सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१३६ दशकुमारचरितम् । ['उत्तरपीठिकायां

१३६ दशकुमारचरितम् । ['उत्तरपीठिकायां
वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहितृनिरोधनैर्व्रीडोत्पादनैरन्याभियोगैरवमानै-
श्चापवाहनम्, अर्थदैरनर्थप्रतिघातिभिश्चानिन्द्यैरिभ्यैरनुबद्धार्थानर्थसंश-
यान्विचार्य भूयोभूयः संयोजनमिति ।
(७) गणिकायाश्च गम्यं प्रति सज्जतैव न सङ्गः । सत्यामपि प्रीतौ
न मातुर्मातृकाया वा शासनातिवृत्तिः । एवं स्थितेऽनया प्रजापतिविहितं
वेश्य इति कोषः । लुब्धस्य अर्थलोलुपस्य कृपणस्येत्यर्थः । त्यागशक्तेर्दानसाम-
र्थ्यस्य संधुक्षणमुद्दीपनम् । असारस्य निर्धनस्य । वाक्संतक्षणैः वाक्पीडनैः
कटुवाक्यैरिति यावत् । लोकोपक्रोशनैः लोकेषु जनसमाजेषु निन्दनैः । दुहितृनि-
रोधनैः स्वकन्याया गमननिवारणैः । व्रीडोत्पादनैः लज्जाप्रदानैः । अन्येति
अन्यविधैरभियोगैः धर्माधिकरणव्यवहारैः । अपवाहनं गृहाद् बहिष्कारणम् ।
अर्थदैः । धनप्रदैः । अनर्थप्रतिघातिभिः आपत्प्रतीकारसमर्थैः । अनिन्द्यैः समा-
जेपु शिष्टत्वेन परिगणितैः । इभ्यैर्धनिकैः । अनुबद्धार्थान् अनुबद्धः संश्लिष्टोऽर्थो
येषां तान्, सम्बन्धयुक्तानित्यर्थः । अर्थसंशयान् अर्थस्य शुल्कस्य प्राप्तिविषये
संशयो येभ्यस्तान् । विचार्य विदिच्य, अर्थप्राप्तौ कापि बाधा न भविष्यतीति
विचार्येति भावः । संयोजनं गणिकायाः सम्मेलनम् । इति-एतत्पर्यन्तं गणिका-
मातुरधिकारकथनम् ।
(७) अधुना गणिकाया अधिकारः कथ्यते । गम्यं विटम् । सज्जता सुन्दर-
परिच्छदादिप्रदर्शनमेव कार्यमिति शेषः-न तु सङ्गः सहवासादिः गणिकया कार्य
इति शेषः । प्रीतौ अनुरागे । मातुर्जनन्याः । मातृकायाः मातामह्याः धात्र्या वा ।
मातुर्माता तु मातृकेति वैजयन्ती । मातेव मातृकेति इवार्थे कन् प्रत्ययो वा ।
उपमातृका धात्रीत्यर्थः । शासनातिवृत्तिः आज्ञालंघनम् । गणिकया सर्वदा मातु-
उसका अपमान करके भगा दे । जिससे धन अधिक मिल सके और किसी प्रकारकी विघ्न-
बाधा न आवे । ऐसी अनिन्द्य बातें सोच-सोच करके धनिकोंके साथ कन्याका मेल करावे ।
किन्तु, उसमें भी इस बातका ध्यान रखे कि, सम्बन्ध सदा ऐसोंके साथ ही करे कि, जहां
से धन मिलनेमें कोई संशय न हो ।
(७) प्रत्येक वेश्याका कर्तव्य हैं कि वह प्रेमीके ऊपरी ठाट-बाटको ही देख करके
न रीझ जाय—बल्कि तत्त्व भी देखे । यदि किसीसे प्रीति हो जाय तो भी, वेश्या
अपनी माताकी आज्ञाका उल्लंघन न करे । ऐसी दशामें इसने भगवान् प्रजापतिके निर्मित

