दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१४४ दशकुमारचरितम् । [ उत्तरपीठिकायां
१४४ दशकुमारचरितम् । [ उत्तरपीठिकायां
विमर्दजन्म, स्मर्यमाणमधुरम् , उदीरिताभिमानमनुत्तमम् , सुखमपरोक्षं
स्वसंवेद्यमेव । तस्यैव कृते विशिष्टस्थानवर्तिनः कष्टानि तपांसि, महान्ति
दानानि, दारुणानि युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाच-
रन्ति' इति ।
( १७ ) निशम्यैतन्नियतिबलान्नु तत्पाटवान्नु स्वबुद्धिमान्यान्नु स्व-
नियममनादृत्य तस्यामसौ प्रासजत् । सा सुदूरं मूढात्मानं च तं प्रवहणेन
नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैषीत् । अभूच्च घोषणा
स्मर्यमाणमपि मधुरं—यस्य स्मरणेऽपि माधुर्यं का कथा तस्य साक्षादनुभवे
इति भावः । उदीरिताभिमानम्-उद्दीपिताहङ्कारम् । अनुत्तमं श्रेष्ठम् । न विद्यते
उत्तमं यस्मात्तदिति विग्रहः । अपरोक्षं—प्रत्यक्षम् । स्वसंवेद्यं स्वयमेवानुभवनीयं
नत्वन्यवाक्येनेति शेषः । सर्वमेतत् सुखमित्यस्य विशेषणम् । तस्यैव-सुखस्यैव ।
कृते निमित्तम् । विशिष्टस्थानवर्त्तिनः-प्रसिद्धतीर्थादिचेत्रवासिनः । नरा इत्यस्य
विशेषणम् । दारुणानि भयानकानि । भीमानि भयंकराणि । समाचरन्ति-कुर्वन्ति ।
( १७ ) निशम्य-श्रुत्वा । एतत्-काममंजरीवाक्यम् । नियतिबलात्-दैवप्रभा-
वात् । तत्पाटवात्-तस्याः काममंजर्याः पाटवाच्चातुर्यात् । स्वस्य मरीचेरित्यर्थः ।
बुद्धिमान्यात्-मतिदौर्बल्यात् । सर्वत्र नु वितर्के । स्वनियमं-मुनिजनोचित-तपश्च-
रणादिकम् । अनादृत्य-परित्यज्य । तस्यां गणिकायाम् । असौ-मरीचिः ।
प्रासजत् आसक्तोऽभवत् । सा-काममञ्जरी अनैषीदित्यस्य कर्तृपदम् । सुदूरं
अतिदूरवर्त्ति । पुरमित्यस्य विशेषणम् । मूढात्मानं-मुग्धचित्तम् । तं-मरीचिम् ।
प्रवहणेन यानविशेषेण । नीत्वेत्यस्य दुहादित्वात् तं पुरञ्चेति कर्मद्वयम् । उदार-
शोभया-प्रशस्तसौन्दर्यंशालिन्या । राजवीथ्या-राजमार्गेण । स्वभवनं काममंजरी-
परस्पर आलिंगन-चुम्बन आदिसे उत्पन्न होता है । स्मरण करने में यह बड़ा ही
मधुर लगता है । यह अभिमानको प्रोत्साहन देता है और आनन्दसे उत्तम वस्तु और
कोई है ही नहीं । यह प्रत्यक्ष सुख अनुभवगम्य है । इसीके निमित्त स्थान विशेष में
रहनेवाले लोग तरह-तरहके कष्ट सहते, तप करते, बड़े बड़े दान देते, भयानक युद्ध करते
और विकराल समुद्र लाँघने आदिका दुष्कर कर्म करते हैं ।
( १७ ) उसके ये वचन सुन करके दैवबलसे, उस वेश्याके कौशलसे अथवा बुद्धि
मन्द पड़ जानेके कारण उन मुनिराजने अपने नियमोंको त्याग दिया और काममंजरीमें
आसक्त हो गये । तदनन्तर उन मूढात्मा मुनिको कर्णीरथपर बिठा करके उत्कृष्ट शोभा-
