सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

सस्मितम् 'अनुगृहीतास्मि' इति न्यषीदत् । संकथा च देशवार्त्तानुविद्धा

पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३०७
किमिति चिरस्थितिक्लेशोऽनुभूयते । ननूपवेष्टव्यम्' इत्यभिहिता सा
सस्मितम् 'अनुगृहीतास्मि' इति न्यषीदत् । संकथा च देशवार्त्तानुविद्धा
काचनावयोरभूत् । कथासंश्रिता च सा 'देशातिथिरसि । दृश्यन्ते च ते-
ऽध्वश्रान्तानीव गात्राणि । यदि न दोषो मद्गृहेऽद्य विश्रमितुमनुग्रहः
क्रियताम्' इत्यशंसत् ।
(१७) अहं च 'अयि मुग्धे, नैष दोषः, गुण एव' इति तदनुमार्गगामी
तद्गृहगतो राजार्हेण स्नानभोजनादिनोपचरितः, सुखं निषण्णो रहसि
पर्यपृच्छ्ये -'महाभाग, दिगन्तराणि भ्रमतः कच्चिदस्ति किञ्चिदद्भुतं
भवतोपलब्धम्' इति । ममाभवन्मनसि 'महदिदमाशास्पदम् । एषा खलु
प्रदेशः । किमिति-किमर्थं चिरस्थितिक्लेशः-दीर्घकालावस्थानायासः । अनुभूयते
त्वयेति शेषः । सा युवती । न्यषीदत्-उपाविशत् । संकथा-आलापः । देशवार्त्ता-
नुविद्धा-देशवृत्तान्तसम्बन्धिनी । आवयोः तस्या मम च । कथासंश्रिता-आलाप-
निविष्टा । सा युवती अशंसदित्यनेनान्वयः । देशातिथिः-अस्मद्देशे आगतोऽसि त्व-
मतोऽस्माकमतिथिरसि । अध्वश्रान्तानि-मार्गलङ्घनक्लान्तानि विश्रमितुमवस्थातुम् ।
( १७) अहं प्रमतिरित्यर्थः । एषः-त्वद्गृहे ममावस्थानम् । गुणः अनुकूलः तद-
नुमार्गेति-तस्याः युवत्याः पश्चाद् गच्छन् । राजार्हेण राजोचितेन । उपचरितः-स-
म्यक् संस्कृतः । पर्यपृच्छ्ये-परिपृष्टोऽहं तयेति शेषः । दिगन्तराणि-नानादेशान् ।
कच्चिदिति प्रश्नार्थकमव्ययम् । उपलब्धं-दृष्टं ज्ञातं वा । मम मनसि अभवत्-
अहमित्थमचिन्तयम् । आशास्पदं-आशाजनकम् । एषा युवती । निखिलेति-
नयनाभिराम तथा रमणीय है और सबोंके विश्रान्ति योग्य है अतः आप खड़े होनेके
कष्टको क्यों सहती हैं- यहां बैठ जाइये ।' मेरे ऐसे कथनपर उसने हंसीके साथ उत्तर
दिया- 'मैं आपकी अनुगृहीत हूँ' और वह बैठ गयी । हम दोनोंमें देश-देशान्तरोंकी तथा
देवताओंकी कथा-वार्ताएं होने लगीं । फिर उस तरुणीने मुझसे कहा- 'आप इस देशके
अतिथिरूपमें हैं। अतः यदि आपको कोई आपत्ति न होवे तो आप मेरे गृहपर चलकर
विश्राम करनेकी कृपा करें क्योंकि आपका शरीर मार्गश्रमसे परिक्लान्त दीख रहा है ।
(१७) मैंने उत्तर दिया- 'अयि मुग्धे ! आपके यहाँ चलनेमें मुझे कोई आपत्ति
नहीं दीखती अपितु, सुख ही मालूम होता है। पश्चात् मैं उसके मार्गका अनुसरण
करता हुआ उस बालाके गृहपर आ पहुँचा। उस बालाने अपने घरपर मेरा राजोचित
स्वागत किया और स्नान-भोजन आदिका सुन्दरतासे प्रबन्ध कराया । फिर आनन्दमें
उसने मुझसे एकान्तमें पूछा- 'हे महाभाग ! देश-देशान्तरोंमें पर्यटन करते हुए आपने

