दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२८० दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
२८० दशकुमारचरितम् । [ उत्तरपीठिकायां
भूयोभूयः शिरसि जिघ्रन्त्यङ्कमारोपयन्ती, तारावलीं गर्हयन्त्यालिङ्गन्त्य-
श्रुभिरभिषिञ्चती चोत्कम्पिताङ्गयष्टिरन्यादृशीव क्षणमजनिष्ट ।
(२२) जनयिताऽपिमे नरकादिव स्वर्गम्, तादृशाद् व्यसनात्तथाभूत-
मभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथावृत्तान्तमावेदितो भगवतो मघ-
वतोऽपि भाग्यवन्तमात्मानमजीगणत् । मनागिव च मत्संबन्धमाख्याय
हर्षविस्मितात्मनोः पित्रोरकथयम्—'आज्ञापयतं काद्य नः प्रतिपत्तिः'
इति । पिता मे प्राब्रवीत्—'वत्स, गृहमेवेदमस्मदीयमतिविशालप्राकार-
श्रोतुमित्यर्थः । जिघ्रन्ती-घ्राणं कुर्वती । अङ्कमारोपयन्ती-अर्थपालं उत्सङ्गे समुप-
वेशयन्ती । गर्हयन्ती-निन्दन्ती । अभिषिञ्चती-आर्द्रीकुर्वती मामिति-शेषः ।
उत्कम्पितेति-उत्कम्पिता जातोत्कम्पा अङ्गयष्टिः शरीरलता यस्याः सा । अन्या-
दृशी-अन्याकारा । क्षणं-मुहूर्त्तं व्याप्य । अजनिष्ट-जाता ।
(२२) नरकादिव स्वर्गमिति-यथा कश्चिन्नरकात्स्वर्गमारोहति तथा मे पिता
कामपालोऽपि । तादृशात्-नरकसदृशात् । व्यसनात्-नेत्रोत्पाटनरूपाद् दुःखात् ।
तथाभूतं-तादृशं पुनर्जीवनपुत्रप्राप्तिरूपम् । अभ्युदयमभ्युन्नतिम् । आरूढः-प्राप्तः
सन् । यथावृत्तान्तं-वृत्तान्तमनातिक्रम्य-यथायथरूपेणेत्यर्थः । आवेदितः-कथितः ।
मघवतः-इन्द्रात् । मनाक्-स्वल्पम् । मत्संबन्धं-स्वविषयम् । हर्षेति-हर्षेणानन्देन
विस्मित आश्चर्य्यान्वित आत्मा ययोस्तादृशयोः । पित्रोः-मातापित्रोः समीपे इति
शेषः । आज्ञापयतं युवामिति योज्यम् । का-कीदृशी । नोऽस्माकम् । प्रतिपत्तिः-
इतिकर्त्तव्यता । अतिविशालेति-अतिविशालोऽतिविस्तीर्णः प्राकारवलयः प्राचीर-
शालिनीके मेरे समान अल्प पुण्यवाले व्यक्ति तुम्हारे अव्यक्त मधुर भाषणरूपी
सुधाको कणोंद्वारा पान नहीं कर सकते हैं। यहाँ आओ आलिङ्गन दो। इस प्रकारसे
उन्होंने पुनः पुनः मेरे शिरको सूँघते हुए मुझे गोदमें बिठाया । तारावलीकी निन्दा करते
हुए मेरा आलिङ्गन किया। आसुओंसे मुझे भिंगाया । शरीर को कंपाते हुए क्षणभर अपूर्व
आकृति दर्शायी ।
(२२) पूर्णभद्रके द्वारा मेरे पिताने, सम्पूर्ण विस्तृत वृत्तको ज्ञातकर अपनेको उस
कष्टसे रहित पाकर अपूर्व अभ्युदयकी प्राप्तिका अनुभव किया। जैसे नरकसे छूटकर
उन्होंने स्वर्गका आनन्द प्राप्त किया हो ] वे अपनेको भगवान् इन्द्रसे अधिक भाग्यशाली
मानने लगे। थोड़ासा अपना समाचार सुनाकर मैंने हर्ष और आश्चर्यके साथ अपने
जननी-जनकसे कहा—'आज्ञा दीजिये कि, अब मेरा क्या कर्त्तव्य है।' मेरे पिताने कहा-
हे वत्स ! यहाँपर मेरा अत्यन्त विशाल भित्तिवलयवाला (चहारदीवारीसे घिरा) गृह है
