दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२७८ दशकुमारचरितम् । [ उत्तरपीठिकायां
२७८ दशकुमारचरितम् । [ उत्तरपीठिकायां
सह चिताधिरोहणाय माम्' इति । श्रुत्वा चैतत्प्रीतियुक्तः समादिक्षत्क्षि-
तीश्वरः—'क्रियतां कुलोचितः संस्कारः । उत्सवोत्तरं च पश्चिमं विधिसं-
स्कारमनुभवतु मे भगिनीपतिः' इति ।
(२०) चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते 'काम-
पालोऽपि कालदष्ट एव' इति स्वभवनोपनयनममुष्य स्वमाहात्म्यप्रकाश-
नाय महीपतिरन्वमंस्त । आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्या-
मधिशाय्य स्थितोऽभूत् ।
( २१ ) अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य,
मुहुश्चिप्रणम्य भवनदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे शयन-
न करिष्यामि तर्हि ऐहिकसुखासक्ता पातिव्रत्योचितं नानुष्ठितवतीति जना मां
निन्दिष्यन्तीति भावः । अनुमन्तुं अनुज्ञातुम् । उत्सवोत्तरं उत्सवप्रधानम् । पश्चि-
मम्-अन्त्यम् । विधिसंस्कारम्-अन्त्येष्टिपद्धत्युक्तदाहक्रियाम् ।
( २९ ) चण्डाले-पूर्वमेव सर्पदष्टे घोषणाकारिणि । मत्प्रतिषिद्धेति-मयाऽ-
र्थपालेन प्रतिषिद्धो रुद्धः सकलानां मन्त्रवादिनां गारुडिकानां प्रयासो विषापहर-
णप्रयत्नो यस्मिन्-तथाभूते । संस्थिते-मृते सति । अमुष्य-कामपालस्य । स्वमा-
हात्म्यप्रकाशनाय-स्वीकीयोदारताप्रकटनार्थम् । अन्वमंस्त-अनुमोदितवान् ।
( २१ ) मरणमण्डनं-मृत्युकालोचितभूषणम् । सखीः-सहचरीः । भवनदेवताः-
गृहदेवताः । अभिप्रणम्येत्यस्य कर्म । यत्ननिवारितेति यत्नेन निवारितं परिजनस्य
स्वजनवर्गस्याक्रन्दितं विलापो यया सा । वैनतेयतां गरुडताम् । गतेन-प्राप्तेन-
कुलको कलङ्कित करनेवाली कहलाऊँगी । अतएव आप पतिके साथ चितामें अधिरोहण
करनेकी मुझे अनुमति देने योग्य हैं।' इन बातोंको सुनकर राजाने प्रेमपूर्वक आदेश दिया
कि, 'वंशके अनुकूल संस्कार करिये और उत्सव मनानेके अनन्तर कहा कि, मेरी बहिनके
पतिका अन्तिम संस्कार विधिसे हो।'
( २० ) मुझे छोड़कर और सभी मन्त्रशास्त्रियोंने उस दंशित चाण्डालकी झाड़ फूँक
की, किन्तु, वह सब व्यर्थ सिद्ध हुई । 'कामपालको भी कालने ही डस लिया है' ऐसा
जानकर राजाने अपनी उदारता दिखानेके लिये कामपालको घर ले जानेकी अनुमति दे
दी। लोगोंने मेरे पिताको लाकर एकान्त पृथ्वीतलपर कुशाकी शय्यापर लिटा दिया।
( २१ ) तदनन्तर मेरी माता कान्तिमतीने मृत्युकालका वेष रचकर करुणायुक्त होकर
सहचरीवर्गोंको बुलाया । भवनदेवताको बार-बार प्रणाम किया । यत्नके साथ अपनी
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २७६
स्थानमेकाकिनी प्राविक्षत् । तत्र च पूर्वमेव पूर्णभद्रोपस्थापितेन च मया
वैनतेयतां गतेन निर्विषीकृतं भर्तारमैक्षत । हृष्टतमा पत्युः पादयोः
पर्यश्रुमुखी प्रणिपत्य मां च मुहुर्मुहुः प्रस्नुतस्तनी परिष्वज्य सहर्षबाष्प-
गद्गदमगदत्—'पुत्र, योऽसि जातमात्रः पापया मया परित्यक्तः, स
किमर्थमेवं मामतिनिर्घृणामनुगृह्णासि । अथवैष निरपराध एव ते जन-
यिता । युक्तमस्य प्रत्यानयनमन्तकाननात् । क्रूरा खलु तारावली या
त्वामुपलब्ध्यापि तत्त्वतः कुबेरादसमर्प्य मह्यमर्पितवती देव्यै वसुमत्यै
सैव वा सदृशकारिणी । नहि तादृशाद्भाग्यराशेर्विना मादृशो जनोऽल्पपु-
ण्यस्त्वार्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् । एहि, परिष्वजस्व' इति
गारुडविद्यायां कुशलेनेत्यर्थः । निर्विषीकृतं विषशून्यम् । पर्यश्रुमुखी परिगतमश्रु
नयनजलं यत्र तादृशं मुखं यस्याः सा । प्रणिपत्येत्यस्य पत्युः पादयोरित्यनेन
सम्बन्धः । प्रस्नुतस्तनी क्षरतपयोधरा । सहर्षेति-हर्षेणानन्देन सह यद्बाष्पमश्रु
तेन गद्गदम् । जातमात्रः उत्पन्न एव । किमर्थं कथम् । एवं एतेन प्रकारेण पत्युः
प्राणदानेनेति भावः । अतिनिर्घृणाम् अतिनिष्क करुणाम् । जनयिता पिता काम-
पालः । युक्तमुचितम् । अस्य पितुः । अन्तकाननात् मृत्युमुखात् । क्रूरा निर्दया ।
उपलभ्य-ज्ञात्वा । तत्त्वतः-याथार्थ्येन । कुबेरादिति-कुबेरेणैवार्थपालस्य जन्म-
वृत्तान्तः प्रकाशित आसीदिति भावः । असमर्प्य-अदत्त्वा । सैव-तारावल्येव ।
सदृशकारिणी-उचितविधात्री । तादृशात्-वसुमतीश्रूपात् । भाग्यराशेः-प्रचुर-
सौभाग्यशालिजनात् । विनायोगे पञ्चमी । अल्पपुण्यः-अल्पं पुण्यं यस्यासौ ।
कलप्रलापेति-कलोऽव्यक्तमधुरो यः प्रलापो भाषणं तदेवामृतं सुधा तानि । पातुं-
सहचारियोंके विलापको रोका । मेरे पिताके शयनगृहमें प्रवेश किया । वहाँपर मैने
पहलेसे ही पूर्णभद्रके प्रबन्धसे गारुडविद्याद्वारा पिताको विषरहित बना दिया । उन
पिताजी के उन्होंने दर्शन किये । हर्षित होकर उन्होंने आँखोंमें आंसू भरकर अपने
पतिके पैर पड़े । स्तनोंसे दूध टपकती हुई ( मेरी माता ) मेरा बार-बार आलिङ्गन
करके तथा हर्षाश्रुओंसे गद्गद होकर बोलीं—'हे पुत्र ! तुम क्यों अति निष्करुणा
करनेवाली मुझपर दया करते हो ? क्योंकि मुझ पापिनीने तो, तुम्हें उत्पन्न होते ही
परित्याग दिया था । अथवा तुम्हारा पिता कामपाल निरपराधी है । इनको कालके
मुखसे बचा लेना योग्य ही है । तारावली यक्षिणी भी बड़ी निष्ठुर है । जिसने भगवान्
कुबेरके द्वारा तुम्हारा पूर्ण परिचय पाकर भी मुझे समर्पित न किया । अपितु, देवी
वसुमतीको समर्पण किया जो उसीके समान योग्य धात्री हैं । विना ऐसी भाग्य-
Nepal Sanskrit University, Balmeeki Campus, Kathmandu