निखिलपरिजन्सम्बाधसंलक्षितायाः सखी राजदारिकायाः । चित्रपटे
तदुपरि विरचितसितवितानं हर्म्यतलम् , तद्गतं च प्रकामविस्तीर्णं शरद-
भ्रपटलपाण्डुरं शयनम् , तदधिशायिनी च निद्रालीढलोचना ममैवेयं
प्रतिकृतिः ।
(१८) अतो नूनमनङ्गेन सापि राजकन्या तावतीं भूमिमारोपिता ।
यस्यामसह्यमदनज्वरव्यथितोन्मादिता सती सखीनिर्वन्धपृष्टविक्रियानिमि-
त्तचातुर्येणैतद्रूपनिर्माणेनेव समर्थमुत्तरं दत्तवती । रूपसंवादाच्च संशया-
निखिलपरिजनानां सुप्तानां सम्बाधे सङ्घमध्ये संलक्षिताया मया दृष्टायाः । राजदा-
रिकायाः राजकन्यायाः । तत् पूर्वदृष्टम् । उपरीति-उपरि ऊर्ध्वदेशे विरचितं
निर्मितं सितवितानं शुभ्रोल्लोचो यस्मिन् तादृशं हर्म्यतलम् । तद्गतं हर्म्यतलस्थि-
तम् । प्रकामविस्तीर्णं-दीर्घविस्तारम् । शरदिति शारदमेघधवलम् । तस्मिन् शयने
अधिशेते इति तदधिशायिनी । निद्रालीढलोचना-निद्रामुद्रितनयना । प्रतिकृतिः
प्रतिमूर्त्तिः ।
(१८) नूनं निश्चितम् । तावर्ती-तथाविधमदनपारवश्यरूपाम् । भूमि अव-
स्थाम् । आरोपिता-नीता। यस्यां भूमौ-अवस्थायामिति यावत् । असह्येति-अस-
ह्येन सोदुमशक्येन मदनज्वरेण कामजनितसन्तापेन व्यथिता पीडिता तथा उन्मा-
दिता उन्मत्तीकृता सती । सखीभिः सहचरीभिः निर्बन्धेनाग्रहातिशययेन पृष्टमनु-
युक्तं विक्रियानिमित्तं विकारकारणं यस्याः सा । चातुर्येण कौशलेन । एतस्य रूपस्य
मत्प्रतिकृतेर्निर्माणेण रचनेन । समर्थं योग्यम् । मद्दर्शनमेव तस्या विकारकारणमा-
कौन-सी आश्चर्यकारिणी वस्तु देखी ?' यह श्रवण करके मेरे मनमें अति विस्तीर्ण आशा
बँधी कि यह बाला उन्हीं महिलाओंमें से एक है जिन्हें मैंने उस राजकुमारीके राज-
प्रासादमें (स्वप्नमें) देखा था। इस चित्रपटमें भी उसी राजकुमारीकी प्रतिकृति मेरे
साथ स्वच्छ बिछौनेके ऊपर पड़ी हुई उस विस्तीर्ण पलंगपर दिखायी गयी है। जो शरत्-
कालिक स्वच्छ मेघके समान सफेद और कोमल पलंग उस विशाल राजभवनके विस्तीर्ण
छतपर पड़ा हुआ दीख रहा है जिसपर प्रगाढ़ निद्रामें राजकुमारी सोयी हुई है ।
(१८) अत एव यह स्पष्ट प्रतीत हो रहा है कि वह राजकुमारी भी कामदेवके
द्वारा कामपीडित अवस्थाको प्राप्त हो गयी है। उसकी असह्य कामपीड़ाको जानकर
सहचरियोंने अतिशय आग्रहपूर्वक चतुरतासे उस राजकुमारीसे सब वृत्तान्त ज्ञात किया
है और उसी कुमारीके कथनानुसार उसकी सखियोंने अपने कौशलसे यह चित्रपट
तैयार किया है जिससे उसका मन बहले । इसी हेतुसे वे सखियाँ उस पुरुषके भी

