दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२५० दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२५० दशकुमारचरितम् । [ उत्तरपीठिकायां
विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितम् । पौरवृद्धश्च
पाञ्चालिकः परित्रातश्च सार्थवाहः खनतिनाम्नो यवनाद्वज्रमेकं वसुंधरामूल्यं
लघीयसार्घेण लभ्यमिति ममैकान्तेऽमन्त्रयेताम् । गृहपतिश्च ममान्तरङ्ग-
भूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमन-
न्तसीरं जनपदकोपेन घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नि-
योक्तुमभ्युपागमत् । इत्थमिदमचिरप्रस्तुतं रहस्यम् ।'
पुण्ड्रनामकदेशजयाय । दित्सितं दातुमभिलषितम् । इति द्वितीयं रहस्यम् । पौर-
वृद्धः-पौरेषु नागरिकेषु वृद्धो वर्षीयान् । पाञ्चालिक इति वृद्धस्य नाम । परित्रातः-
संकटाद् रक्षितः । सार्थवाहः कश्चिद् वणिक् तन्नामधेयः कश्चिद् वा । एतौ अनन्त-
रोक्तक्रियापदस्य अमन्त्रयेतामित्यस्य कर्तृकारकौ । खनतिनाम्नः खनतिरिति
नाम यस्य तस्मात् । वज्रं हीरकम् । वसुन्धरामूल्यं वसुन्धरा पृथिवी मूल्यं यस्य
तत् । वसुन्धराविनिमयेन लभ्यमित्यर्थः । लघीयसा अत्यल्पेन । अर्घेण मूल्येन ।
एकान्ते रहसि । अमन्त्रयेतां उक्तवन्तौ । इति तृतीयं रहस्यम् । गृहपतिर्ग्रामा-
ध्यक्षः । अन्तरङ्गभूतः-आत्मीयः । जनपदमहत्तरः प्रधाननागरिकः । शतहलिरिति
ग्रामाध्यक्षस्य नाम । अलीकवादशीलं-मिथ्याभाषणरतम् । अवलेपवन्तं गर्वितम् ।
दुष्टग्रामण्यं दुष्टग्रामाध्यक्षम् । अनन्तसीरं-तन्नामकम् । जनपदकोपेन-तस्मिन्
जनपदकोपमारोप्येत्यर्थः । घातयेयं विनाशयिष्यामि । दण्डधरान्-सेनानायकान् ।
उद्धारकर्मणि-अनन्तसीरस्य निर्यातनकार्ये । मत्प्रयोगात् मन्नियोगात् । अभ्युपा-
गमत् अहमेव दण्डधरान्नियोक्ष्यामीति स्वीचकार । इति चतुर्थं रहस्यम् । इत्थं
अनेन प्रकारेण । अचिरप्रस्तुतं साम्प्रतमेव प्रक्रान्तम् । रहस्यं गोप्यम् । एताव-
देवेति शेषः ।
विशालवर्माको पुण्ड्रदेशके आक्रमण करनेके हेतु दण्डचक्र (सेनापति) बनानेके लिए
सोचा है । यह दूसरा रहस्य है । पुरवासियोंमें वृद्ध पाञ्चालिक और सार्थवाह नामक
बनियेको रक्षक बना करके खनति नामके यवनसे एक बहुमूल्य हीरेको जिसका दाम
सारी पृथ्वी हो सकता है, अति स्वल्प मूल्यसे खरीदनेका विचार किया है। यह तीसरा
रहस्य है । गृहपति (ग्रामाध्यक्ष) मेरा आत्मीय जन है । सर्व देशोंमें श्रेष्ठ शतहलो
प्रधान नागरिक है । पर यह मिथ्यावादी तथा गर्विष्ठ है और अनन्तसीर नामक व्यक्ति
भी दुष्ट ग्रामाध्यक्ष है । इन लोगोंपर जनपदकोप कराऊंगा और इनका विनाश कर दूंगा ।
सेनापतियोंको इस निर्याणकर्ममें मैं ही नियुक्त करूंगा यह तय हुआ है। यह चतुर्थ
रहस्य है। यही मेरे वर्त्तमान रहस्य भेद हैं ।'
