दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१८६ दशकुमारचरितम् । [ उत्तरपीठिकायां.
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
१८६ दशकुमारचरितम् । [ उत्तरपीठिकायां.
प्रतिपत्तिर्यानुष्ठीयमानया मन्नियोगतस्तौ परित्रास्येते । मां च कदाचि-
दनर्थादितस्तारयिष्यति' इति कमप्युपायमात्मनैव निर्णीय शृगालिकाम-
गादिषम्-'अपेहि जरतिके, या तामर्थलुब्धां दग्धगणिकां रागमञ्जरि-
कामजिनरत्नमत्तेन शत्रुणा मे मित्रच्छद्मना धनमित्रेण संगमितवती,
सा हतासि । तस्य पापस्य चर्मरत्नमोषाद् दुहितुश्च ते साराभरणापहा-
रादहमद्य निःशल्यमुत्सृजेयं जीवितम्' इति ।
(५३) सा पुनरुद्धट्टितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान्पुरुषान्स-
अनुष्ठीयमानया-क्रियमाणया । मन्नियोगतः-मदादेशात् । तौ-रागमञ्जरीधन-
मित्रौ । कदाचित्-पक्षान्तरेण । अनर्थात्-विपदः । इतः-अस्मात् । तारयिष्यति
उद्धरिष्यति । आत्मनैव स्वयमेव । अपेहि-अपसर दूरङ्गच्छेति यावत् । जरतिके
वृद्धे । सम्बोधनमेतत् । या त्वमित्यर्थः । अजिनरत्नमत्तेन-चर्मरत्नगर्वितेन । मित्र-
च्छद्मना-कपटमित्रेण । संगमितवती संयोजितवती । सा त्वम् । हता विनष्टा।
पापस्य दुरात्मनो धनमित्रस्य । चर्मरत्नमोषात्-चर्मरत्नापहरणात् । दुहितुः कन्या-
या रागमञ्जर्या इत्यर्थः । सारेति-सारो मूलधनम् आभरणमलङ्कारस्तयोरपहारा-
दपहरणात् । निःशल्यं निर्वाधमवश्यमिति यावत् । उत्सृजेयं त्यजेयम् ।
(५३) सा शृगालिका। उद्धट्टितज्ञा-उद्घट्टितं सूचितं जानातीति तथा।
आ पड़ी है। मेरे साथ धनमित्रकी प्रगाढ़ मित्रता और रागमञ्जरीका मेरे साथ पाणिग्रहणक्रिया
प्रसिद्धि पा रही है। मेरे इस पापसे वे दोनों धनमित्र और रागमञ्जरी अपराधी हो
जायेंगे ! (अरे !) कल वे लोग अवश्य पकड़े जायेंगे ! इसलिए अब ऐसा कोई कर्त्तव्य
करना चाहिये। जिसके करनेसे ये दोनों रागमञ्जरी और धनमित्र मेरे नियोग (आदेश)
से बच जायं। क्योंकि-बचे रहनेसे कदाचित् वे लोग मुझे भी बचा सकें।' इस प्रकारकी
कोई तरकीव अपने आप ही सोच करके शृगालिकासे बोला-'ओ वृद्धे ! दूर भाग ।
उस धनलोभिनी भाग्यहीना वेश्या रागमञ्जरीसे और चर्मरत्न-भस्त्रिकासे उन्मत्त मेरे शत्रु
धनमित्रसे मित्रता करानेके छलसे तुमने समागम कराया है। सो अब तुम मारी गयी।
उस पापी धनमित्रकी चर्मरत्न भस्त्रिकाके चुरानेसे तथा तुम्हारी कन्या रागमञ्जरीके
आभूषणोंके अपहरणरूपदोषसे मैं (अपहारवर्मा ) आज अवश्य प्राणोंको विसर्जित
करूंगा।'
(५३) वह सूचितज्ञा (प्रत्युत्पन्नमतिवाली) परम कुटिलप्रवीणा आंसू भर करके
