सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

७८ दशकुमारचरितम् । [ पूर्वपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

७८ दशकुमारचरितम् । [ पूर्वपीठिकायां
( २४ ) ततो रागान्धतया सुमुखीकुचग्रहणे मतिं व्यधत्त । रोषारुणि-
तोऽहमेनं पर्यङ्कतलान्निःशङ्को निपात्य मुष्टिज्ञानुपादघातैःप्राहरम् । नियुद्ध-
रभसविकलमलंकारं पूर्ववन्मेलयित्वा भयकम्पितां नताङ्गीमुपलालयन्म-
न्दिराङ्गणमुपेतः साध्वसकम्पित इवोच्चैरकूजमहम—'हा, बालचन्द्रिका-
धिष्ठितेन घोराकारेण यक्षेण दारुवर्मा निहन्यते । सहसा समागच्छत ।
पश्यतेमम्' इति ।
( २५) तदाकर्ण्य मिलिता जनाः समुद्यद्वाष्पा हाहानिनादेन दिशो
बधिरयन्तः 'बालचन्द्रिकामधिष्ठितं यक्षं बलवन्तं शृण्वन्नपि दारुवर्मा


( २४ ) तत इति । रागेण कामजनितविषयाभिलाषेण अन्धतया मत्ततया ।
हेतौ तृतीया । सुमुख्याः सुवदनायाः बालचन्द्रिकायाः कुचयोः स्तनयोः ग्रहणे पीडने ।
मतिं बुद्धिम अभिलाषमिति यावत् । व्यधत्त अकरोत् । रोषेण क्रोधेन अरुणितः
रक्तवर्णः । अहं वक्ता पुष्पोद्भव इत्यर्थः । एनं दारुवर्माणम् । पर्यङ्कतलात् खट्वायाः ।
मुष्टेः जानुनोः पादयोश्च घातैः प्रहारैः । नियुद्धेति-नियुद्धस्य बाहुयुद्धस्य रभसेन
वेगेन विकलं विपर्यस्तम् । अलङ्कारं भूषणम् । मया घृतमिति शेषः । पूर्ववत् प्रा-
ग्वि । मेलयित्वा यथास्थानं निवेश्य भयकम्पितां भयेन कम्पवतीम् । नताङ्गीं
बालचन्द्रिकाम् । उपलालयन् आश्वासयन् सान्त्वयन् वा । मन्दिरस्य दारुवर्मगृहस्य
अङ्गणं चत्वरम् । उपेत उपगतः प्राप्त इत्यर्थः । साध्वसेन भयेन कम्पित इव न तु
सत्यमेव कम्पित इति भावः । उच्चैरकूजम्—उच्चैः स्वरेण आक्रन्दम् । आक्रन्दनस्य
प्रकार माह—हेत्यादि—हा इति खेदसूचकमव्ययम् । बालचन्द्रिकाम् अधिष्ठितः
आक्रम्य स्थितः तेन । घोरो भयङ्करः आकारः स्वरूपं यस्यासौ तेन सहसा सत्वरम् ।
( २५ ) मिलिताः तत्र सम्मिलता उपस्थिता इति यावत् । समुद्यद् उद्गच्छद्
बाष्पं नेत्रजलं येषां ते । हाहानिनादेन हाहेति शब्देन । दिशः काष्ठाः । द्वितीयाबहु-


(२४) फिर कामपीड़ासे मतवाला वह अन्ध होकर उस सुमुखिके स्तनोंको ग्रहण करनेको
उद्यत हुआ । उसकी इस हरकतपर मुझे क्रोध आ गया । निश्शंक होकर मैने लाल-लाल आंखें
करके उ ठाकर पलंगके नीचे पटक दिया और घूसों-लातोंके प्रहारोंसे मार डाला । लड़ाईमें
मेरे अलंकार अव्यवस्थित हो गये थे उन्हें व्यवस्थित करके भयसे काँपनेवाली उस सखीको
प्रीतिसे सान्त्वना देकर मन्दिरके आंगनमें आ पहुँचा । तब भयसे घबरायी हुई आवाजमें
मैं चिल्लाने लगा । 'हा, हा, गजब हो गया । बालचन्द्रिकाके सिरपर रहनेवाला भयंकर प्रेत
दारुवर्माको मारे डालता है । दौड़ो लोगो, दौड़ो, जल्दी आओ, इस प्रेतको मारो ।
( २५ ) मेरी इस चिल्लाहटको सुनकर आँखोंमें आँसुओंको भरे हुए हाहाकार ध्वनिसे
दिशाओंको बहिरे करते हुए लोग परस्पर कहने लगे 'इस दारुवर्माके लिए प्रलाप वृथा है। यद्यपि