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २५१
( २३ ) इत्याकर्ण्य तम् 'इयत्तवायुः । उपपद्यस्व स्वकर्मोचितां गतिम्'
इति च्छुरिकया द्विधाकृत्य कृत्तमात्रं तस्मिन्नेव प्रवृत्तरुफीतसर्पिषि हिरण्य-
रेतस्यजुहवम् । अभूच्चासौ भस्मसात् । अथ स्त्रीस्वभावादीषद्विह्वलां हृदय-
वल्लभां समाश्वास्य हस्तकिसलयेऽवलम्ब्य गत्वा तद्गृगमनुज्ञयास्याः
सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् । सविस्मितविलासिनी-
सार्थमध्ये कञ्चिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहत्तोरूमूरूप-
पीडं भुजोपपीडं चोपगुह्य तल्पेऽभिरमयन्नल्पामिव तां निशामत्यनैषम् ।
( २३ ) तं विकटवर्माणम् । इयत्-एतावत् । आयुः जीवनम् । उपपद्यस्व
प्राप्नुहि । स्वकर्मोचितां कर्मफलानुसारिणीम् । गतिं परिणतिम् । द्विधाकृत्य-खण्ड-
यित्वा तमिति शेषः । कृत्तमात्रं छेदनसमकालम् । प्रवृत्तेति-प्रवृत्तं प्रदत्तं स्फीतं
प्रचुरं सर्पिर्हविर्यस्मिन् तस्मिन् । हिरण्यरेतसि अग्नौ । अजुहवम्-प्रक्षिप्तवान् ।
असौ-विकटवर्मा । भस्मसात् भस्मावशेषः । स्त्रीस्वभावात्-स्त्रीणां स्वभावः स्वत
एवातिकोमलो भवतीति हेतोरित्यर्थः । ईषद्विह्वलां स्वल्पव्याकुलाम् । हृदयव-
ल्लभां प्राणप्रियाम् । समाश्वास्य-सान्त्वयित्वा । करकिसलये पाणिपल्लवे । अव-
लम्ब्य-गृहीत्वा तद्गृहं कल्पसुन्दरीमन्दिरम् । अनुज्ञया-अनुमत्या । अस्याः
कल्पसुन्दर्याः । अन्तःपुराणि-अन्तःपुरिकावर्गान् सेवां भोज्यादिदानेन तासां
सन्तोषम् । सविस्मितेति-सविस्मितः साश्चर्यो यो विलासिनीसार्थः । स्त्रीसमूहस्तस्य
मध्ये । कञ्चित्कालं-कियन्तं समयं यावत् । विहृत्य-विहारं कृत्वा । विसृष्टेति-
विसृष्टं त्यक्तं अवरोधमण्डलमन्तःपुरिकाचक्रं येन सः । तां कल्पसुन्दरीम् । संह-
तोरुं विशालोरुदेशाम् । ऊरूपपीडम्-ऊरुभ्यामुपपीड्य । भुजोपपीडं भुजाभ्यामु-
पपीड्य । उपगुह्य-आलिङ्ग्य । तल्पे शय्यायाम् । अभिरमयन् विहरन् । अल्पामिव-
( २३ ) इतना श्रवण कर मैंने उस नृपतिसे कहा कि इतने ही दिनोंका तुम्हारा
जीवन है। अब अपने कर्मफलानुसारिणी गतिको प्राप्त करो और छुरीसे उस विकट-
वर्माको दो टुकड़ोंमें काट करके प्रचुरमात्रामें घीके साथ अग्निमें हवन कर दिया, वह
भस्मसात् हो गया । तत्पश्चात् स्त्रीस्वभावके कारण स्वल्प व्याकुलीभूता प्राणप्रियाको
आश्वासन दिया । पाणिपल्लव ग्रहण करके उस रानी कल्पसुन्दरीकी अनुमतिसे उसके
मन्दिरमें प्रविष्ट हुआ एवं सभी अतःपुरचरोंको बुला कर उसी कालमें उचित पुरस्कार
प्रदान किया । आश्चर्यमें अभिभूत अन्तःपुरकी रमणियोंके मध्यमें कुछ समय तक रमण
करनेके पश्चात् उन अन्तःपुरकी रमणियोंको दूर करके उसी रानी कल्पसुन्दरीके साथ
१७ दृ० कु० च०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu