दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२२ दशकुमारचरितम् । [ पूर्वपीठिकायां
२२ दशकुमारचरितम् । [ पूर्वपीठिकायां
(४७) तं प्रणम्य तेन कृतातिथ्यस्तस्मै कथितकथ्यस्तदाश्रमे दूरीकृ-
तश्रमे कंचन कालमुषित्वा निजराज्याभिलाषी मितभाषी सोमकुलावतंसो
राजहंसो मुनिमभाषत-'भगवन्, मानसारः प्रबलेन दैवबलेन मां निर्जि-
त्य मद्भोग्यं राज्यमनुभवति। तद्वदहमप्युग्रं तपो विरच्य तमरातिमुन्मूलयि-
ष्यामि लोकशरण्येन भवत्कारुण्येनेति नियमवन्तं भवन्तं प्राप्तनवम्'इति।
(४८) ततस्त्रिकालज्ञस्तपोधनो राजानमवोचत्— 'सखे ! शरीरका-
र्श्यकारिणा तपसा लम्। वसुमतीगर्भस्थः सकलरिपुकुलमर्दनो राजनन्दनो
नूनं संभविष्यति, कञ्चन कालं तूष्णीमास्स्व इति।
(४७) तेन वामदेवेन। कृतं विहितमातिथ्यं अतिथिसत्कारादि यस्य सः
तस्मै वामदेवाय। कथितमुक्तंकथ्यं वक्तव्यं येन सः। दूरीकृतोऽपाकृतः श्रम आयासो
येन यत्र वा तस्मिन्। सोमकुलावतंसः चन्द्रवंशभूषणम्। मानसारस्तदाख्यो माल-
वराजः। तद्वदिति-तेन मानसारेण यथा तपसा शिवं सन्तोष्य तस्माद्वरः समासा-
दितस्तथाऽहमपि। उग्रं तीव्रमूत्कटम्। विरच्य कृत्वा। लोकानां जनानां शरणे
रक्षणे साधुना। भवतस्तव कारुण्येन करुणया। इति-इति हेतोः। नियमवन्तं संय-
मिनम्।
(४८) त्रिकालज्ञः भूतभविष्यद्वर्तमानकालवित्। शरीरस्य देहस्य कार्श्यं क्षीण-
तां करोतीति तेन। अलं प्रयोजनं नास्ति। वसुमतीगर्भस्थः-महिषीगर्भस्थितः।
सकलं निखिलं रिपुकुलं शत्रु मण्डलं मर्दयति हिनस्तीति तथाभूतः। नूनं निश्चितं
सम्भविष्यति-उत्पत्स्यते। तूष्णीमास्स्व जोपं तिष्ठ, युद्धादिकं मा कार्षीरित्यर्थः।
(४७) वामदेवाश्रममें जाकर चन्द्रकुलालंकार राजा राजहंसने मुनिको प्रणाम करके
आतिथ्य-सत्कार को स्वीकार किया। उनके सत्संगसे परिश्रमादि व्यथाको कुछ काल वहाँ
रहकर निवृत्त किया। ततः स्वराज्यअभिलाषी मितभाषी उस राजाने एक दिन उन मुनिसे
कहा-'हे महाराज ! मालवेश मानसार ने दैवकी प्रबल शक्तिसे मेरे राज्यको ले लिया अर्थात्-
मुझे पराजितकर वह स्वयं मेरे राज्यको भोग रहा है। मैं चाहता हूँ कि मैं भी प्रवल तप
करके दैवबलसे यह मानसारका उन्मूलन कर दूँ। अतः हे दीन वत्सल ! आप मुझे कृपया, तप
विधि बता दें-जिससे मैं कृतकृत्य होऊँ। इसीकी विधि जाननेके हेतु आपतक आया हूँ।'
(४८) यह श्रवणकर त्रिकालज्ञ तपोधन वामदेवने राजासे कहा- 'शरीरको क्लेश-
कारिणी तपस्या न करो। रानी वसुमतीके गर्भसे जो पुत्र होगा वह सम्पूर्ण शत्रुओंको नष्ट
करनेवाला है। इससे कुछ दिनों शान्ति रखो।'
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २३
