सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

४ दशकुमारचरितम्। [ पूर्वपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
४ दशकुमारचरितम्। [ पूर्वपीठिकायां
(१) अस्ति समस्तनगरीनिकषायमाणा शश्वदगण्यपण्यविस्तारित-
मणिगणादिवस्तुजातव्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता
पुष्पपुरी नाम नगरी।
(२) तत्र वीरभटपटलोत्तरङ्गतुरङ्गकुञ्जरमकरभीषणसकलर्रिपुगणक-
तकजलनिधिमथन मन्दरायमाणसमुद्दण्डभुजदण्डः, पुरन्दरपुराङ्गणवनवि-
हरणपरायणतरुणगणिकागणजेगीयमानयातिमानया शरदिन्दुकुन्दघनसा-
रनीहारहारमृणालमरालसुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशनीकाशम्-
(१) अस्तीत्यस्य पुष्पपुरी नाम नगरीत्यनेनान्वयः । समस्तानां सकलानां
नगरीणां निकषः कषणोपल इवाचरतीति निकषायमाणा सर्वश्रेष्ठादर्शभूता। (अत्रो-
पमालङ्कारः) शश्वन्निरन्तरम् अगण्यैरसंख्यैः पण्यैः विक्रेयैः विस्तारितैर्विक्रयार्थं
प्रसारितैः मणिगणादिवस्तुजातैस्तत्तद्द्रव्यसमूहैः व्याख्यातं प्रकटितं रत्नाकरस्य
समुद्रस्येव माहात्म्यं महिमा यस्याः सा, मगधदेशस्य कीकटस्य शेखरीभूता शिरो-
भूषणरूपा, पुष्पपुरी कुसुमपुरं नाम नगरी अस्ति वर्त्तते यस्याः साम्प्रतिकं नाम
पाटलिपुत्रमिति ज्ञेयम् ।
(२) तत्र पुष्पपुर्यां, वीराणां शूराणां भटानां योद्धॄणां पटलेन समूहेन उत्तरङ्गः
उद्गतवीचिस्तथा-तुरङ्गा अश्वाः कुञ्जरा गजास्ते मकरा नक्रा इव तैर्भीषणो भयङ्कर-
स्तथा सकलानां रिपुगणानां शत्रुमण्डलानां कटकं सैन्यं जलनिधिः समुद्र इव तस्य
मथने आलोदने मन्दरायमाणः मन्दराचल इवाचरन् मन्थनदण्डस्वरूपः, समुद्दण्डः
समुद्यतो भुजो बाहुर्दण्ड इव यस्य सः । पुरन्दरपुरस्य अमरावत्या अङ्गणवने चत्व-
रोद्याने नन्दनवने इति यावत्, विहरणपरायणेन भ्रमणशीलेन तरुणगणिकागणेना-
प्सरःसमूहेन जेगीयमानया मुहुर्गीतया, अति सातिशयं मानं परिमाणं यस्या-
स्तया अपरिमितया, शरदिन्दुः शरच्चन्द्रश्च कुन्दं माघ्यकुसुमञ्च घनसारः कर्पूर-
श्च नीहारो हिमञ्च हारो मौक्तिकस्रक् च मृणालं बिसञ्च मरालो हंसश्च सुरगज
लिखूँगा। परन्तु यथाशक्ति अर्थालंकारोंको दिखलानेकी चेष्टा करूँगा।
[ अब मगधदेशाधिपति राजहंसके आधारसे दशकुमारचरित नामक संस्कृत उपन्यासके
निर्माता महाकवि दण्डी प्रथमतः पुष्पपुरी नामकी मगधेश्वरकी राजधानीका वर्णन करते हैं।]
(१) भूमण्डलकी समस्त नगरियोंको जाँचनेकी कसौटी तथा असंख्य दूकानोंको
फैलाये हुए रत्नादिके द्वारा समुद्रकी मणियोंके महत्त्वको अर्थात् रत्नाकर शब्दको प्रकाशित
करानेवाली मगधदेशकी शिरोभूषण पुष्पपुरी नामकी नगरी है।
(२) उसमें एकबार राजहंस नामक नृपति आविर्भूत हुए। उनका विशाल बाहुदण्ड
समस्त शत्रुओंके वीर-भटोंके समूह, चञ्चल घोड़े तथा बड़े-बड़े गजरूपी मकरसे भयंकर
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५

