दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१८० दशकुमारचरितम् । [ उत्तरपीठिकायां
१८० दशकुमारचरितम् । [ उत्तरपीठिकायां
हेतुम् । तस्य खलु कल्पस्तादृशः । वणिग्भ्यो वारमुख्याभ्यश्च दुग्धे ना-
न्येभ्य इति हि तद्गता प्रतीतिः । अतोऽमुष्यामस्ति मे शङ्का' इति । सा
सद्य एव राज्ञा सह जनन्या समाहूयत ।
(४८) व्यथितवर्णनेव मयोपह्बरे कथितम्—'नूनमार्ये, सर्वस्वत्या-
गादतिप्रकाशादाशङ्कनीयचर्मरत्नलाभा । तदनुयोगायाङ्गराजेन समाहू-
यसे । भूयोभूयश्च निर्बद्धा त्वया नियतमस्मि तदागतित्वेनाहमपदेश्यः।
ततश्च मे भावी चित्रवधः । मृते च मयि न जीविष्यत्येव ते भगिनी।
तादृशदानस्य कारणम् । मन्ये-निश्चिनोमि । तस्य चर्मरत्नस्य । कल्पो नियमः।
तादृशः पूर्वोक्तप्रकारः । अमुष्यां काममञ्जर्याम् । शङ्का-चौर्यसन्देहः । सा काम-
मञ्जरी । सद्यः तस्मिन्नहनि । जनन्या रागमञ्जरीमात्रा । सहेति सम्बध्यते ।
(४८) व्यथितवर्णेन-दैन्यपूर्णेन । मया अपहारवर्मणा । उपह्वरे एकान्ते।
अतिप्रकाशात्-सर्वजनसंवेद्यात् । आशंकनीयेति-आशङ्कनीयः संशयनीयः चर्म-
रत्नस्य लाभो यस्याः सा । त्वया चर्मरत्नं लब्धमिति सर्वे संशेरत इति भावः।
तदनुयोगाय-तत्प्रश्नं कर्तुम् । भूयो भूयः पुनः पुनः । निर्बद्धा साग्रहं पृष्टा।
नियतं अवश्यम् । तदागतित्वेन चर्मरत्नप्राप्तिहेतुत्वेन । अपदेश्यः वक्तव्यः।
चित्रवधः-विचित्रनिधनम् । आस्वाभाविकं मरणमिति भावः । ते भगिनी-रागम-
रहो है। उस चर्मरत्नभस्त्रिकाकी दोहनक्रिया इसी रीतिसे है। वेश्या और बनिया ही
इसे दुह सकते हैं। अन्य लोग नहीं दुह सकते । इसलिए उसीपर विश्वास होता है कि, उसी
वेश्याने मेरी चर्मरत्नभस्त्रिका प्राप्त की है। उसी पर शङ्का है। राजाके द्वारा वह काम-
मञ्जरी माताके साथ तुरत बुलायी गयी ।
(४८) मैंने (अपहारवर्माने) बनावटी दुःखमयवेष करके काममञ्जरीसे एकान्तमें
जा करके कहा—'हे आर्य्ये ! आपने अपना सम्पूर्ण धन दान कर दिया है इस हेतुसे सबको
पूर्ण सन्देह हो गया है कि, आपके (काममञ्जरीके) पास चर्मरत्नभस्त्रिका है । उसीके
विषयमें पूछनेके लिये राजाने आपको बुलाया है । राजा द्वारा आग्रहपूर्वक बार-बार पूछे
जानेपर कि, यह चर्मरत्नभस्त्रिका आपको (काममञ्जरीको) कैसे मिली ? कहां मिली!