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७६
मदान्धस्तामेवायाचत । तदसौ स्वकीयेन कर्मणा निहतः । किं तस्य
विलापेन' इति मिथो लपन्तः प्राविशन् । कोलाहले तस्मिंश्चटुललोचनया
सह नैपुण्येन सहसा निर्गतो निजावासमगाम् ।
(२६) ततो गतेषु कतिपयदिनेषु पौरजनसमक्षं सिद्धादेशप्रकारेण
विवाह्य तामिन्दुमुखीं पूर्वसंकल्पितान्सुरतविशेषान्यथेष्टमन्वभूवम् । बन्धु-
पालशकुननिर्दिष्टे दिवसेऽस्मिन्निर्गत्य पुराद्वहिर्वर्तमानो नेत्रोत्सवकारि
भवदवलोकनसुखमप्यनुभवामि' इति ।
(२७) एवं मित्रवृत्तान्तं निशम्याम्लानमानसो राजवाहनः स्वस्य च
वचनस्य रूपम् बधिरयन्तः इत्यस्य कर्म। बधिरयन्तः बधिरा इव कुर्वन्तः-अन्यशब्द-
ग्रहणेऽसमर्थाः कुर्वन्त इति यावत्-उच्चैराक्रोशन्त इति भावः । बधिरयन्त इति ना-
मधातो रूपम् । शृण्वन्नपि जानन्नपि । मदान्धः मदगर्वितः । तामेव बालचन्द्रिका-
मेव । स्वकीयेन कर्मणा स्वदोषेण । मिथः परस्परम् । लपन्तः कथयन्तः । कोलाहले
कलकले सञ्जाते इति शेषः । चतुले चपले लोचने यस्यास्तया । बालचन्द्रिकये-
त्यर्थः । नैपुण्येन दक्षतया । सहसा सत्वरम् ।
(२६) पौरजनानां नागरिकाणां समक्षं सम्मुखे । सिद्धस्य सिद्धपुरुषस्यादेशः
कथनं तस्य प्रकारस्तेन । यथा सिद्धेनादिष्टं तथैवेत्यर्थः । पूर्वसंकल्पितान् प्रागेव मन-
स ईप्सितान् । सुरतविशेषान् क्रीडाविशेषान् । यथेष्टं यथाभिलाषम् । अन्वभूवम्-
अनुभूतवान् अहमिति शेषः । बन्धुपालस्य तदाख्यमित्रस्य शकुनेन शुभसूचकेन नि-
र्दिष्टे कथिते । पुरात् नगरात् । बहिः बहिःप्रदेशे । नेत्रोत्सवकारि नयनानन्दजन-
कम् । भवतः तव राजवाहनस्येति शेषः । अवलोकनस्य दर्शनस्य सुखमानन्दम् ।
(२७) अम्लानेति-अम्लानं स्वच्छं मानसं मनो यस्यासौ प्रफुल्लहृदय इत्यर्थः ।
यह मदान्ध पूर्वसे ही जानता था कि बालचन्द्रिकाके सिरपर प्रेत रहता है। फिर भी इसने न
माना और अपने ही कुकृत्यसे यह फल भोगा-अपने ही काले कृत्यसे यह मारा गया ।
अब क्यों खेद करें । ऐसा कहते हुए वे लोग अन्दर प्रविष्ट हुए । उसी कोलाहलवाले समुदा-
यमें मै भी उस चंचल नयनी के साथ चालाकी से बाहर आकर अपने वासस्थानको चला
आया ।
(२६) कुछ दिवसों के व्यतीत होने के पश्चात् उस तपस्वीके बताये हुए तरीकेसे मैने
उस चन्द्रमुखीके साथ विवाह कर लिया । पूर्व संकल्पित मनोभिलाषोंको यथेच्छापूर्वक भोगा-
उसके साथ नाना प्रकारके भोग-विलास किये । फिर बन्धुपालके द्वारा उपदेशित शकुनसे
आज नगरके बाहर आ गया और नयनाभिराम आपके दर्शनकर सुखका अनुभव किया।
(२७) इस प्रकारसे मित्रके वृत्तान्तको श्रवणकर राजवाहनका चित्त प्रमुदित हो गया
तथा उसने अपने और सोमदत्त के चरितोंको भी उससे यथावत् कह दिया । तब सोमदत्तसे