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २८१
वलयमक्षय्यायुधस्थानम् । अलङ्घ्यतमा च गुप्तिः । उपकृताश्च मयाति-
बहवः सन्ति सामन्ताः । प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते ।
सुभटानां चानेकसहस्रमस्त्येव ससुहृत्पुत्रदारम् । अतोऽत्रैव कतिपयान्य-
हानि स्थित्वा बाह्याभ्यन्तरज्ञांन्कोपानुत्पादयिष्यामः । कुपितांश्च संगृह्य
प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामः'
इति । 'को दोषः, तथास्तु' इति तातस्य मतमन्वमंसि ।
(२३) तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो
मण्डलं यस्य तत् । अक्षय्येति-अक्षय्याणामपरिमितानामायुधानाम्स्त्राणां स्थानं
पात्रम् । विशेषणद्वयं गृहस्य । अलंघ्यतमा-अतिशयेनानतिक्रमणीया परैरिति शेषः ।
गुप्तिः रक्षा भूगृहं वा । उपकृताः कृतोपकाराः । सामन्ताः अधीननृपतयः । प्रकृ-
तयः-प्रजाः । भूयस्योऽसंख्याः । व्यसनमनिष्टम् । अनुरुध्यन्ते-अनुमन्यन्ते । ममा-
निष्टं नेच्छन्तीत्यर्थः । सुभटानां सुयोधूणाम् । ससुहृत्पुत्रदारं स्वस्वमित्रपुत्रकुटुम्बा-
दिसहितम् । अत्रैव-अस्मद्गृह एव । बाह्याभ्यन्तेति-बाह्यान् बहिरङ्गान् प्रकृति-
सम्बन्धिनः तथा अभ्यन्तरङ्गान् अमात्यादिसम्बन्धिनः कोपान् क्रोधान् । संगृह्य-
वशमानीय । प्रोत्साह्य धनमानादिना प्रोत्साहितान् कृत्वा । अस्य सिंहघोषस्य ।
प्रकृत्यमित्रान्-प्राकृतशत्रून् । सहजान् द्विषः-सहजशत्रून् । उत्थाप्य-तद्विरोधाय
प्रोत्साह्य । दुर्दान्तं-दुर्धर्षम् दुर्विनीतं वा । एनं सिंहघोषम् । उच्छेत्स्यामः-समूल-
मुन्मूलयिष्यामः । मतमभिप्रेतम् । अन्वमंसि-अनुमोदितवान् ।
(२३) तथा तेन पूर्वोक्तेन प्रकारेण । प्रतिविधाय-प्रतिविधानं कृत्वा । राजा-
सिंहघोषः । विज्ञापितोदन्तः-विदितवार्त्तः । जातानुतापः-कृतानुशोचनः । पार-
और नाश न होनेवाले शस्त्रोंके रखनेका भी स्थान है । अलंघनीय रक्षागृह (तहखाने)
हैं। मेरेद्वारा उपकृत अनेकों सामन्तगण हैं। असंख्य प्रजावर्ग हैं जो मेरे दुःखको नहीं
सहन कर सकते हैं। कई हजार योद्धा हैं जो अपने मित्र-स्त्री-पुत्रादिकों सहित (मेरी
ओर)। हैं अतः इसी जगह कुछ दिनों रहकर बहिरङ्ग तथा अन्तरङ्ग व्यक्तियोंमें वैर
कराऊँगा। और वैरीयोंको (क्रोधी व्यक्तियोंको) एकत्र कर उन सबको प्रोत्साहन
दूंगा । फिर इस राजा सिंहघोषके प्रकृत शत्रु तथा सहज बैरियोंको उभार करके इस
दुर्विनीत राजाको नष्ट करा दूंगा', 'क्या दोष है स्वीकार है'। ऐसा कहकर मैंने पिताकी
बातोंको अनुमोदन किया ।
(२३) जब हम लोगोंने ऐसा प्रतिविधान रचा और स्थिर हुए । तब राजा सिंहघोषने
इन सब वृत्तान्तोंको ज्ञात करके अत्यन्त शोच प्रकट किया । और उसने पारिश्रामिक
Nepal Sanskrit University, Balmeeki Campus, Kathmandu