र्त्या रचितदिगन्तरालपूर्त्या कीर्त्याऽभितः सुरभितः, स्वर्लोकशिखरोरु-
चिररत्न रत्नाकर वेलामेखला यितधरणीरमणीसौभाग्यभोगभाग्यवान्, अनव-
रतयागदक्षिणारक्षितशिष्टविशिष्टविद्यासम्भारभासुरभूसुरनिकरः, विर-
चितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसः, राजहंसो नाम
घनदर्पकन्दर्पसौन्दर्यसोदर्यहृद्यनिरवद्यरूपो भूपो बभूव ।

ऐरावतश्च नीरं जलञ्च क्षीरं दुग्धञ्च गिरिशस्य महादेवस्याट्टहासो महाहास्यञ्च काशः
काशपुष्पञ्च तैर्निकाशा तुल्या मूर्त्तिः स्वरूपं यस्यास्तया, रचिता कृता दिगन्तरा-
लानां दिगवकाशानां पूर्त्तिः पूरणं यया तया, समस्तदिग्व्यापिन्येत्यर्थः, कीर्त्या
यशसा अभितः समन्तात् सुरभितो मनोज्ञः, स्वः स्वर्गो लोक आश्रयो येषां ते स्व-
र्लोका देवास्तेषां शिखरेषु शिरःसु उरूणि महान्ति रुचिराणि मनोहराणि रत्नानि मणयो
यस्य तथाभूतस्य रत्नाकरस्य सागरस्य वेलया तटभूम्या मेखलायिता मेखला काञ्ची
तयेवाचरिता, वेष्टिता धरणी पृथिव्येव रमणी कामिनी तस्याः सौभाग्यस्य सौन्दर्य-
स्यैश्वर्यस्य च भोगे उपभोगे भाग्यवान् भाग्यशाली, ससागराया धराया अधीश्वर
इत्यर्थः । अनवरतानां निरन्तरमनुष्ठितानां यागानां यज्ञानां दक्षिणाभिर्दत्तद्रव्यै
रक्षितः पालितः शिष्टानां सदाचारपरायणानां विशिष्टेन अन्यविलक्षणेन विद्यासम्भा-
रेण शास्त्रज्ञानातिरेकेण भासुराणां प्रदीप्तानां भूसुराणां ब्राह्मणानां निकरः समूहो
येन सः । विरचितः उत्पादितः । अरातीनां शत्रूणां सन्तापो दुखं येन तथाविधेन
प्रतापेन कोषदाण्डजतेजसा सततमनारतं तुलितः समीकृतो वियन्मध्यहंसो मध्याह्न-
सूर्यो येन सः । प्रतापेन सूर्यसदृश इत्यर्थः । राजहंसो नाम राजहंसाभिधानो, घनः
सान्द्रो दर्पोऽहङ्कारो यस्य तस्य महाभिमानवतः कन्दर्पस्य कामस्य यत्सौन्दर्यं
रूपं तस्य सोदर्यं सदृशं हृद्यं मनोरमं निरवद्यमनिन्दनीय निर्दोषमिति यावत् रूपं
सौन्दर्यं यस्य स तथाभूतो भूपो राजा बभूव आसीत् ।

सेनासमुद्रको मन्थन करनेके लिए मन्दराचल पर्वतके समान थे। अमरावतीके आँगनमें विहार
करनेवाली अप्सराओंसे प्रशंसित एवं अगणित शरत्कालीन चन्द्र तथा कुन्द फूल, कपूर एवं
तुषार पुष्पकी माला, कमलका मूल-दण्ड, हंस, ऐरावत (इन्द्रगज), जल, दुग्ध, शङ्करजी का
अट्टहास, कैलासपर्वत, काश नामक घास, आदिके सदृश स्वच्छ मूर्त्तिवाले दशों दिशाओंके
अन्तरालको पूर्ण करनेवाली, कीर्तिसे अति मनोहर, सुमेरु पर्वतके शिखरके विशाल एवं
सुन्दर रत्नोंसे संयुक्त रत्नाकरकी वेलारूपी करधनी (मेखला) से परिवेष्टित पृथ्वीरूपी अँगना
के सौभाग्यका उपभोग करनेवाले, निरन्तर किये गये यज्ञोंकी दक्षिणाओंके द्वारा सदाचारी,
उद्भट एवं विद्वान् ब्राह्मणोंके रक्षक रिपुओंके सन्तापकारी, प्रतापमें मध्याह्नकालिक सूर्यके
समान, स्वरूपाभिमानी कामदेवके निज रूपसे तिरस्कृतकर्त्ता राजहंस नामक राजा हुए ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu