दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२७६ दशकुमारचरितम् । [ उत्तरपीठिकायां
२७६ दशकुमारचरितम् । [ उत्तरपीठिकायां
राजवधायोपजप्य तैः स्वामिभक्त्या विवृतगुह्यो 'राज्यकामुकस्यास्य ब्रा-
ह्मणस्यान्धतमसप्रवेशो न्याय्य' इति प्राड्विवाकवाक्यादक्ष्युद्धरणाय
नीयते । पुनरन्योऽपि यदि स्यादन्यायवृत्तिस्तमप्येवमेय यथार्हेण दण्डेन
योजयिष्यति देवः' इति ।
(१८) श्रुतैतद्बद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरसमाशीविषं
व्यक्षिपम् । अहं च भीतो नामावप्लुत्य तत्रैव जनादनुलीनः क्रुद्धव्यालद-
ष्टस्य तातस्य विहितजीवरक्षो विषं क्षणादस्तम्भयम् । अपतच्चैष भूमौ
मृतकल्पः । प्रालपं च 'सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशतीति ।
गुह्यः-प्रकाशितगुप्तरहस्यः । कामपालविशेषणमेतत् । राज्यकामुकस्य राज्याभि-
लाषिणः। अन्धतमसप्रवेशः-अन्धतमसे घोरान्धकारे प्रवेशो मृत्युरित्यर्थः । न्याय्यः
उचितः । प्राड्विवाकवाक्यात् । व्यवहारद्रष्टुरादेशात् । अक्ष्युद्धारणाय नयनो-
त्पाटनाय । नीयते वध्यभूमिमिति शेषः । अन्योऽपि-अपरोऽपि । अन्यायवृत्तिः-
दुष्टाचारः । यथार्हेण-यथायोग्येन ।
(१८) बद्धकलकले-आरब्धकोलाहले । प्रदीप्तशिरसं-उदीर्णफणम् । व्यक्षिपं
विक्षिप्तवान् । भीतो नाम भीत इव । नामेत्यलीक सम्भावनायाम् । अवप्लुत्य-
च्छिन्नवृक्षादवरुह्य । जनादनु-जनस्य पश्चात् लीनः गुप्तः । क्रुद्धव्यालदष्टस्य-कुपित-
सर्पभक्षितस्य । विहितेति-विहिता कृता जीवस्य प्राणस्य रक्षा येन सः । एषः
मत्पिता । मृतकषः-मृततुल्यः । प्रालपं-अकथयम् । सत्यमित्यादि-इदं वक्ष्य-
माणं वाक्यं सत्यं यथार्थं यत्-दैवो दैवपातितो दण्ड एव राजावमानिनं राजा-
एकान्तमें राजाके वधरूप गुप्त रहस्यको प्रकट कर दिया । परन्तु, उन दोनों स्वामि-
भक्तोंने इस बातको अस्वीकार कर दिया और इस रहस्यका भण्डाफोड़ भी कर दिया ।
राज्याभिलाषी इस ब्राह्मणको घोरान्धकारमें प्रवेश कराकर मार डाला जाय । यही उचित
है । अतः न्यायाधीशके आदेशानुसार इसकी आँखें निकालनेके लिये हम लोग ले आये हैं ।
यदि भविष्यमें कोई भी ऐसा अपराध करेगा तो, वह भी इसी प्रकार राजदण्ड पावेगा ।'
(१८) इस वृत्तको श्रवण करनेके पश्चात् ज्यों ही कोलाहल शुरू हुआ त्यों ही मैंने
अपने पिता कामपालके शरीरपर विशाल फनवाले नागको गिरा दिया । उतरकर मैंने
उन्हीं दर्शकोंकी भीड़में क्रुद्ध नागके द्वारा दंशित पिताको अपने मन्त्रौषधिके प्रभावसे उसी
क्षण स्तम्भित कर दिया—जिससे नागका विष चढ़ने न पावे । वे मेरे पिता पृथ्वीपर
मृतकके तुल्य गिर पड़े वहाँ यह चर्चा (प्रलाप) भी मैंने प्रारम्भ कर दी कि, 'अवश्य
इस कामपालने अपराध किया है और उसका प्रतिफल भी इसे ईश्वरने दे दिया ।' राजाने
Here is the text transcribed from the image in Devanagari script, preserving the structure line by line with line markers.
चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २९७
यदयमक्षिभ्यां विनावनिपेन चिकीर्षितः, प्राणैरेव वियोजितो विधिना'
इति । मद्युक्तं च केचिदन्वमन्यन्त, अपरे पुनर्नानिन्दुः । दर्वीकरस्तु तम-
पि चण्डालं दष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् ।
( १६ ) अथ मदम्बा पूर्णभद्रबोधिताथां तादृशेऽपि व्यसने नातिवि-
ह्वला कुलपरिजनानुयाता पद्भ्यामेव धीरमागत्य मत्पितुरुत्तमाङ्गमुत्स-
ङ्गेन धारयन्त्यासित्वा राज्ञे समादिशत् - एष मे पतिस्तवापकर्ता न वेति
दैवमेव जानाति । न मेऽनयास्ति चिन्तया फलम् । अस्य तु पाणिग्राहकस्य
गतिमननुप्रपद्यमाना भवत्कुलं कलङ्कयेयम्' । अतोऽनुमन्तुमर्हसि भर्त्रा
पथ्यकारिणं जनं स्पृशतीति । अयं मन्त्री कामपालः अवनिपेन राज्ञा अक्षिभ्यां
विना नेत्ररहितश्चिकीर्षितः कर्तुमिष्टः । विधिना दैवेन पुनः प्राणैरेव वियोजितः
पृथक् कृतः। मदुक्तं एतन्मम वचनम् केचित्-कतिपये अन्वमन्यन्त-अनुमोदित-
वन्तः । अपरे-केचन । दर्वीकरः सर्पः । दष्ट्वा दंशनं कृत्वा । रूढत्रासेति-रूढ
उत्पन्नो यन्नासो भयं तेन द्रुतः पलायितो यो लोकस्तेन दत्तो मार्गों निर्गमनाय
पन्था यस्य सः । प्राद्रवत् पलायिष्ट ।
( १९) पूर्णभद्रेति-पूर्णभद्रेण बोधितो ज्ञापितोऽर्थो विषयो यस्याः सा ।
तादृशे-तथाविधे दारुणे । व्यसने-विपदि । नातिविह्वला-नातिव्याकुला । कुल-
परिजनानुयाता-स्ववंशीयसखीजनपरिवृता । धीरं-मन्दम् । उत्तमाङ्गं मस्तकम् ।
उत्संगेन-क्रोडदेशेन । आसित्वा-उपविश्य । अपकर्ता-अपकारी फलं-प्रयोजनम् ।
पाणिग्राहकस्य-पत्युः । अननुप्रपद्यमाना-अनभिसरन्ती । भवत्कुलं-भवद्गोत्रम् ।
कलङ्कयेयं-मालिन्याङ्कितं कुर्याम् । एतत्कुलोत्पन्ना सती यदि मृतस्य पत्युरनुगमनं
तो, इसे नेत्रहीन बनाने की आज्ञा दी थी, किन्तु, दैवने इसके प्राणों को ही हर लिया।'
उपर्युक्त मेरे कथनका कोई अनुमोदन करते थे और कोई-कोई इस कथनकी निन्दा करते
थे । उस भयङ्कर नागने चाण्डालको भी डस लिया और जब नागके डरसे भीड़ भागी तो,
रास्ता पाकर वह नाग भी भाग गया ।
( १९) तदनन्तर मेरी माता कान्तिमती जिन्हें पूर्णभद्रद्वारा सारा वृत्त ज्ञात हो चुका
था, ऐसे कष्टके समयमें भी नहीं घबड़ायी ( व्याकुल न हुई) तथा अपने वंशके परिजनोंके
साथ मन्द-मन्द पावोंसे आकर मेरे पिताके शिरको अपनी गोदमें धरकर बैठ गयीं। और
राजाके समीप प्रार्थना भेजी कि, 'ये मेरे पति आपके अपकारी है अथवा नहीं, यह तो
केवल परमेश्वर ही जानते हैं। इस बातकी चिन्ता करनेसे मुझे कोई फल नहीं । यदि
मैं अपने इस पाणिग्रहण करनेवाले पतिकी गतिका अनुसरण न करूंगी तो, मैं आपके