दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२६ दशकुमारचरितम् । [ पूर्वपीठिकायां
२६ दशकुमारचरितम् । [ पूर्वपीठिकायां
शीघ्रं मामाघ्रातुमागतवान् । भीताहमुद्ग्रग्राव्णि स्खलन्ती पर्यपतम् ।
मदीयपाणिभ्रष्टो बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।
( ५६ ) तच्छवाकर्षिणोऽमर्षिणो व्याघ्रस्य प्राणान्बाणो बाणासनय-
न्त्रमुक्तोऽपाहरत् । लोलालको बालकोऽपि शबरैरादाय कुत्रचिदुपानीयत् ।
कुमारमपरमुद्वहन्ती मद्दुहिता कुत्र गता न जाने । साहं मोहं गता
केनापि कृपालुना वृष्णिपालेन स्वकुटीरमावेश्य विरोपितव्रणाभवम् । ततः
स्वस्थीभूय भूयः क्ष्माभर्तुरन्तिकमुपतिष्ठासुरसहायतया दुहितुरनभिज्ञात-
तया च व्याकुलीभवामि' इत्यभिदधाना 'एकाकिन्यपि स्वामिनं गमि-
ष्यामि' इति सा तदैव निरगात् । ',
मूर्तिमान् । आघ्रातुं हन्तुम् । उद्ग्रग्राव्णि उन्नतप्रस्तरे । मदीयपाणिभ्रष्टो मम हस्तच्यु-
तः । कपिलाया धेनोः शवस्य मृतदेहस्य । क्रोडमङ्कम् । अभ्यलीयत प्रच्छन्नोऽभवत् ।
( ५६ ) अमर्षिणः क्रुद्धस्य । बाणः शरः । बाणासनयन्त्रं धनुस्तस्मान्मुक्तः
प्रक्षिप्तः । विलोलाश्चञ्चला अलकाश्चूर्णकुन्तला यस्य सः । आदाय गृहीत्वा । कुत्र-
चिदज्ञातस्थाने । अपरमन्यं यमजयोर्मध्ये एकं तद्दुहितुरङ्कस्थमित्यर्थः । उद्वहन्ती
धारयन्ती । कृपालुना दयावता । वृष्णिपालेन मेषपालेन* । आवेश्य प्रवेश्य ।
विरोपित औषधादिना चिकित्सितो व्रणो यस्याः सा । स्वस्थीभूय सुस्था भूत्वा
अहमिति शेषः । भूयः पुनरपि । क्ष्माभर्तुः भूपतेः प्रहारवर्मणः । अन्तिकं समीपम् ।
उपतिष्ठासुः प्रयातुमिच्छुः । असहायतया सहायाभावात् । अनभिज्ञतया निरुद्दिष्ट-
तया । अभिदधाना कथयन्ती ।
णाधे मुखविवरको फैलाये हुए साक्षात् क्रोधकी मूर्तिके सदृश कोई व्याघ्र हमारी ओर हम
दोनोंको खानेको दौड़ा। उससे भयभीत होकर मैं ऊबड़-खाबड़ जमीनपर गिर पड़ी तथा
मेरे हाथसे छूटकर बालक एक मृत कपिला गौकी गोदमें गिर पड़ा और वहीं छिप गया।
( ५६ ) वह व्याघ्र ज्यों ही उस कपिला गौको खींचनेके लिए झपटा त्यों ही किसी
व्याधके हाथसे छोड़े गये बाणसे वह व्याघ्र मार डाला गया और उस चञ्चल केश-कलाप-
वाले बालकको कोई एक शबर लेकर वहाँसे न मालूम कहाँ भाग गया। दूसरे बालकको
लेकर मेरी पुत्री भी कहाँ चली गयी यह भी मुझसे अज्ञात है। मैं गिरनेसे मूर्च्छित हो गयी
थी अतः एक दयालु ग्वालेने मुझे अपने घर ले जाकर मेरे घावोंकी मरहम पट्टी की तथा
मुझे चङ्गा किया। अब मैं स्वस्थ होकर अपने महाराजके समीप जाना चाहती हूँ। किन्तु
मैं एकाकिनी हूँ एवं पुत्रीके लोप होनेपर और दुखी हूँ तथा रो रही हूँ। अस्तु जैसा भी
