सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२६६ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६६ दशकुमारचरितम् । [ उत्तरपीठिकायां
श्चाद्य तारावलीत्यभूवम् ।
(८) बालश्च किल शूद्रकावस्थे त्वय्यार्यदासयवस्थायां मय्युदभूत् ।
अवर्धत च विनयवत्या स्नेहवासनया । स तु तस्यां कान्तिमत्यवस्थाया-
मद्योदभूत् । एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशा-
द्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राज-
वाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुख-
भ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मि' इति ।
अद्य पुनरिदानीन्तु तारावलीनाम्नाहमभूवम् । आर्यदास्येव जन्मान्तरे तारावल्य-
भवदिति भावः ।
(८) बालः-पूर्ववर्णितः शिशुः शूद्रकावस्थे-शूद्रकरूपधारिणि । त्वयि-
कामपाले इत्यर्थः । आर्यदास्येति-आर्यदासीरूपायाम् । मयि-तारावल्यामित्यर्थः ।
उदभूत्-उत्पन्नः । अवर्धत पोषितोऽभवत् विनयवत्या-शूद्रकस्य प्रथमपत्न्या ।
स्नेहवासनया-वात्सल्यभावेन स तु-स एव बालकः । तस्यां विनयवत्याम् । का-
न्तिमत्यवस्थायां या खलु शूद्रकावस्थायां विनयवती सैवास्मिञ्जन्मनि कामपाला-
वस्थायां कान्तिमती जातेत्यर्थः । एवम्-अनेन प्रकारेण । अनेकेति अनेकाद् बहो-
र्मृत्युमुखात्कृतान्तवदनात्परिभ्रष्टं च्युतम् । तमित्यस्य विशेषणम् । दैवात् दैवसं-
योगात् । मया-तारावल्या । उपलब्धं प्राप्तम् । तं बालम् । एकपिङ्गादेशात्-कुबेरा-
ज्ञया । तपस्यतः तपस्यां कुर्वतः । देव्यै-महिष्यै । गुरुभिः पित्रादिभिः । अभ्यनु-
ज्ञाता-आदिष्टा । कृतान्तयोगाद् दैववशात् । कृतान्तमुखभ्रष्टस्य-यममुखाद्विनिर्ग-
तस्य कृतान्तो यमसिद्धान्तयोरिति कोषः । ते-तव-कामपालस्येति यावत् । इत्य-
न्तं तारावलीवचनम् ।
अग्निकी साक्षी दे करके आपने विवाह किया था वही आर्यदासी हुई और वही इस समय
तारावली नामक मैं हूँ ।
(८) जब मैं आर्यदासी थी और आप शूद्रक थे उस अवस्थामें यह पुत्र मुझसे
उत्पन्न हुआ था । विनयवतीद्वारा यह बालक स्नेहसे पालन-पोषण किया गया । वही
पुत्र इस समय कान्तिमती अवस्थामें उत्पन्न हुआ । इसी रीतिसे अनेक वार मृत्युके
मुखसे बच करके यह बालक भाग्यवश मुझे प्राप्त हुआ है । उस बालकको राजराज कुवेरके
आदेशसे राजहंसके भावी पुत्र चक्रवर्त्ती राजवाहनकी परिचर्याके लिये राजहंसकी देवीको
समर्पण कर दिया है जो राजवाहन इस समय वनमें तपस्या कर रहे हैं। गुरुवर्गकी
आज्ञानुसार दैववश मैं यमराजके मुखसे बच करके आपके चरण-कमलोंकी सेवाके हेतु
यहाँ पर आयी हूँ ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

चतुर्थोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २६७
( ६ ) श्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः
सान्त्वयित्वा तत्प्रभावदर्शिते महति मन्दिरेऽहर्निशं भूमिदुर्लभान्भो-
गानन्वभूवम् । द्वित्राणि दिनान्यतिक्रम्य मत्तकाशिनीं तामवादिषम्—'प्रिये,
प्रत्यपकृत्य मत्प्राणद्रोहिणश्चण्डसिंहस्य वैर्निर्यातनसुखमनुबुभूषामि'
इति । तया सस्मितमभिहितम्—'एहि कान्त, कान्तिमतीदर्शनाय नयामि
त्वाम्' इति । स्थितेऽर्धरात्रे राज्ञो वासगृह्मनीये। ततस्तच्छिरोभागवर्ति-
नीमादायासिष्टिं प्रबोध्यैनं प्रस्फुरन्तमब्रुवम्—'अहमस्मि भवज्जामाता ।
भवदनुमत्या विना तव कन्याभिमर्शी । तमपराधमनुवृत्त्या प्रमाष्टुं-
मागत' इति ।
( ९ ) तां तारावलीम् । अनेकेति-अनेकेषु जन्मसु पत्नीभूताम् । असकृद्
वारं वारम् । हर्षाश्रुमुखः-प्रमोदबाष्पपूर्णाननः । सान्त्वयित्वा-आश्वास्य । तत्प्र-
भावेति-तस्यास्तारावल्याः प्रभावेण यक्षकन्यात्वात् तदुचितसामर्थ्येन दर्शिते
प्रकटीकृते । भूमिदुर्लभान्-पृथिव्यामलभ्यान्-स्वर्गीयानित्यर्थः । द्वित्राणि कतिप-
यानि । अतिक्रम्य व्यतीत्य । तां तारावलीम् । प्रत्यपकृत्य-प्रत्यपकारं विधाय ।
मत्प्राणद्रोहिणः-मज्जीवितजिघांसोः । वैर्निर्यातनसुखं-वैरशुद्धिजनितमानन्दम् ।
अनुबुभूषामि-अनुभवितुमिच्छामि । तया-तारावल्या । कान्त-नाथेति सम्बोधनम् ।
स्थिते-अवशिष्टे । राज्ञः चण्डसिंहस्य । अनीये-नीतः अहमिति शेषः । तच्छिरो-
भागवर्त्तिनीं-राजशिरोदेशावस्थिताम् । प्रबोध्य जागरयित्वा । एनं राजानं चण्ड-
सिंहम् । प्रस्फुरन्तम्-कम्पमानम् । अनुमत्या-सम्मत्य । कन्याभिमर्शी बलात्कारेण
तव कन्यां परामृष्टवानहमिति शेषः । अनुवृत्त्या-परिचर्यया । प्रमाष्टुं-क्षालयितुम् ।
( ९ ) तारावलोको अपनी अनेक जन्मोंकी रमणी श्रवण करके उसका बार-बार आलिं-
गन किया तथा आनन्दाश्रुओंको वहाते हुए उसे सान्त्वना दी एवं उसी यक्ष कन्या तारावली
द्वारा प्रदर्शित एक विशाल सदनमें रात-दिन स्वर्गीय सुख भोगने लगा । कुछ दिनों को
विता करके मैंने उस उत्तम वनिता से कहा—'हे प्रिये ! मेरे प्राणोंके साथ द्रोह करनेवाला
जो चण्डवर्मा है उसके साथ अपकार कर वैरशुद्धिजनित आनन्दको प्राप्त करना चाहता
हूँ'। उसने हँसकर उत्तर दिया 'हे कान्त ! यहाँ आओ ! कान्तिमतीको दिखानेके लिये मैं
तुम्हें ले चलती हूँ।' आधी रातके समय वह मुझे राजप्रासादमें ले गयी । तदनन्तर
सोये हुये राजा चण्डसिंहके सिरहानेकी ओर रखी हुई तलवारको मैंने अपने हाथमें
उठा लिया और राजाको जगा दिया । जगनेपर मुझे देखकर काँपनेवाले उस राजासे
मैंने कहा—'मैं आपका दामाद हूँ। मैंने आपकी आज्ञा बिना जो आपकी पुत्रीसे सम्बन्ध
कर लिया है उसको आपकी परिचर्या द्वारा मिटानेके लिये मैं यहाँ आया हूँ ।
१८ द० कु० उ०