दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
२६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
कनीयान्भ्राताहम् । वेशेषु विलसन्तं मामसौ विनयरुचिरवारयत् । अवा-
र्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वाराणस्यां प्रमदवने
मदनदमनाराधनाय निर्गत्य सह सखीभिः कन्दुकेनानुक्रीडमानां काशीभ-
र्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं नाम चकमे कथमपि समगच्छे च ।
(५) अथ छन्नं च विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा । कञ्चि-
त्सुतं च प्रसूतवती । मृतजात इति सोऽपविद्धो रहस्यनिर्भेदभयात्परिजनेन
क्रीडाशैले शबर्या च श्मशानाभ्याशं नीतः । तयैव निवर्तमानया निशीथे
गृहेषु । विलसन्तं विहरन्तम् । असौ सुमित्रः । विनयरुचिः विनीतस्वभावः ।
अवारयत्-तत्कर्म कर्तुं निषिद्धवान् । अवार्यदुर्नयः-अप्रतिविधेय-दुश्चेष्टः । अपसृत्य
पलाय्य । दिङ्मुखेषु दिगन्तरेषु । यदृच्छया दैववशात् । प्रमदवने-क्रीडोद्याने ।
मदनदमनाराधनाय- शिवपूजार्थम् । कन्दुकेन-गेन्दुकेन । अनुक्रीडमानां-अनुखेल-
न्तीम् । काशीभर्तुः काशीपतेः । चकमे अभिलषितवान् । कथमपि केनापि प्रका-
रेण । समगच्छे-सम्मिलितोऽभवम् ।
(५) छन्नं गुप्तम् । कुमारीपुरे कन्यान्तःपुरे । सा कान्तिमतीनाम्नी राज-
कन्या । आपन्नसत्त्वा सञ्जातगर्भा । प्रसूतवती जनयामास । मृतजातः गर्भे एव
मृतः । इति इत्युक्त्वा । स बालकः । अपविद्धः परित्यक्तः । रहस्येति रहस्यस्य
गोप्यस्य निर्भेदः प्रकाशस्तस्य भयाद् भीतेः । परिजनेन-सखीवर्गेण । क्रीडाशैले-
क्रीडापर्वते । शबर्या भिल्ल्या । श्मशानाभ्याशं-श्मशानसमीपम् । तया-शबर्या
मैं छोटा सोतेला भाई हूं । उस विनीतरुचिवाले सुमित्रने वेश्याओंके घरोंमें विहार
करनेवाले मुझको रोका । जब मैने सोचा कि यह दुश्चरित्र मेरे बिना परदेश गये न
छूटेगा तब मैं वहांसे हटा और दिशा-विदिशाओंमें भ्रमण करते हुए भाग्यवश इस
काशी नगरीमें आया । अपने प्रासादसे बाहर निकल करके भगवद्विश्वनाथ-पूजनके
निमित्त क्रीडोद्यानमें सखियों के साथ गेंद खेलती हुई काशिराज चण्डसिंहकी राजकुमारी
कान्तिमतीको मैंने देखा और रमणकी अभिलाषा उत्पन्न हो गयी । किसी रीतिसे उस
कुमारीके साथ समागम हो गया और मैं कन्यान्तःपुरमें गुप्त रीतिसे जा करके रमण
करने लगा ।
(५) कुछ दिनोंमें वह मेरे साथ रमण करनेसे गर्भवती हो गयी । और एक पुत्रको
उत्पन्न किया । रहस्यका भेद प्रकाशित न हो जाय इस भयसे सखीवर्गने उस बालकको
'मरा हुआ' उत्पन्न हुआ है ऐसा प्रख्यात करके क्रीड़ापर्वतपर विसर्जित कर दिया । एक
