सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१३२ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
१३२ दशकुमारचरितम् । [ उत्तरपीठिकायां
मिरभाषत—'भगवन्, अस्या मे दोषमेषा वो दासी विज्ञापयति । दोषश्च
मम स्वाधिकारानुष्ठापनम् ।
(६) एष हि गणिकामातुरधिकारो यद्दुहितुर्जन्मनः प्रभृत्येवाङ्ग-
क्रिया, तेजोबलवर्णमेधासंवर्धनेन दोषाग्निधातुसाम्यकृता मितेनाहारेण
शरीरपोषणम् , आपञ्चमाद्वर्षात्पितुरप्यनतिदर्शनम् , जन्मदिने पुण्यदिने
चोत्सवोत्तरो मङ्गलविधिः, अध्यापनमनङ्गविद्यानां साङ्गानाम्, नृत्यगीत-
वाद्यनाट्यचित्रास्वाद्यगन्धपुष्पकलासु लिपिज्ञानवचनकौशलादिषु च स-
पलितेति-पलितेन जरसा शौक्ल्येन शारः शवलो यः शिखण्डबन्धः केशपाश-
बन्धनं तेनादौ स्पृष्टा पश्चान्मुक्ताभूमिर्यया सा । शिरःस्पृष्टभूतलं यथा तथा
प्रणम्येत्यर्थः । अस्या भवत्पुरोवर्त्तमानायाः मे मम दोषं दूषणं अपराधमिति शेषः ।
एषा पुरोदृश्यमाना । वो युष्माकं दासी मत्कन्येत्यर्थः । स्वस्य आत्मनो गणिका-
मातुर्यः अधिकारः कन्याया वेश्योचितव्यवहारशिक्षणं तस्यानुष्ठापनं तदुचिता-
चरणाय प्रेरणम् ।
(६) दुहितुः कन्यायाः । जन्मनः प्रभृति-जन्मसमयमारभ्य । अङ्गक्रिया उद्व-
र्तनादिशरीरसंस्कारः । तेजः प्रभावः, बलं सामर्थ्यं, वर्णो गौरत्वादिकं मेधा प्रज्ञा-
चैतेषां संवर्धनेन वृद्धिकारिणा तथा दोषाणां वातपित्तकफानाम्-अग्नेर्जठरानलस्य,
धातूनां त्वङ्मांसादीनां साम्यकृता समभावं कुर्वता-तथा मितेन परिमितेन,
नात्यल्पेन नातिविस्तरेण वेति भावः । पदत्रयमेतत् आहारेणेत्यस्य विशेषणम् ।
आपञ्चमात् पञ्चमादारभ्य । पितुः स्वजनकस्यापि अन्येषां तु का कथेति भावः ।
अनतिदर्शनम् अधिकदर्शनाभावः । प्रायेण पितृदर्शनाभावः कन्याया लज्जाभया-
उसकी माताने हाथ जोड़ करके और मस्तकको भूमिमें स्पर्श करा करके कहा—'भगवन् !
आपकी दासी ( काममञ्जरी ) मेरा अपराध बताती है । किन्तु, मेरा दोष यही है कि,
मैंने इससे वेश्याजनोचित कार्य करानेकी चेष्टा की है ।
(६) और यह प्रत्येक वेश्याकी माताका अधिकार है कि, जन्मसे ही वह अपनी
पुत्रीको उबटन आदि लगावे । तेज, बल ( शारीरिक बल ) वर्ण ( रूप ) तथा बुद्धिको
बढ़ाने और वात-पित्तादि दोषों, जठराग्नि एवं रस आदि धातुओं को सम-
भावमें रखनेवाला परिमित आहार दे करके उसके शरीरका पोषण करे । कन्याका
पाँचवाँ वर्ष समाप्त होते ही वेश्याकी माता उसे पितातककी दृष्टिसे दूर रखे । जन्मके
दिन तथा संक्रान्ति आदि पवित्र दिनोंमें उत्सवके साथ मङ्गल कार्य करे । सभी अङ्गों
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १२३
म्यग्विनयनम् , शब्दहेतुसमयविद्यासु वार्तामात्रावबोधनम् , आजीवज्ञाने