सम्पन्न राजवीथीसे चल करके अपने नगरके भवनमें ले गयी उसी दिन राजदरबारमें
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १४५
‘श्वः कामोत्सवः’ इति । उत्तरेद्युः स्नातानुलिप्तमारचितमञ्जुमालमारब्ध-
कामिजनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे गतेऽपि तया विना दूय-
मानं तमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवति-
जनशतपरिवृतस्य राज्ञः संनिधौ समासद् त् स्मितमुखेन तेन ‘भद्रे’ भग-
वता सह निषीद’ इत्यादिष्टा सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् ।
(१८) तत्र काचिदुत्थाय बद्धाञ्जलिरुत्तमाङ्गना ‘देव, जितानया-
हम् । अस्यै दास्यमद्यप्रभृत्यभ्युपेतं मया’ इति प्रभुं प्राणंसीत् । विस्मय-
गृह्ण । घोषणा डिण्डिमादिना प्रचारः । श्वः—आगामिदिने । उत्तरेद्युः—परदिने ।
स्नातानुलिप्तं आदौ स्नातः पश्चादनुलिप्तस्तम् । स्नानानन्तरं चन्दनादिना
लिप्तसर्वाङ्गमित्यर्थः । आरचिता परिहिता मञ्जुर्मनोहरा माला येन तम् । आरब्धं
प्रक्रान्तं कामिजनस्य विलासिनो वृत्तम्याचरणं येन । कामुकवद्व्यवहरन्तमित्यर्थः ।
निवृत्तोऽपगतः स्ववृत्तस्य निजाचारस्य तपोनुष्ठानरूपस्याभिलाषो यस्य तम् ।
क्षणमात्रे मुहूर्त्तमात्रे । तया काममञ्जर्या । दूयमानं-दुःखमनुभवन्तम् । तस्या दर्शनं
विना क्षणमात्रमपि स्थातुमपारयन्तमित्यर्थः । एतानि तमित्यस्य विशेषणानि ।
तं मरीचिम् । ऋद्धिमता—समृद्धेन । उत्सवसमाजं क्रीडासभाम् । युवतिजनेति—
तरुणगणिकागणवेष्टितस्य । राज्ञः—चम्पापतेः सिंहवर्मणः । समासद्त् आगतवती ।
तेन राज्ञा । भगवता मुनिना । निषीद—उपविश । आदिष्टा अनुमता । सविभ्रमं—
सविलासम् ।
(१८) तत्र उत्सवसमाजे । काचिद् अनिर्दिष्टनाम्नी । देव-राजन् । अनया-
काममञ्जर्या । अस्यै-एतदर्थम् । काममञ्जर्या इत्यर्थः । दास्यं—दासीत्वम् । अभ्यु-
घोषणा हुई कि, कल कामोत्सव मनाया जायगा ।' दूसरे दिन महर्षि मरीचिने स्नान
करके सुगन्धित तेल लगाया । सुन्दर माला पहनी । इस तरह कामी पुरुषों जैसा वानक
बनाया । उस समय वे अपने पूर्ववृत्त (ऋषिजीवन) को एकदम भूल गये । क्षणमात्रके
लिए भी काममंजरीका वियोग होनेसे वे विह्वल हो उठते थे । इसी समय वह वेश्या
समृद्धिसम्पन्न राजमार्ग से चल करके उनको, सैकड़ों युवतियोंसे आवेष्टित महाराजके पास
किसी उपवनमें विद्यमान, राजदरवारमें ले गयी । राजा काममंजरीको देख करके
मुसकराये और उन्होंने कहा—'भद्रे ! भगवान् मरीचिके साथ बैठो' महाराजकी यह आशा
पा करके उसने भावभंगीके साथ प्रणाम किया और मन्द-मन्द मुसकाती हुई बैठ गयी ।
(१८) इसी समय एक उत्तम श्रेणीकी स्त्री हाथ-जोड़ करके उठ खड़ी हुई और
बोली—'देव ! इसने मुझे जीत लिया । आजसे मैं इसको दासी हो गयी ।' यह कह