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
पञ्चमोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ३०६

दनया पृष्टो भिन्द्यामस्याः संशयं यथानुभवकथनेन' इति जातनिश्चयोऽ-
ब्रवम्—'भद्रे, देहि चित्रपटम्' इति । सा त्वर्पितवती मद्धस्ते । पुनस्तमा-
दाय तामपि व्याजसुप्तामुल्लसन्मदनरागविह्वलां वल्लभामेकत्रैवाभिलिख्य
'काचिदेवम्भूता युर्वातीदृशस्य पुंसः पार्श्वशायिन्यरण्यानीप्रसुप्तेन मयो-
पलब्धा । किलैष स्वप्नः' इत्यालपं च ।
(१९) हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तमकथयम् ।
असौ च सख्या मन्निमित्तान्यवस्थान्तराण्ववर्णयत् । तदाकर्ण्य च यदि
तत्र सख्या मदनुग्रहोन्मुखं मानसम् । 'गमय कानिचिदहानि । कमपि
कन्यापुरे निराशङ्कनिवासकरणमुपायमारचय्यागमिष्यामि' इति कथञ्चि-

सीदिति भावः । रूपसंवादात्-आकारसादृश्यात् । संशयात् सन्देहमाश्रित्य ।
अनया युवत्या । भिन्द्यां निरस्येयम् । यथानुभवकथनेन-यथादृष्टस्य प्रकाशनेन ।
तं चित्रपटम् आदाय गृहीत्वाऽहमिति शेषः । तां राजकन्याम् । व्याजसुप्तां
कपटनिद्रिताम् । उल्लसदिति-उल्लसता वृद्धि गच्छता मदनरागेण वि-
ह्वलां व्याकुलाम् । वल्लभां प्रियाम् । एकत्र चित्रपटस्यैकस्मिन् स्थाने । अभि-
लिख्य चित्रित्वा । एवंभूता एतादृशी । ईदृशस्य चित्रितानुरूपस्य । अरण्यानी-
प्रसुप्तेन महाटव्यां निद्रितेन । उपलब्धा दृष्टा ज्ञाता वा । किलैष स्वप्नः-परं तु
एष स्वप्न एव भवितुमर्हतीत्यर्थः ।
(१९) तया युवत्या । विस्तरतः विस्तारेण कथयितुम् । असौ युवतिः ।
सख्याः राजकन्यायाः । मन्निमित्तानि-मद्दर्शनजनितानि । अवर्णयत् अकथयत् ।
मदनुग्रहोन्मुखं मयि अनुग्रहं कर्तुमुत्कण्ठितम् । गमय यापय । कानिचित् क्रिय-
न्ति । अहानि दिनानि । निराशङ्केति-निराशङ्कं निर्भयं निवासस्यावस्थानस्य

अन्वेषणमें व्यग्र पड़ी हुई हैं और यह चित्रपट वही हैं। मेरी आकृति मिलाकर अपने
सन्देहको दूर करना चाहती है। अतः इसकी भ्रान्ति हटा देनी चाहिए। ऐसा निश्चय
करके मैंने कहा—'हे सौम्ये ! मुझे यह चित्रपट दीजिये तो ।' उसने मेरे हाथमें वह
चित्रपट दे दिया। मैंने उस चित्रपटको लेकर उसके एकदेशमें, कपटनिद्रित और कामवाण
से व्याकुल राजकुमारीकी ठीक-ठीक प्रतिकृति लिख दी और कहा 'ऐसी आकृतिवाली
महिलाको ऐसी आकृतिवाले पुरुषके साथ सोते हुए अरण्यमें स्वप्नावस्थामें मैंने देखा था।
(१९) मेरे इस कथन पर उस चित्रपटधारिणी बालाने हर्षसे मुझसे संपूर्ण वृत्त
पूछा तो मैंने उससे सारा हाल कह सुनाया। उसने भी मेरे कारण राजकुमारीको
कामकी पीड़ासे जो क्लेश हो रहा था, उसका वर्णन कर दिया। उसको कामव्यथाको सुनकर

Nepal Sanskrit University, Balmeeki Campus, Kathmandu