दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
४१८ दशकुमारचरितम्। [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
४१८ दशकुमारचरितम्। [ उत्तरपीठिकायां
शरीरजीवितान्यपि मोचयन्ति । यदि कश्चित्पटुजातीयो नास्यै मृगतृ-
ष्णिकायै हस्तगतं त्यक्तुमिच्छेत् तमन्ये परिवार्याहुः - एकामपि काकिणीं
कार्षापणलक्षमापादयेम, शस्त्रादृते सर्वशत्रून्घातयेम, एकशरीरिणमपि
मर्त्यं चक्रवर्तिनं विदधीमहि यद्यस्मद्दिष्टेन मार्गेणाचर्यते' इति ।
( ८ ) स पुनरिमान्प्रत्याह - 'कोऽसौ मार्गः' इति । पुनरिमे ब्रुवते-
'ननु चतस्रो राजविद्यास्त्रयी वार्तान्वीक्षिकी दण्डनीतिरिति । तासु तिस्रस्त्र-
यीवार्तान्वीक्षिक्यो महत्यो मन्दफलाश्च तास्तावदास्ताम् । अधीष्व ताव-
दण्डनीतिम् । इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे षड्भिः श्लोकसहस्रैः
संक्षिप्ता । सैवेयमधीत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमा' इति ।
दीनि त्याजयन्तीति भावः । पटुजातीयः चतुरसदृशः । प्रकारवचने जातीयर्
प्रत्ययः । अस्यै अनन्तरोक्तायै । मृगतृष्णिकायै मरीचिकायै । निमित्ते चतुर्थी ।
हस्तगतं धनमिति शेषः । तं पटुजातीयम् । अन्ये अपरे राजनीतिज्ञा इति भावः ।
काकिणी वराटिकानां विंशतिः । पणचतुर्थोऽश इत्यर्थः । कार्षापणः षोडश पणाः ।
आपादयेम उत्पाद्येम । अर्थशास्त्रबलात् एकयाऽपि काकिण्या कार्षापणलक्षमुर्जं-
यितुं प्रभवति नर इति भावः । शस्त्रादृते शस्त्रं विना । कूटनीत्या विना युद्धं शत्रु-
नाशो भवतीत्यर्थः । एकशरीरिणम् एकाकिनं पुरुषम् । मर्त्यानां मनुष्याणां चक्रे
मण्डले समूहे वा वर्त्तते प्राधान्येन चरतीति तथा । विदधीमहि कर्तुं शक्नुयाम ।
अस्मदुद्दिष्टेन अस्माभिः प्रदर्शिताने । आचर्यते अनुष्ठीयते त्वयेति शेषः ।
( ८ ) त्रयी वेदः । वार्ता अर्थशास्त्रम् । आन्वीक्षिकी न्यायशास्त्रम् । मन्दफलाः
निष्फलप्रायाः । आसतां तिष्ठन्तु । आस् उपवेशने इत्यस्य धातोलोंटि रूपम् ।
इयं दण्डनीतिः । आचार्यविष्णुगुप्तेन चाणक्येन । मौर्यार्थे चन्द्रगुप्तकृते । अनुष्ठीय-
माना आचर्यमाणा । यथोक्तकर्मक्षमा पूर्वप्रतिपादितकार्यकरणसमर्था ।
हूँ। बिना शस्त्र उठाये ही सब शत्रुगणोंको जीत सकता हूँ । केवल एक शरीर मात्रधारी
निर्धनको भी चक्रवर्ती सम्राट् बना सकता हूँ। परन्तु ये सब बातें तभी होंगी जब मेरे
बताये गये मार्गका वह व्यक्ति अनुसरण करे ।
( ८ ) यदि उस धूर्तकी इन लम्बी-चौड़ी बातोंपर विश्वास करके कोई पूछता है कि
'अन्ततोगत्वा आपका वह कौनसा मार्ग है' तो वे कहते हैं-चार प्रकारकी राजविद्याएँ होती
हैं । त्रयी ( ऋग् यजुः, साम ), वार्ता ( कृष्यादि कर्म ), आन्वीक्षिकी ( न्यायशास्त्र )
और दण्डनीति (अर्थशास्त्र ) । इनमें भी तीन विद्याएँ तो अति परिश्रम से प्राप्त