क्रीडाकौशले सजीवनिर्जीवासु च द्यूतकलास्वभ्यन्तरीकरणम् अभ्यन्त-
रकलासु वैश्वासिकजनात्प्रयत्नेन प्रयोगग्रहणम् , यात्रोत्सवादिष्वादरप्र-
साधितायाः स्फीतपरिबर्हायाः प्रकाशनम् , प्रसङ्गवत्यां संगीतादिक्रियायां
प्रभावं सूचयति । जन्मदिने कन्याया उत्पत्तिदिवसे । पुण्यदिने पुण्यतिथौ संक्रम-
णादिसमय इत्यर्थः । उत्सवेोत्तरः उत्सवप्रधानः । मङ्गलविधिः माङ्गल्यानुष्ठानम् ।
अध्यापनं-शिक्षादानम् । अनङ्गविद्यानाम्-कामशास्त्राणाम् । साङ्गानाम्-अङ्गस-
हितानाम् । नृत्येति-नृत्यं च गीतं च वाद्यं च नाट्यमभिनयश्च चित्रमालेख्यकर्म च -
आस्वाद्यं भोज्यं मिष्टान्नादि च गन्धश्च पुष्पं च तानीति द्वन्द्वसमासः-तेषां कलासु
विद्यासु । कलाशब्दस्य सर्वैः सहान्वयः तेन नृत्यकलागीतकलेत्यादिप्राप्तम् लिपिज्ञानं
अक्षरज्ञानम्, वचनकौशलं श्लेषादि । विनयनं शिक्षणम् । शब्दो व्याकरणविद्या,
हेतुस्तर्कविद्या समयो ज्योतिषविद्या तासु । वार्त्तामात्रावबोधनं वृत्तान्तमात्रज्ञानम् ।
केन शास्त्रेण कियल्लभ्यते इत्येतावन्मात्रबोधः । आजीवज्ञाने-जीविकापरिचये ।
अमेयं जीविकेति ज्ञाने इति भावः । सजीवनिर्जीवासु द्यूतकलास्वित्यस्य विशेषणम् ।
सजीवा द्यूतकला यथा कुक्कुटादिद्वन्द्वयुद्धं निर्जीवा च अक्षक्रीडादि । अभ्यन्तरीकरणं
तेषु अन्तःप्रवेशनं स्वायत्तीकरणमिति शेषः । अभ्यन्तरकलासु रतिक्रीडासु ।
वैश्वासिकजनात् प्रामाणिकपुरुषात् । प्रयत्नेन आदरातिशयेन । प्रयोगग्रहणं
कर्त्तव्यताशिक्षणम् । आदरसाधितायाः सादरमलंकृतायाः । स्फीतेति-स्फीताः
अतिशयिताः प्रोज्ज्वला इति यावत् परिवर्हाः परिच्छदा यस्यास्तथाविधायाः ।
परिच्छदे नृपार्हेऽर्थे परिवर्हः इत्यमरः । प्रकाशनं बहिः प्रकटनम् । प्रसङ्गवत्यां-
समेत अनङ्गविद्या ( कामशास्त्र ) पढ़ावे । नृत्य, गीत, वाद्य, नाट्य, ( अभिनय ) चित्रकला,
भोज्य-पदार्थ ( पकवान आदि ), गन्ध, पुष्प, आदिकी कलाओं तथा पढ़ने-लिखने और
बात-चीतमें पूर्ण निपुण करे । व्याकरण, तर्क और सिद्धान्त ( ज्योतिष ) विद्याके वृत्तान्त
मात्रका ज्ञान करा दे, सजीव द्यूतकला ( जुआ ) अर्थात् मुर्गे आदिकी लड़ाई और पाँसा
आदि एवं रतिक्रियाका मर्म समझा दे । किसी प्रकारकी यात्रा और उत्सव आदिके अवसर
पर बड़े आदरके साथ कन्याका शृङ्गार करके इस तरह लोगोंके समक्ष ले जाय कि,
उसके चिकने तथा चमकीले केश लहरा रहे हों । यदि कोई प्रसङ्ग आ पड़े तो पहले
ही से धन आदि दे करके अपने वशमें किये हुए गुणी लोगोंद्वारा विश्वसनीय
वाक्योंको कहला करके कन्या का गुण-गान कराये । विविध लक्षणोंको जाननेवाले
लोगोंद्वारा कन्याके शुभ लक्षण कहलावे । कन्याको चाहनेवाले नायकके प्रिय