सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

१६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
स्रवति' इति मयोक्ते सोऽतिहृष्टः प्रतिपद्य 'मामेव त्वदुपप्रलोभने नियुज्य
बहिरवस्थितः । प्राप्तमितः परं चिन्त्यताम्' इति ।
( ६३ ) प्रीतेन च मयोक्तम्—'मदुक्तमल्पम् , त्वन्नय एवात्र भूयान् ।
आनयैनम्' इति । अथानीतेनामुना मन्मोचनाय शपथः कृतः, अहं च
रहस्यानिर्भेदाय विनिगडीकृतश्च स्नानभोजनविलेपनान्यनुभूय नित्यान्ध-
काराद्भित्तिकोणादारभ्यौरगास्येन सुरङ्गामकरवम् । अचिन्तयं चैवम्—
'हन्तुमनसैवामुना मन्मोचनाय शपथः कृतः । तदेनं हत्वापि नासत्यवा-
लिकाम् । त्वदुपप्रलोभने-तवापहारवर्म्मण उपप्रलोभने वशीकरणे । बहिः कारागृह-
बहिर्भागे । प्राप्तम् अनन्तरकरणीयम् ।
( ६३) मया अपहारवर्मणा । मदुक्तमित्यादि-मया यदुक्तं तदल्पमेव किन्तु
त्वन्नयस्त्वन्नीतिरेव भूयानधिक इति । एनं कान्तकम् । आनय मत्समपिम्इति
शेषः । अहमपहारवर्मा । रहस्यानिर्भेदाय रहस्याप्रकाशाय । विनिगडीकृतः
बन्धनान्मोचितः । अनुभूय कृत्वा । नित्यान्धकारात् सततान्धकाराच्छन्नात् ।
उरगास्येन-सर्पमुखाकारास्त्रविशेषेण । हन्तुमनसा मां हन्तुकामेन । अमुना कान्त-
केन । असत्यवाददोषेण मिथ्यावचनरूपापराधेन । स्पृश्ये स्पृष्टो भवामि । निष्पततः
कारागृहान्निर्गच्छतः । प्रसार्यमाणपाणेः प्रसारितकरस्य । तस्य कान्तकस्य । पादेन
वर्माको ) वशमें लानेके लिये, नियुक्त किया है । और स्वयं बाहर बैठा हुआ है । इसके
विषयमें जो कर्त्तव्य आप समझें सो करें ।'
( ६३ ) मैंने प्रसन्नतापूर्वक कहा—'मैंने तुमसे ( शृगालिकासे ) थोड़ा कहा था
किन्तु, तुम्हारी नीतिने इसे अधिकरूपमें रच दिया । उस कान्तकको बुला लाओ ।'
कान्तकके आनेके अनन्तर उसने मेरे लिये छोड़ देनेकी शपथ की । मैंने रहस्य न प्रकट
करनेकी शपथ खायी । शपथादिके बाद उसने मेरी बेड़ियां खोल दी । स्नान, भोजन,
तैल, इत्र आदिसे मेरा स्वागत सम्मान किया । मैंने भी सदा अन्धेरी रहनेवाली दीवालके
कोनेमें सर्पमुखाकार कुदालसे खोदना प्रारम्भ किया और सेंध लगा दी । मनमें मैंने
विचार किया कि, 'इस कान्तकने मुझे मार डालनेकी इच्छासे ही यह शपथ, मुझे छोड़नेके
बहाने से ली है । यदि मैं ही इसे मार डालूं, तो, मुझे मिथ्या वचनरूपापराधदोष न
लगेगा ।' ( ऐसा सोच करके ) ज्यों ही कारागाराध्यक्ष कान्तकने मुझे बद्ध करनेके लिए
हाथोंको बढ़ाया त्यों ही मैंने उसकी छातीमें लात मारी और उसे पटक दिया । उसके
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६६
दृढोपेण स्पृश्ये' इति । निष्पततश्च मे निगडनाय प्रसार्यमाणपाणेस्तस्य