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १३७
स्वधर्ममुल्लङ्घ्य क्वचिदागन्तुके रूपमात्रधने विप्रयूनि स्वेनैव धनव्ययेन
रममाणया मासमात्रमत्यवाहि । गम्यजनश्च भूयानर्थयोग्यः प्रत्याचक्षाण-
यानया प्रकोपितः । स्वकुटुम्बकं चावसादितम् ‘एषा कुमतिर्न कल्याणी,
इति निवारयन्त्यां मयि वनवासाय कोपात्प्रस्थिता । सा चेदियमहार्य-
निश्चया सर्व एष जनोऽत्रैवानन्यगतिरनशनेन संस्थास्यते, इत्यरोदीत् ।
(८) अथ सा वारयुवतिस्तेन तापसेन ‘भद्रे, ननु दुःखाकरोऽयं वन-
मातृकाया वा शासने वर्त्तितव्यमिति भावः । एवं स्थिते-एतादृश्यां मर्यादा-
याम् । अनया काममञ्जर्या । प्रजापतिविहितं विधिनिर्दिष्टम् । स्वधर्मं गणिकोचित-
कर्त्तव्यम् । क्वचित् अपरिचिते । रूपमात्रं धनं यस्य तस्मिन्, यस्य सौन्दर्यमेव
वर्त्तते न तु धनमिति भावः । विप्रयूनि ब्राह्मणयुवके । स्वेनैव धनव्ययेन कामम-
ञ्जर्या एव धनव्ययेन । रममाणया विहरन्त्या । अत्यवाहि यापितम् । गम्य-
जनः विटजनः भूयान् अधिकः । अर्थयोग्यः धनप्रदानसमर्थः प्रत्याचक्षा-
णया जनः भूयान् अधिकः । अर्थयोग्यः धनप्रदानसमर्थः प्रत्याचक्षाणया
प्रत्याख्यानं कुर्वत्या । अनया काममंजर्या । प्रकोपितः रोषितः । स्वकुटुम्बकं
निजपरिवारवर्गः । अवसादितं—धनाभावादवसन्नीकृतम् , कष्टं प्रापितमिति भावः ।
एषा एतादृशी । कुमतिः कुत्सुद्विस्तवेति शेषः । कल्याणी शुभप्रदा । मयि काम-
मञ्जर्या मातरि । वनवासाय अरण्यवासं कर्तुम् । कोपात् क्रोधमाश्रित्य । इयं
काममञ्जरी । अहार्यनिश्चया अहार्यः हर्तुं निवारयितुमशक्यो निश्चयः प्रतिज्ञा
यस्याः सा । दृढनिश्चयेत्यर्थः । एष जनः अस्मदादिः । अत्रैव भवत्पुरत एव ।
संस्थास्यते मरिष्यति । संस्थानं मरणं मतमिति वैजयन्ती । अरोदीत् विललाप,
सा वृद्धा गणिकामातेति शेषः ।
(८) अथानन्तरं तेन पूर्वोक्तेन तापसेन मरीचिना सा वारयुवतिर्गणिका
धर्मका अतिक्रमण करके किसी रूपमात्रके धनी परदेशी युवकपर रीझ करके अपना ही
व्यय करती हुई एक महीनेका समय बिताया । इसी बीच कितने ही बड़े-बड़े धनी-मानी
आये, जिसके साथ यह सुखसे रह सकती थी, किन्तु, इसने उनका तिरस्कार करके नाराज
कर दिया । अपने कुटुम्बियोंको भी बहुत तकलीफ दी । जब मैंने ‘यह कुमति ठीक
नहीं है' यों कह करके वैसा करनेसे रोका तो, मारे क्रोधके यह वनवासके लिए घरसे
निकल पड़ी । सो यदि इसका यह दृढ़ निश्चय है तो, असहायभावसे सारा कुटुम्ब अनशन
करता हुआ इसी जगह मर मिटेगा ।
(८) इसके बाद उन तपस्वीजीने उस वेश्यासे कहा—‘भद्रे ! वनवास दुःखकी