भीलनीद्वारा बालक श्मशानके समीप लाया गया । वह भीलनी जब आधी रातमें उस
चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६३
राजवीथ्यामारक्षिकपुरुषैरभिगृह्य तर्जितया दण्डपारुष्यभीतया निर्भिन्न-
प्रायं रहस्यम् । राजाज्ञया निशीथेऽहमाक्रीडनगिरिदरीगृहे विश्रब्धप्रसुप्त-
स्तयोपदर्शितो यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गोद्यतेन
कृपाणेन प्राजिहीर्षे । नियतिबलाल्लूनबन्धस्तमसिमाच्छिद्यान्त्यजं
तदन्यांश्च कांश्चित्प्रहत्यापासरम् । अशरणश्च भ्रमन्नटव्यामेकदाश्रुमुखया
कयापि दिव्याकारया सपरिचारया कन्ययोपास्थायिषि ।
निवर्त्तमानया-श्मशानात्परावर्त्तमानया । निशीथेऽर्धरात्रे । राजवीथ्यां राज-
मार्गे । अभिगृह्य-धृत्वा । तर्जितया-भीषितया । दण्डपारुष्यभीतया-दण्डस्य पारु-
ष्यं कठोरता तेन भीतया त्रस्तया । निर्भिन्नप्रायं-बाहुल्येन प्रकाशितम् । आक्रीड-
नेति-क्रीडापर्वतगुहायाम् । विश्रब्धप्रसुप्तः-विश्वासपूर्वकं निद्रितः । अहमिति शेषः ।
तया शबर्या । उपदर्शितः प्रदर्शितः । यथोपपन्नेति-यथोपपन्नया तत्काललब्धया
रज्ज्वा श्रृंखलेन बद्धः संयतः । मातङ्गोद्यतेन-चाण्डाळोत्थापितेन । कृपाणेन-
खड्गेन प्राजिहीर्षे-प्रहर्तुमिष्टः । प्रपूर्वकहृधातोः सन्नन्तात्कर्मणि लङ् । नियति-
बलात् भाग्यप्रभावात् । लूनबन्धः-छिन्नबन्धनः । तमसि खड्गंमयि प्रहृतमित्यर्थः।
आच्छिद्य-मातङ्गहस्तादाकृष्य । अन्त्यजं-चण्डालम् अन्यान्-तत्साहाय्यकारिणः ।
अशरणो निराश्रयः । अटव्यामरण्ये । अश्रुमुखया-साश्रुवदनया । कयापि-अनिर्दिष्ट-
नामिकया । दिव्याकारया-दिव्यः स्वर्गीय आकार आकृतिर्यस्यास्तया । सपरि-
चारया-परिचरणं परिचारः शुश्रूषा, अत्र तु शुश्रूषोपकरणं तेन सह वर्त्तमानया ।
उपास्थायिषि-सङ्गतोऽभवम् ।
बालकको श्मशानमें धर करके लौट रही थी तब राजमार्गमें रक्षापुरुषोंद्वारा पकड़ ली
गयी तथा डांटी-फटकारी गयी । भीषण दण्डके भयसे उस भीलनीने सब रहस्यकी बातें
प्रकाशित कर दीं । राजाज्ञासे मैं क्रीड़ापर्वतकी गुफामें निश्शंक हो करके सो रहा था ।
उसी समय भीलनी द्वारा पथके प्रदर्शनसे आये हुए रक्षापुरुषोंने मुझे तत्काल प्राप्त की
हुई रस्सीसे बाँधा और श्मशान ले आये । वहाँ मेरे ऊपर चाण्डालके द्वारा खड्गसे
प्रहार कराया गया । दैववशात् उस चाण्डालके खड्गसे मेरे ऊपर की बँधी रस्सी कट
गयी और स्वच्छन्द होकर मैंने उस चाण्डालसे खड्ग छीन लिया । उस चाण्डालको
तथा उसके अन्य सहायकोंको मार करके भाग निकला । मैं निराश्रय हो करके अरण्यमें
घूमने लगा । एक समय अरण्यमें दिव्यरूपवाली अश्रुमुखी कोई एक कन्या मेरे समीप
आयी जिसके साथ एक परिचारिका भी थी ।