आदि तो आप (काममञ्जरी) अवश्य मेरा नाम बतलावेंगी। उसपर मेरा विचित्र रीतिसे
निधन हो जायगा' । (मेरे अपहारवर्माके) इस अस्वाभाविक रीति के मरणसे आपकी
बहिन रागमञ्जरी भी जीवित न रहेगी । आप (काममञ्जरी) दरिद्रावस्थामें हैं ही।
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १८१
त्वं च निःस्वीभूता । चर्मरत्नं च धनमित्रमेव प्रतिभजिष्यति । तदियमा-
पत्समन्ततोऽनर्थानुबन्धिनी । तत्किमत्र प्रतिविधेयम्' इति ।
( ४६ ) तया तज्जनन्या चाश्रूणि विसृज्योक्तम्-'अस्त्येवैतदस्मद्बा-
लिश्यान्निर्भिन्नप्रायं रहस्यम् । राज्ञश्च निर्बन्धाद् द्वित्रिश्चतुर्निहुत्यापि निय-
तमागतिरपदेश्यैव चोरितस्य त्वयि । त्वयि त्वपदिष्टे सर्वमस्मत्कुटुम्बम-
वसीदेत् । अर्थपतौ च तदपयशो रूढम् । अङ्गपुरप्रसिद्धं च तस्य
कीनाशस्यास्माभिः संगतम् । अमुनैव तदस्मभ्यं दत्तमित्यपदिश्य वर-
मात्मा गोपायितुम्' इति मामभ्युपगमय्य राजकुलमगमत्ताम् । राज्ञानुयुक्ते
अरी । निःस्वीभूता-दरिद्रीकृता । प्रतिभजिष्यति-प्राप्स्यति । समन्ततः सर्वतः ।
अनर्थानुबन्धिनी-अनर्थोत्पादिका । अत्रास्मिन् विषये । प्रतिविधेयं कर्त्तव्यम् ।
( ४९ ) तया काममञ्जर्या । तज्जनन्या तन्मात्रा च । अस्त्येवैतत्-सत्यमेवै-
तत् । अस्मद्बालिश्यात्-अस्माकं मूर्खतया । निर्भिन्नप्रायं-बाहुल्येन प्रकाशि-
तम् । निर्बन्धात् आग्रहातिशयात् । द्विर्द्विवारम् । त्रिस्त्रिवारं चतुश्चतुर्वारम् ।
द्वित्रिचतुर्भ्यः सुजिति सुच् प्रत्ययः । निहुत्य संगोप्य । आगतिः प्राप्तिहेतुत्वम् ।
चोरितस्य अपहृतस्य पदार्थस्य । अपदिष्टे कीर्त्तिते चोरत्वेनेति शेषः । अवसीदेत् ।
विनश्येत् । तदपयशः-चर्मरत्नचौर्यापवादः । रूढं प्रसिद्धम् । तस्य अर्थपतेः ।
कीनाशस्य-क्षुद्रस्य । संगतं मैत्री । अमुना अर्थपतिना । तत्-चर्मरत्नम् । वरं
मनागिष्टः । गोपायितुं रक्षितुम् । अभ्युपगमय्य बोधयित्वा । अगमतां गतवत्यौ ।
चर्मरत्नभस्त्रिका-जिससे धनकी प्राप्ति होनेकी आशा है वह भी-धनमित्रको ही मिल
जायगी । इस कारणसे यह आपत्ति सर्वथा अनर्थकारिणी है अत एव इस विषयमें क्या
उपाय करना चाहिये ।
( ४९ ) इस पर वह काममञ्जरी और उसकी माता माधवसेनाने आंख से आंसुओंको
छोड़ते हुए कहा- 'यह सर्वदा सत्य है कि, हम लोगोंकी मूर्खताके कारण ही यह रहस्य
बहुलतासे प्रकाशित हो गया है । राजाके अतिशय आग्रहसे यदि आपने दो बार तीन बार
चार बार बातको छिपानेपर फिर अपहृत ( चोरी की हुई ) वस्तुके विषयमें कह दिया
तो, आप पर ही चोरीका सन्देह हो जायगा । और आपके नाम-कथनसे हमारा सारा
परिवार विनष्ट हो जायगा । वह चर्मरत्नभस्त्रिका का चौर्यापवाद अर्थपतिके लिए प्रसिद्ध
हो चुका है । अङ्गपुरमें यह प्रसिद्धि है ही कि, उस क्षुद्र अर्थपतिके साथ हम लोगोंकी मैत्री
है । ऐसी अवस्थामें हम लोग यह कह करके अपनी रक्षाका उपाय ठीक सोचती हैं कि यह
चर्मरत्नभस्त्रिका मुझे उसी अर्थपति ने दी है ।' ऐसा मुझे समझा करके वे लोग राजदरबारमें