पादेनोरसि निहत्य पातितस्य तस्यैवासिधेन्वा शिरो न्यकृन्तम् । अकथयं
च शृगालिकाम्—'भण भद्रे, कथंभूतः कन्यापुरसंनिवेशः ? महानयं
प्रयासो मा वृथैव भूत् । अमुत्र किंचिच्चोरयित्वा निवर्तिष्ये' इति ।
( ६४ ) तदुपदर्शितविभागं चावगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणि-
प्रदीपेपु नैकक्रीडाखेदसुप्तस्य परिजनस्य मध्ये महितमहार्घरत्नप्रसुप्तसिं-
हाकारदन्तपादे हंसतूलगर्भशय्योपधानशालिनि कुसुमलबच्छुरितपर्यन्ते
मम चरणेन । पातितस्य भूमाविति शेषः । तस्यैव कान्तकस्यैव । असिधेन्वा छुरि-
कया । न्यकृन्तम् । अच्छिन्दम् । भण-कथय । कथम्भूत्तः कीदृशः । कन्यापुर-
सन्निवेशः कन्यान्तःपुरसंस्थानम् । प्रयासः श्रमः माभूत्-न भवतु । मा योगे
लुङ् अडागमप्रतिषेधश्च । अमुत्र कन्यान्तःपुरे । निवर्त्तिष्ये परावर्त्तितो भविष्यामि
(६४) तदुपदर्शितविभागं शृगालिकाकथितप्रदेशम् । इदं कन्यान्तःपुरस्य
विशेषणम् । अवगाह्य प्रविश्य । मणिप्रदीपेपु रत्नदीपेपु । नैकैति-नैकाभिः अनेक-
विधाभिः क्रीडाभिः केलिभिर्यः खेदः परिश्रमस्तेन सुप्तस्य निद्रितस्य । महितेति-
महितैरुत्कृष्टैर्महार्घरत्नैर्बहुमूल्यहीरकादिभिः प्रसुप्ताः खचिताः सिंहाकाराः सिंहा-
कृतयो दन्तपादा गजदन्तनिर्मिताः पर्यङ्कपाददेशा यस्य तस्मिन् । हंसेति-हंसवत्
शुभ्रास्तूलो गर्भे-अभ्यन्तरे ययोस्तादृशाभ्यां शय्योपधानाभ्यामास्तरणोपवर्हाभ्यां
शालते शोभते यत्तस्मिन् । कुसुमेति-कुसुमानां पुष्पाणां लवैर्लेशैश्छुरितो व्याप्तः
पर्यन्तः प्रान्तभागो यस्य तस्मिन् । एतानि पर्यङ्कतलविशेषणानि । पर्यङ्कतले
गिर पड़ने पर मैंने उसीकी छुरीसे उसका सिर काट डाला । शृगालिकासे कहा—'हे
भद्रे ! बताओ, राजकुमारीका अन्तःपुरका कैसा सन्निवेश ( स्थान ) है । जिससे यह
महान् परिश्रम व्यर्थ न होवे । अर्थात्—ठीक रास्ता बतादो, तो मैं वहां चला जाऊं ।
वहांसे कन्यान्तःपुरसे कुछ चुरा करके लौटना चाहिये।'
(६४) शृगालिकाद्वारा बताये हुए प्रदेशसे कन्यान्तःपुरमें पहुंच करके, (वहांका
जो दृश्य देखा उसका वर्णन इस प्रकार है) देखा कि, रत्नप्रदीप प्रकाशित हो रहा है।
अनेकों रीतिी केलियों द्वारा उत्पन्न परिश्रमसे सोते हुए परिजनोंके बीचमें बहुमूल्य
रत्न हीरकादिसे जटित सिंहाकार (सिंहके आकारवाले) हाथी-दांतके पैरोवाले हंसके
समान सफेद आस्तरण (चांदनी, तकिया, तोषक) आदिसे शोभित फूलोंके किसलयोंसे
परिव्याप्त पलंगके ऊपर दाहिने पैरके ऊपर बायें पैरका पिछला हिस्सा जिसमें थोड़ी
Nepal Sanskrit University, Balmeeki Campus, Kathmandu