दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
५६ दशकुमारचरितम् । [ पूर्वपीठिकायां
५६ दशकुमारचरितम् । [ पूर्वपीठिकायां
इति निगदितान्कांश्चिन्निदिष्टवन्तो मामपि निगदितचरणयुगलमकार्षुः ।
किंकर्त्तव्यतामूढेन निराशक्लेशानुभवेनावाचि मया—'ननु पुरुषा वीर्यप-
रुषाः, निमित्तेन केन निर्विशथ कारावासदुःखं दुस्तरम् । यूयं वयस्या इति
निर्दिष्टमेतैः, किमिदम्' इति ।
(७) तथाविधं मामवेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्या-
ख्याय चोरवीराः पुनरवोचन्—'महाभाग ! वीरकेतुमन्त्रिणो मानपालस्य
किङ्करा वयम् । तदाज्ञया लाटेश्वरमारणाय रात्रौ सुरुङ्गाद्वारेण तदगारं
प्रविश्य तत्र राजाभावेन विषण्णा बहुधनमाहृत्य महाटवीं प्राविशाम ।
अपरेद्युश्च पदान्वेपिणो राजानुचरा बहवोऽभ्येत्य धृतधनचयानस्मान्परितः
इत्यर्थः । सखायः सुहृदः । निगदितान् संयमितान् शृङ्खलाबद्धान् इति यावत् ।
निर्दिष्टवन्तो दर्शयन्तः । निगदितं बद्धं चरणयुगलं पादद्वयं यस्य तम् । किं कर्तव्यं
यस्य तस्य भावः किंकर्त्तव्यता तस्यां मूढो मन्दस्तेन, अधुना किं कार्यमित्यजानते-
त्यर्थः । निर्नास्ति आशा यस्य तस्य यः क्लेशः खेदस्तस्यानुभवो यस्मिन् तथा-
भूतेन । नन्विति सम्बोधने । वीर्येण पराक्रमेण परुषाः कठोराः । निर्विशथ अनु-
भवथ । दुस्तरमपारम् । वयस्याः सुहृदः । निर्दिष्टं कथितम् । एतै राजभटैः ।
(७) तथाविधं तथाकारं निगदितचरणमित्यर्थः । व्याख्याय मम पुरत उक्त्वा ।
किंकराः सेवकाः । तदाज्ञया वीरकेतोरादेशेन । सुरुङ्गाद्वारेण बिलमार्गेण । तदागारं
तस्य लाटपतेरगारम् , गृहम् । राजाभावेन राज्ञोऽनुपस्थित्या । विषण्णाः दुःखिताः ।
आहृत्यादाय । अपरेद्युः अन्यस्मिन् दिने तत्परदिवस इत्यर्थः । पदान्वेषिणः चरण-
चिह्नमनुसरन्तः । अभ्येत्य अस्मत्समीपमागत्य । धृतो रक्षितो धनानां रत्नानां चयो
उन्होंने मेरे कथनपर कुछ भी ध्यान नहीं दिया और कारागारमें लाकर मुझसे कहा-'देखो
ये सब तुम्हारे मित्र हैं' तथा जो चोर वहाँ पूर्वसे कैद थे उनको दिखाकर मुझे भी-मेरे दोनों
पैरोंको-निगडित कर दिया । किंकर्त्तव्यविमूढ होकर तथा उस कारागारसे मुक्तिका कोई
अन्य उपाय न देखकर मैंने उन बन्दियोंसे कहा— ऐ वीरो ! तुम लोग इतने बलिष्ठ होकर
क्यों इस कारावासके कठिन दुःखोंको झेल रहे हो और इन राजपुरुषोंने तुम लोगोंको
निर्देशित करके मुझे तुम लोगोंका मित्र कहा है, इसका क्या अभिप्राय है ?
