दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२६० दशकुमारचरितम् । [ उत्तरपीठिकायां
२६० दशकुमारचरितम् । [ उत्तरपीठिकायां
( ३ ) भूयश्च नेत्रा जातसंरम्भेण निकामदारुणैर्वागङ्कुशपादपातैरभि-
मुखीकृतः । मयापि द्विगुणाबद्धमन्युना निर्भर्त्स्याभिहतो निवृत्यापादद्रवत् ।
अथ मयोपेत्य सरभसमाकृष्टो रुष्टश्च यन्ता 'हन्त, मृतोऽसि कुञ्जरापसद'
इति निशितेन वारेण वारणं मुहुर्मुहुरभिघ्नन्निर्याणभागे कथमपि मद-
भिमुखमकरोत् । अथायोचम् - 'अपसरतु द्विपकीट एषः । अन्यः
कश्चिन्मातङ्गपतिरानीयंताम् येनाहं मुहूर्त्तं विहृत्य गच्छामि गन्त-
व्यां गतिम्' इति । दृष्टवैव स मां रुष्टमुद्गर्जन्तमुत्क्रान्तयन्तृ-
( ३ ) नेत्रा-हस्तिपकेन । जातसंरम्भेण-सञ्जातक्रोधेन । निकामदारुणैः-अति-
कठोरैः । वागङ्कुशेति-वाग्वचनं संकेत इत्यर्थः अङ्कुशः सृणिः हस्तिनियन्त्रणार्थमस्त्र-
विशेषः, पादश्चरणस्तेषां पातैः पातनैराघातैरित्यर्थः । अभिमुखीकृतः मत्सम्मुख-
मानीतः । द्विगुणेति-द्विगुणं यथा स्यात्तथा आबद्धः कृतो मन्युर्येन तेन-द्विगुणीकृत-
क्रोधेन । निर्भर्त्स्य सन्तर्ज्य । अभिहतस्ताडितः स गज इति शेषः । निवृत्य-विमु-
खीभूय । अपाद्रवत्-पलायिष्ट । अथ-गजपलायनानन्तरम् । उपेत्य समीपं गत्वा ।
सरभसं सवेगम् । आकृष्टस्तर्जितो निन्दित इति यावत् । अत एव मयि रुष्टः
कुपितः । हन्तेति क्रोधसूचकमव्ययम् कुञ्जरापसद गजाधम । सम्बोधनम् । निशि-
तेन तीक्ष्णेन । वारेण अङ्कुशेन । वारणं हस्तिनम् । अभिघ्नन्-ताडयन् । निर्याण-
भागे-अपाङ्गदेशे अभिघ्नन्नित्यनेनास्य सम्बन्धः कथमपि-अतिकष्टेन । मदभिमुखं
मत्सम्मुखीनम् । अवोचमकथयमहं पूर्णभद्र इति शेषः । अपसरतु-दूरं गच्छतु ।
द्विपकीटः कीटकल्पो गजः । अन्यः अपरः । येन मातङ्गपतिना । विहृत्य-
क्रीडित्वा । गन्तव्यां प्राप्तव्यां गतिं मरणमित्यर्थः । स हस्ती । उद्गर्जन्त-
मुच्चैराक्रोशन्तम् । उत्क्रान्तेति-उत्क्रान्ता लङ्घिता यन्तुराधोरणस्य निष्ठा
( ३ ) पुनः महावत अति रोषयुक्त हो करके अत्यन्त कठिन तेज अङ्कुशके प्रहारोंसे
तथा परुष वचनोंसे एवं अपने पैरोंके दबावसे उस हाथीको मेरे अभिमुख ले आया। मैंने
भी पहिलेसे द्विगुणित क्रोधके द्वारा उस हाथीको कठोर वचनोंसे भर्त्सित किया । ललकारके
डरसे तथा मेरे द्वारा उसी काष्ठसे प्रहारित हो करके वह हाथी फिर भागा। इसके बाद
मैंने महावतके समीप जा करके उसे खूब फटकारा। मेरे फटकारनेपर महावतने क्रोधकर
अपनी हाथीको ललकारते हुए कहा- 'अरे ! गजाधम !! मरनेवाले !!! कहां भागते हो।'
इत्यादि, और उस हाथीको बार-बार तीक्ष्ण अङ्कुशोंसे ताड़ना दे करके किसी प्रकार मेरे
सम्मुख फिर ले आया। मैंने कहा-इस कीड़ेके सदृश हाथोको यहांसे दूर करो और
कोई दूसरा हाथी मेरे सामने लाओ । जिसके साथ मैं क्रीड़ा करके अपनी मरणगतिको
चतुर्थोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २६१
निष्ठुराज्ञः पलायिष्ट । मन्त्रिणा पुनरहमाहूयाभ्यधायिषि—‘भद्र, मृत्युरे-
वैष मृत्युविजयो नाम हिंसाविहारी । सोऽयमपि तावत्त्वयैवंभूतः कृतः ।
तद्विरम्य कर्मणोऽस्मान्मलीमसात्किमलमसि प्रतिपद्यास्मानार्यवृत्त्या
वर्तितुम्’ इति ।
( ४ ) ‘यथाज्ञापितोऽस्मि’ इति विज्ञापितोऽयं मया मित्रवन्मय्यव-
र्त्तिष्ट । पृष्टश्च मयैकदा रहसि जातविश्रम्भेणाभाषत स्वचरितम्—‘आसी-
त्कुसुमपुरे राज्ञो रिपुंजयस्य मन्त्री धर्मपालो नाम विश्रुतधीः श्रुतऋषिः ।
अमुष्य पुत्रः सुमित्रो नाम पित्रव समः प्रज्ञागुणेषु । तस्यास्मि द्वैमातुरः
कठोराज्ञा येन तथाभूतः । अभ्यधायिषि-अभिहितः । मृत्युरेव-साक्षात्कृतान्त
एव । एवंभूतः-पलायनपरः । तत्तस्मात् । विरम्य-विरतो भूत्वा । अस्मात्कर्मण-
श्चौर्यात् । मलीमसात्-मलिनाद् गर्हितादिति यावत् । अलं समर्थः । प्रतिपद्य
प्राप्य । अस्मान्-मादृशान् । आर्यवृत्त्या-सदाचारेण । वर्त्तितुं स्थातुम् ।
(४) यथाज्ञापितोऽस्मि-यथा भवता आदिष्टं तथैव करिष्यामीत्यर्थः । विज्ञा-
पित उक्तः । अयं मन्त्री । मित्रवत्-सुहृदिव । अवर्त्तिष्ट-व्यवाहरत् । जातविश्र-
म्भेण-समुत्पन्नविश्वासेन-मयेत्यस्य विशेषणम् । स्वचरितं निजचरित्रम् । अमा-
त्यस्येति शेषः । कुसुमपुरे-पाटलिपुत्रे । रिपुंजयस्य शत्रुदमनस्य राजहंसस्य
विश्रुतधीः प्रख्यातमतिः श्रुतऋषिः-अधीतवेदः । अमुष्य-धर्मपालस्य । समस्तु-
ल्यः । प्रज्ञागुणेषु-बुद्धिगुणेषु । तस्य सुमित्रस्य द्वैमातुरः वैमात्रेयः । वेशेषु-वेश्या-
प्राप्त करूं। क्रोधयुक्त उच्च स्वरसे मुझे गरजते हुए देख कर के वह हाथी अपने महावतके
अङ्कुशके प्रहारोंको न मान करके पीछेको ही भागने लगा । यह बात देख करके प्रधान
मन्त्रीने मुझसे बुला करके कहा—'हे सौम्य ! यह हिंसाविहारी हाथी साक्षात् यमराज
ही है । इस मृत्युविजय नामक हाथीकी भी आपने ऐसी दशा कर दी । अतः यदि आप
इस गर्हित चौर्यवृत्तिको त्याग करके सदाचारयुक्त उत्तम कर्म करें और हम लोगोंसे
व्यवहार करें तो, उचित हो ।
(४) मैने उत्तर दिया-'जैसी आपकी आज्ञा हो वह मैं कर सकता हूं।' मेरे इस
प्रकारके कथनपर प्रधान मन्त्रीने मेरे साथ मित्रतुल्य व्यवहार करना आरम्भ किया ।
विश्वसित हो जानेपर मैने उन प्रधान मन्त्रीसे एक बार एकान्तमें उनके जीवन चरित-
वृत्तान्तको पूछा । तब उन्होंने कहा-'पाटलिपुत्रके शत्रुदमनकारी राजा राजहंसके
विख्यात बुद्धिवाले वेदवेत्ता धर्मपाल नामक एक मन्त्री था । उन मन्त्री धर्मपालके एक
पुत्र सुमित्र नामक था जो पिताके सदृश ही बुद्धिमान् एवं गुणवान् था । उसी सुमित्रका