होती हैं परन्तु उनका फल अतिसाधारण है । अतः उनके जानने की आवश्यकता नहीं
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१६
(६) स 'तथा' इत्यधीते । शृणोति च । तत्रैव जरां गच्छति । तत्तु
किल शास्त्रं शास्त्रान्तरानुबन्धि । सर्वमेव वाङ्मयमविदित्वा न तत्त्वतोऽ-
धिगंस्यते । भवतु, कालेन बहुनाल्पेन वा तदर्थाधिगतिः । अधिगतशास्त्रेण
चादावेव पुत्रदारमपि न विश्वास्यम् । आत्मकुक्षेरपि कृते तण्डुलैरियद्भि-
रियानोदनः संपद्यते । इयत ओदनस्य पाकायैतावदिन्धनं पर्याप्तमिति
मानोन्मानपूर्वकं देयम् । उत्थितेन च राज्ञा क्षालिताक्षालिते मुखे
(९) तथा तथैवास्तु ! तत्रैव दण्डनीत्यध्ययने । जरां गच्छति-वृद्धत्वं
प्राप्नोति । शास्त्रान्तरानुबन्धि-अन्यशास्त्रापेक्षि । वाङ्मयं शास्त्रम् । तत्त्वतो याथा-
तथ्येन । अधिगंस्यते-सम्यग् ज्ञानं भविष्यति । तदर्थाधिगतिः-तदर्थबोधः । अधि-
गतं सम्यग् ज्ञातं शास्त्रं येन तेन; जनेनेति शेषः । आदावेव प्रथममेव । विश्वास्यं
विश्वसनीयम् । आत्मकुक्षेः स्वोदरस्य । कृते निमित्तम् । इयद्भिः इयत्परिमाणैः ।
इयान् इयत्परिमाणः । इयतः इयत्परिमाणस्य । एतावत् एतत्परिमाणम् । इन्धनं
काष्ठम् । मानं प्रस्थादिकृतम् , उन्मानं तुलादण्डकृतम् , तत्पूर्वकम् , प्रस्थेन तुलया
वा परिमाप्येति भावः । उत्थितेन शय्याया इति शेषः । क्षालिताक्षालिते-कार्य-
त्वरया किञ्चित् क्षालिते किञ्चिदक्षालिते मुखे-इत्यस्य विशेषणम् । अभ्यन्तरीकृत्य
है । तुम उनको छोड़कर दण्डनीतिका ही अध्ययन करो । इस विद्याको आचार्य विष्णु-
गुप्त तथा चाणक्यने अपने-अपने शिष्योंको अर्थात् यथाक्रम राजपुत्रोंको और चन्द्रगुप्त
मौर्यको समझानेके लिये केवल छः सहस्र श्लोकोंमें ही रच दिया है । बस, यदि इसे तुम
जान लो और इसके अनुसार चलो तो जो चाहोगे सो प्राप्त कर लोगे—सब सिद्धियाँ
इसीमें निहित हैं ।
(९) उस धूर्तके इस उपदेशपर जब शिष्य कह देता है कि 'मैं ऐसा ही यथावत्
करूँगा' तथा वह दण्डनीति पढ़ने एवं सुनने लगता है तो केवल उसी दण्डनीतिको जानते-
जानते वह वृद्ध हो जाता है और फिर भी उसे कुछ लाभ नहीं होता । जब वह शिष्य
दण्डनीतिके मन्थनमें घबड़ाता है तो धूर्त उसे समझाता है और कहता है—देखो, एक
शास्त्रका सम्बन्ध दूसरे शास्त्रसे होता है अतः जब तक तुम सकल शास्त्र न पढ़ोगे तब तक
कुछ लाभ न होगा—कुछ समझमें न आवेगा ।
मान लो, कुछ समय माथापच्ची करके दण्डनीति कुछ समझमें आ भी गयी तो
क्या ! उस दण्डनीतिका प्रथम उपदेश है कि अपनी पत्नी और पुत्र पर भी विश्वास न
करो । एक आदमीका पेट भरनेके लिए इतने चावलोंसे इतना भात तैयार होता है ।
इतना चावल पकानेमें इतनी लकड़ी लगती है अतः उतना चावल और लकड़ी नाप-
जोखकर रसोईदारको देना चाहिये । सूर्योदयसे पहले उठकर राजाको आय-व्यय समझना
Nepal Sanskrit University, Balmeeki Campus, Kathmandu