(७) मेरे प्रश्नपर तथा मुझे निगडित दशामें देखकर और मेरे द्वारा विप्रके मुखसे सुने
हुए लाटपतिके वृत्तान्तको सुनकर वे चोर बोले—'हे सौम्य ! राजा वीरकेतुके मंत्री मानपालके
हम लोग दास हैं । उन्हीं मंत्रीकी आज्ञासे हम लोग राजाको मारनेके लिए सुरंगके द्वारा
रातमें राजाके आगारमें गये । परन्तु, राजाको न पाकर खिन्न मन होकर वहाँकी अतुल धन
तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५७
परिवृत्य दृढतरं बद्ध्वा निकटमानीय समस्तवस्तुशोधनवेलायामेकस्या-
नर्घ्यरत्नस्याभावेनास्मद्वधाय माणिक्यादानादस्मान्किलाश्शृङ्खलयन्'इति ।
(८) श्रुतरत्नग्नावलोकनस्थानोऽहम् 'इदं तदेव माणिक्यम्' इति
निश्चित्य भूदेवदाननिमित्तां दुरवस्थामात्मनो जन्म नामधेयं युष्मदन्वेष-
णपर्यटनप्रकारं चाभाष्य समयोचितैः संलापैर्मैत्रीमकार्षम् । ततोऽर्धरात्रे
तेषां मम च शृङ्खलाबन्धनं निर्भिद्य तैरनुगम्यमानो निद्रितस्य द्वाःस्थगण-
स्यायुधजालमादाय पुररक्षान्पुरतोऽभिमुखागतान पटुपराक्रमलीलयाभि-
राशियैस्तान् । परितः समन्तात् परिवृत्य संवेष्ट्य । समस्त वस्तूनां सकलपदार्थानां
शोधनवेलायां परीक्षणसमये अन्वेषणकाले इति यावत् । अनर्घ्यरत्नस्य महामूल्यमा-
णिक्यस्य । अभावेन अप्राप्त्या । माणिक्यादानात्-माणिक्यस्य दानं यावत् । तन्मा-
णिक्यं यावन्न प्रत्यर्पयिष्यामस्तावत्कालपर्यन्तम् । अशृङ्खलयन् शृङ्खलितानकुर्वन् ।
(८) श्रुतमधिगतं रत्नस्य माणिक्यस्य तदवलोकनस्य च स्थानं येन सः । इदं-
यन्मया भूसुराय दत्तमित्यर्थः । तदेव-लाटेश्वरगृहात् चौरैरपहृतम् । भूदेवाय ब्राह्म-
णाय दानं निमित्तं कारणं यस्यास्ताम् विप्रार्पणसमुद्भूतामित्यर्थः । दुरवस्थां दुर्द-
शाम् । युष्माकं भवतां राजवाहनादीनामित्यर्थः अन्वेषणाय पर्यटनस्य भूभ्रमणस्य
प्रकारं स्वरूपं प्रणालीमिति शेषः । समयोचितैस्तत्कालोपायैः । संलापैरालापैः ।
तेषां चोरवीराणाम् । निर्भिद्य भङ्क्त्वा । द्वारि तिष्ठन्ति ये ते द्वाःस्था दौवारिकाः
तेषां गणः समूहस्तस्य । आयुधजालं शस्त्रसमूहम् । पुररक्षान् नगररक्षणे नियुक्तान् ।
पुरतः अग्रतः। अभिमुखागतान् अस्मत्सम्मुखमागतान् । पटुः समर्था या पराक्रमलीला
सम्पत्ति लेकर एक महावनमें चले गये । दूसरे दिन पैरों के चिह्न से अन्वेषण करनेवाले राज-
पुरुष उस महावनमें आकर और दृढ़तासे हम लोगोंको बन्दी बनाकर धनके सहित यहांपर
राजाके समीप ले आये । जब चोरी गयी मणियां-वस्तुओं आदिके निरीक्षणके समय एक
रत्न न मिला । वह रत्न अति मूल्यवान् था । इसपर हम लोगोंके वधकी आज्ञा हुई और
बाँधकर कैदमें डाल दिया गया-जबतक वे लोग विचार न लें तबतक कैद रहेंगे फिर प्राण-
दण्ड होगा ।'
(८) विप्रदेवको दान देनेके कारण ऐसी मेरी दुर्दशा हुई। मैं अपने सुहृद्को खोजनेमें
इस तरह वन-उपवन घूम रहा हूँ और इस दुर्गति को प्राप्त हुआ। अस्तु, उन चोरोंसे अपना
नाम, वंश आदिको बतलाकर मित्रता कर ली और आधी रातमें सामयिक वार्तालाप आदि
योग्य बातोंके पश्चात् उन चोरोंकी मैंने तथा अपनी उन चोरों द्वारा बेड़ियां तुड़वा डालीं ।
और सभी लोग एक साथ बाहर आ गये । सोते हुए द्वारपालोंके शस्त्रास्त्रोंको ले लिया। मार्ग
में जाते हुए कुछ नगर-रक्षक राजपुरुष मिले उन्हें अपने पराक्रमसे पराजित करके हम लोग