( ४६ ) गगनचारिण्यापि वाण्या 'सत्यमेतत्' इति तदेवावाचि । राजा-
पि मुनिवाक्यमङ्गीकृत्यातिष्ठत् ।
( ५० ) ततः सम्पूर्णगर्भदिवसा वसुमती सुमुहूर्ते सकललक्षणलक्षितं
सुतमसूत । ब्रह्मवर्चसेन तुलितवेधसं पुरोधसं पुरस्कृत्य कृत्यविन्महीपतिः
कुमारं सुकुमारं जातसंस्कारेण बालालंकारेण च विराज्मानं राजवाहन-
नामानं व्यधत्त ।
(५१) तस्मिन्नेव काले सुमतिसुमित्रसुमन्त्रसुश्रुतानां मन्त्रिणां प्रमति-
मित्रगुप्तमन्त्रगुप्तविश्रुताख्या महाभिख्याः सूनवो नवोद्यदिन्दुरुचश्चिरायुषः
समजायन्त । राजवाहनो मन्त्रिपुत्रैरात्ममित्रैः सह बालकेलीरनुभवन्नवर्धत ।
( ४९ ) गगनचारिण्या-अशरीरिण्या । अङ्गीकृत्य स्वीकृत्य ।
( ५० ) सम्पूर्णाः परिपूर्णा गर्भदिवसाः नवदिनाधिकनवमासाः यस्याः सा ।
सुमुहूर्ते शुभलग्ने । सकलैरशेषैर्लक्षणैः सौभाग्यचिह्नैर्लक्षितं युक्तम् । ब्रह्मणो वर्च
इति 'ब्रह्महस्तिभ्यां वर्चस' इत्यच् । तेन ब्रह्मतेजसा तुलित उपमितो वेधा ब्रह्मा
येन तम् । ब्रह्मतेजसा ब्रह्मसदृशम् । पुरस्कृत्य अग्रे कृत्वा । पुरोधसं पुरोहितम् ।
कृत्यवित् समयोचितकार्यज्ञः । सुकुमारं सुन्दरदर्शनम् । जातसंस्कारेण जातकर्म-
नाम्ना संस्कारविशेषेण । बालालंकारेण बालकोचितभूषणेन । विराज्मानं विशेषतः
शोभमानम् । राजवाहन इति नाम यस्य तम् । व्यधत्त चकार ।
( ५१ ) तस्मिन्नेव काले-यदा राजवाहनस्य जन्माभवत् तदैव । महती सम-
धिका अभिख्या शोभा येषां ते । अभिख्या नामशोभयोरित्यमरः । महदभिख्या इति
पाठान्तरन्तु चिन्त्यम् । नवो नूतनः प्रातिपदिक इति यावत्-उद्यन् उदयमानो य
इन्दुश्चन्द्रस्तस्य रुचिव रुक् कान्तिर्येषां ते । चिरायुषो दीर्घजीविनः । आत्मनः
स्वस्य मित्रैः सुहृद्भिः । बालकेलीः शैशवोचितक्रीडाः ।
( ४९ ) इसी क्षण आकाश-वाणीने भी 'यह बात सत्य है' ऐसा कहकर मुनिकी बातका
समर्थन किया । राजा भी मुनिवाक्यपर सन्तुष्ट होकर वहीं रहने लगा ।
( ५० ) उसके पश्चात् गर्भके दिन पूरे होनेपर रानी वसुमतीने शुभ मुहूर्त्तमें सभी शुचि-
शुभ लक्षणोंसे विभूषित पुत्रको उत्पन्न किया । तब ब्रह्मदेवके समान परम तेजस्वी पुरोहित
की आज्ञानुसार उस कृत्यवेत्ता महीपालने उस सुकुमार राजकुमारका जन्मसंस्कार आदि
(बालकोंके योग्य पहननेवाले अलंकारोंसे अलंकृत) यथाविधि कराकर राजवाहन नाम धरा ।
( ५१ ) इसी समय सुमति, सुमन्त्र, सुमित्रा और सुश्रुत चारों अमात्योंको भी क्रमसे प्रमति
मित्रगुप्त, मन्त्रगुप्त और विश्रुत नामक बड़े सुन्दर चार पुत्र नूननोदित चन्द्रकी तरह दीर्घजीवी
उत्पन्न हुए। कुमार राजवाहन मन्त्रि-पुत्रोंसे बालक्रीड़ा करते हुए वृद्धि प्राप्त करते हुए रहने लगा।