हो मैं महाराजके पास अवश्य जाऊँगी। ऐसा कहती हुई वह वहाँसे चली गयी।
- गोपालेन ।
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २७
( ५७ ) अहमपि भवन्मित्रस्य विदेहनाथस्य विपन्निमित्तं विषाद-
मनुभवंस्तदन्वयाङ्कुरं कुमारमन्विष्यंस्तदैकं चण्डिकामन्दिरं सुन्दरं
प्रागाम् ।
( ५८ ) तत्र संततमेवंविधविजयसिद्धये कुमारं देवतोपहारं करिष्यन्तः
किराताः 'महीरुहशाखावलम्बितमेनमसिलतया वा, सैकततले खनननि-
क्षिप्तचरणं लक्षीकृत्य शितशरनिकरेण वा, अनेकचरणैः पलायमानं कुक्कु-
रबालकैर्वा दंशयित्वा संहनिष्यामः' इति भाषमाणा मया समभ्यभाष्यन्त
'ननु किरातोत्तमाः, घोरप्रचारे कान्तारे स्खलितपथः स्थविरभूसुरोऽहं मम
पुत्रकं कचिच्छायायां निक्षिप्य मार्गान्वेषणाय किञ्चिदन्तरमगच्छम् ।
( ५७ ) अहमपि वक्ता तापसोऽपि । विपत् निमित्तं यस्य तम्, विपत्तिसंजनि-
तम् । तस्य विदेहराजस्यान्वयस्य वंशस्याङ्कुरं प्ररोहम् । तदा तस्मिन् समये ।
( ५८ ) तत्र चण्डिकामन्दिरे । एवंविधविजयसिद्धये-यथा साम्प्रतं विदेहराजं
वय विजितवन्तः एवमेव सर्वदास्माकं विजयो भूयादिति चण्डिकाप्रसादलाभाय ।
देवतोपहारं बलिम् । महीरुहस्य वृक्षस्य शाखायामवलम्बितं बद्धम् । असिलतया
खड्गेन । सैकततले वालुकामयप्रदेशे । खनने गर्ते निक्षिप्तौ कीलितौ चरणौ यस्य
तम् । लक्षीकृत्य उद्दिश्य । शितशरनिकरेण तीक्ष्णबाणसमूहेन । अनेकचरणैः क्षिप्र-
चरणैः वेगेन धावद्भिरित्यर्थः । कुक्कुरवालकैरित्यस्य विशेषणम् । इति भाषमाणाः
एवं कथयन्तः । समभ्यभाष्यन्त उक्ताः ① घोरो भयङ्करः प्रचारः सञ्चारो यत्र
तस्मिन् । कान्तारे दुर्गममार्गे । स्खलितो भ्रष्टः पन्था यस्य सः । मार्गभ्रष्ट इत्यर्थः ।
भूसुरो ब्राह्मणः निक्षिप्य संस्थाप्य । अन्तरं दूरम् ।
( ५७ ) तत्पश्चात् मैं भी अपने मित्र विदेहेशकी विपत्तिपर विषादयुक्त होकर उनके
वंशबीजांकुरकी खोजमें आगे चल पड़ा और जाते-जाते एक चण्डीमन्दिरमें पहुँचा ।
( ५८ ) उस मन्दिरमें जाकर देखा कि वहाँ बहुतसे किरात-भील एकत्र खड़े हैं और
उस बालकको विजयोपलक्षके निमित्त देवीको बली चढ़ाना चाहते हैं। वे कहते थे कि, 'इसे
या तो वृक्षमें लटकाकर तलवारसे मार दो अथवा बालू में उसके दोनों पैर गाड़ दो और
इसको तेज तीरोंसे वेध दो । वा कुत्तोंके पिल्ले इसके पीछे छोड़ दो जिसमें वे सब इसका
माँस नोंच खायें आदि-आदि ।' उनको ऐसा कहते हुए सुनकर मैंने कहा-हे किरातवरों !
मैं वृद्ध ब्राह्मण हूँ तथा इस गहन वनमें मार्गभ्रष्ट हो रहा हूं। मेरा एक पुत्र था जिसे मैंने
एक पेड़की छाया में सुला दिया था और स्वयं मार्ग खोजने कुछ दूर गया था।