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १८७
प्रणाममासादितवती सामपूर्वं मम पुरस्तादयाचत—'भद्रकाः, प्रती-
क्ष्यतां कंचित्कालं यावदस्मादस्मदीयं सर्वं मुषितमर्थजातमवगच्छेयम्'
इति । तथेति तैः प्रतिपन्ने पुनन्मत्समीपमासाद्य 'सौम्य, क्षमस्वाम्य दा-
सीजनस्यैकमपराधम् । अस्तु स कामं त्वत्कलत्राभिमर्शी वैरास्पदं धन-
मित्रः । स्मरंस्तु चिरकृतां ते परिचर्यामनुग्रहीतुमर्हसि दासीं रागमञ्ज-
रीम् । आकल्पसारो हि रूपाजीवाजनः । तद्ब्रूहि क्व निहितमंस्या भूषणम्'
इति पादयोरपतत् ।
(५४) ततो दयमान इवाहमब्रवम्—'भवतु, मृत्युहस्तवर्तिनः किं
प्रत्युत्पन्नमतिरिति भावः । उदञ्जलिर्बद्धाञ्जलिः । तान् ये खलु अपहारवर्माण-
मबध्नन् आसादितवती प्राप्तवती । सामपूर्वं सविनयम् । भद्रकाः सौम्याः सम्बो-
धनम् । प्रतीक्ष्यताम्-अपेक्ष्यतां युष्माभिरिति शेषः । अस्मात् तस्करात् । मुषितं
अपहृतम् । अवगच्छेयं जानीयाम् । तथा-तथास्तु । तैः पुरुषैः । प्रतिपन्ने स्वी-
कृते । अस्य दासीजनस्य ममेत्यर्थः । स धनमित्रः । कामं यथेष्टम् । त्वत्कल-
त्रेति-त्वत्कलत्रं तव भार्यां रागमञ्जरीमित्यर्थः । अभिमृष्टवान् धर्षितवान् इति
तथा । अत एव वैरास्पदं शत्रुताभाजनम् । चिरकृतां बहुकालविहिताम् । परि-
चर्यां सेवाम् । आकल्पसारः भूषणप्रधानः । हि यस्मात् । रूपाजीवाजनः-
वेश्याजनः । रूपेण आजीवति जीविकां करोतीति रूपाजीवा । निहितं स्थापितम् ।
अस्या रागमञ्जर्याः ।
(५४) दयमानः कृपां कुर्वन् । भवतु यथा वास्तु । श्रूयतां वा । संवादे वर्त-
और बद्धाञ्जलि होकर एवं प्रणाम करती हुई उन नगररक्षकोंसे गद्गद् वाणीमें विनयके
साथ मेरे सामने ही बोली—'हे सौम्यो ! आप लोग कुछ समय तक प्रतीक्षा करें जिससे
मैं इस चोरसे अपने चोरी गये हुए सब धनका पता लगा लूं।' उन रक्षकोंसे 'तथास्तु'
ऐसी स्वीकृति पानेपर (वह) मेरे पास आयी और बोली—'हे सौम्य ! आप इस दूतीका
एक अपराध क्षमा करें। आपकी भार्या रागमञ्जरीका अभिगामी वह धनमित्र आपका पूर्ण
शत्रु रहे। किन्तु, बहुकालसे परिचर्या करनेवाली (अपनी) दासी रागमञ्जरीके ऊपर तो,
अनुग्रह करनेकी कृपा करें । 'रूपाजीवा—रूपसे जीवनवृत्ति चलानेवाली—वेश्याओंका
अलंकार ही मुख्य होता है। अत एव आप बतायें कि, उस रागमञ्जरीका गहना (आभूषण)
कहां पर धरा हुआ है।' इतना कह करके वह मेरे पैरोंपर गिर पड़ी ।
(५४) तत्पश्चात् मैं (अपहारवर्मा) कृपालु पुरुषके समान बोला—'होगा, मैं
१३ द० कृ० उ०
Nepal Sanskrit University, Balmeeki Campus, Kathmandu