१ ) और मैंने कहा-मै अपने रूपको बदलकर आपकी पुत्रीरूपमें हो जाता
हूँ । जब राजा धर्मासनपर आरूढ़ रहे तब आप मुझे लेकर उसके सम्मुख उपस्थित
होइये और कहिये कि मेरी केवल यही एक पुत्री है । इसके जन्मकालमें ही इसकी
जननी परलोक सिधार गयी । मैंने माता-पिता दोनों बनकर इसे पाला है । मैने
अवन्तिका ( उज्जयिनी ) नगरीमें जाकर अपनी जाति और कुलके अनुरूप एक विद्वान्
ब्राह्मण-कुमारको इसके विवाहके लिये राजी किया है, परन्तु वह कुमार नियतकाल
हो जाने पर भी यहां नहीं आया है अतः मैं चिन्तित हो रहा हूँ । मैं चाहता हूँ कि
Nepal Sanskrit University, Balmeeki Campus, Kathmandu