सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

४०२ दशकुमारचरितम् । [ उत्तरपीठिकायां

४०२ दशकुमारचरितम् । [ उत्तरपीठिकायां
संशयः । तच्चेदिच्छस्यनेकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषि-
गणैराकलप्य जालिकशतं चानाय्य, अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः
क्रियते, रक्षा च तीरात्त्रिंशद्दण्डान्तराले सैनिकजनेन सादरं रचनीया ।
कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्ति' इति ।
(१७) तत्त्वस्य हृदयहारि जातम्, तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्श-
नासहैरिच्छां च राज्ञः कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ
अनेकशास्त्राणां ज्ञानेनाभ्यासेन धीरा अविचलिता धिषणा बुद्धियेषां तैस्तादृशैः
अधिकृतैः तव सचिवादि कार्याधिकारिभिः । इतरैरन्यैश्च हितैषिगणैः तव हिता-
कांक्षिभिः । आकलप्य-तैः सह विचार्य । जालिकशतं-जालोपजीविधीवरवर्गम् ।
आनाय्य आकार्य संगृह्येति यावत् । अन्तरङ्गेति-अन्तरङ्गाणामात्मीयानां
नराणां शतम् । यथेष्टेति-यथेष्टं यथाकामं दृष्टं परीक्षितमन्तरालं मध्यभागो यस्य
तथाभूतम् । सरः जलाशयः । रक्षा चेति-तीरात् तटप्रदेशात् त्रिंशद्दण्डान्तराले-
दण्डश्चतुर्हस्तप्रमाणो लगुडविशेषः त्रिंशत्परिमित्तानां दण्डाना मन्तराले व्यवधाने
तीरात् विशत्यधिकशत हस्तपरिमित दूरवर्त्तिनि स्थाने इत्यर्थः सादरं सावधानं
सैनिकजनेन रक्षा रक्षास्थानं रचनीया करणीया । कथमिति चेत्-तदाह यद्
छिद्रेण रन्ध्रेणारयः शत्रवः चिकीर्षन्ति कर्तुमिच्छन्ति तत् को ज्ञातुं प्रभवेत् अतः
सर्वतो रक्षा विधातव्येति ।
(१७) तत् महद्वचनम् । तु-किन्तु । अस्य जयसिंहस्य । हृदयहारि मनो
मतम् । तदधिकृतैः राज्याधिकारिवर्गैः । तत्र कृत्ये तस्मिन् जलप्रवेशेन रूपान्तर-
प्राप्तिरूपकर्मणि । रन्ध्रदर्शनासहैः दोषावलोकनाक्षमैः । इच्छां कन्याप्राप्त्य-
भिलाषम् । कन्यकायामतिरागेण अत्यन्तप्रेम्णा जनितमुत्पादिताम् तथा नितान्त-
निश्चलाम् । अतिदृढाम् । विशेषणद्वयं इच्छायाः । निश्चित्य-अवधार्य । अर्थः
कर लीजिये । फिर जालोपजीवी ( धीवर ) वर्गोंको एकत्र करके तथा अपने आत्मीय
जनोंसे तालाबके अन्तरालको यथारुचि परीक्षित कराकर, तालाबके तीरसे १२० हाथकी
दूरीपर सावधानीपूर्वक अपने सैनिकोंसे रक्षा कराकर तालाबमें प्रवेश करियेगा । क्योंकि-
यह कौन जान सकता है कि, शत्रु कहाँ पर है । वे शत्रुगण सुराखमें से प्रवेश कर लेते हैं ।
(१७) यह राय उस राजाके मनको हरणकर्त्री हुई । उस राजाके अधीनस्थ
सेवकगणोंद्वारा उस जलप्रवेशका निषेध नहीं किया गया । क्योंकि वे लोग जान
गये थे कि राजाका उस राजपुत्रीपर उत्पन्न प्रेम अति दृढ है । ऐसा निश्चय करके

सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४०३
एष न निषिद्धः । तथास्थितश्च तदासादनदृढतराशयश्च स आख्यात—
राजन् , अत्र ते जनान्ते चिरं स्थितम् , न चैकत्र चिरस्थानं नः शस्तम् ।
कृतकृत्यश्चेह न द्रष्टासि । यस्य ते राष्ट्रे ग्रासाद्यासादितं यस्य ते किंचिद-
नाचर्य कार्यं गतिरार्यगर्ह्या' इति । तत्रैतच्चिरस्थानस्य कारणम् । तच्चाद्य
सिद्धम् । गच्छ गृहान् । यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः श-
क्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथित-
विषयः । न निषिद्धः न निवारितः । तथास्थितः तथा कर्तुं प्रतिज्ञातः । तदासाद-
नेति-तस्याः'कन्याया आसादने प्राप्तौ दृढतरः द्रढीयान् आशयोऽभिप्रायो यस्या-
सौ । सः जयसिंहः । आख्यात कथितोऽभवत् मयेति शेषः । ते तव । जनान्ते
जनपदे । चिरं दीर्घकालं यावत् । स्थितं-वासः कृतो मयेति शेषः । एकत्र एक-
स्मिन् स्थाने । चिरस्थानं दीर्घकालमवस्थानम् । नः अस्माकं संन्यासिनामि-
त्यर्थः । शस्तं प्रशस्तं नेति सम्बध्यते । कृतकृत्यः; सफलप्रयोजनत्वं इहास्मिन्
स्थाने न द्रष्टासि नावलोकयिष्यसि मामिति शेषः । नाहमत्र स्थास्यामीति भावः ।
राष्ट्रे राज्ये । ग्रासादि भोजनादि । आसादितं-मया लब्धं तस्य तादृशस्य तव कार्यं
प्रयोजनं अनाचर्य असम्पाद्य गतिरन्यत्रगमनम् आर्यगर्ह्या सज्जननिन्दनीया
अनुचितेत्यर्थः । तत्रस्थाने चिरस्थानस्य एतदेव कारणं नान्यदित्यर्थः । तच्च
कार्यम् । सिद्धं सम्पन्नम् । यथार्हं जलेन राजस्नानोचितसलिलेन हृद्यगन्धेन मनो-
हरगन्धशालिना इदं जलेनेत्यस्य विशेषणम् । सितेति-सितौ शुभ्रौ स्रक् माल्यं
अङ्गरागश्च यस्य सः । शुभ्रमाल्यधरः शुभ्रानुलेपनश्चेत्यर्थः शक्तिसदृशेन साम-
र्थ्यानुसारेण । दानेन दानं कृत्वा । आराधितेति-आराधिताः सेविताः धरणि-
उन लोगोने उस कार्यका निषेध न किया और वे राजसेवक उस तालाबके दोष देखनेमें
असमर्थ थे । जब मैने देखा कि वह राजा तालाबमें प्रवेश करनेमें कटिवद्ध है और उस
राजपुत्रीकी प्राप्तिके लिये सन्नद्ध है, तथा मैंने कहा-'हे राजन् ! आपके इस नगरमें
मैं बहुत समयतक बसा । हम संन्यासियोंका एक ही स्थानमें दीर्घकालतक बास करना
अनुचित है । कृतकृत्य होनेपर आप मुझे यहां नहीं देखेंगे । आपके इस राष्ट्रमें मैंने
भोजन आदि प्राप्त किया था, यदि आपके कार्यको असम्पादित किये बिना मैं, यहांसे
चला जाता तो, अनुचित कार्यका कर्त्ता होता । अतः आपके कार्यके सम्पादनार्थ मैं
इस राष्ट्रमें दीर्घकालतक रहा । आपका वह कार्य आज सम्पादित हो गया । अब आप घर
जायँ । और राजोचित सुगन्धित जलसे स्नान करें । सफेद माला तथा चन्दन आदि
यथाक्रम धारण करें । अपन सामर्थ्यके अनुसार दान करें । ब्राह्मणोंकी पूजा करें। पुनः
तिलके तेलसे भींगे हुए कपड़ेकी बत्तियोंको बांसोंके दण्डोंके अग्रभागमें लपेटकर

वर्तिकाग्निशिखासहस्रप्रस्तनैशान्धकारराशिरगत्यार्थसिद्धये यतेथाः' इति ।
( १८ ) स किल कृतज्ञतां दर्शयन्—'असिद्धिरैषा सिद्धिः, यदसन्नि-
धिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति ।
नच निषेधनीया गरीयसां गिरः' इति स्नानाय गृहानयासीत् । अहं च नि-
र्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः ।
तलस्य भूतलस्य तैतिलगणाः देवाः ब्राह्मणा इत्यर्थः येनासौ । कृतब्राह्मणपूजः
इत्यर्थः । तिलस्नेहेति—तिलस्नेहेन तिलतैलेन सिक्तानां आर्दीकृतानां यष्ट्यग्रेषु
दण्डाग्रेषु प्रथितानां प्रोतानां वर्तिकानां दीपद्शानां अग्निशिखासहस्रेण अग्निज्वाला
समूहेन ग्रस्तो ध्वस्तः नैशान्धकारराशिः रजनीतिमिरसङ्घो येनासौ । आगत्य-
सरस्तटमिति शेषः । अर्थसिद्धये स्वप्रयोजनसम्पादनाया यतेथाः प्रयत्नं कुर्याः ।
( १८ ) स जयसिंहः । कृतज्ञतां स्वकृतज्ञभावं दर्शयन् प्रकाशयन् गृहानया-
सीदित्यग्रिमेणान्वयः । असिद्धिरित्यादि—एषा सिद्धिः मदभीष्टलाभः असिद्धिरलाभ
एव, यत्-यतः आर्याणां भवादृशां महापुरुषाणामिह अस्मिन् स्थाने असन्निधि-
रसन्निधानम् अनवस्थानमिति यावत् । मत्प्रयोजनसिद्धौ सत्यामपि भवतोऽन्यत्र
गमनान्न सा सिद्धिर्मे रोचते इति भावः । इयमीदृशी निःसङ्गता—भवत्सङ्गरहि-
त्यम् । कष्टा—दुःखदायिनी । या निःसङ्गता । निरागसं निरपराधं दासजनं सेवकं
मामिति शेषः त्याजयति दूरीकरोति । गरीयसां गुरूणां गिरः वचनानि । गुरूणां
वाक्यानि न लङ्घनीयानि अतो नाहं भवन्तं प्रतिरुणध्मि इति भावः । इति-
एवमुक्त्वा । स्नानाय-स्नातुम् । अहं-मन्त्रगुप्तः । निशीथे अर्धरात्रे । सरस्तीरेति-
सरस्सतीरे यद् रन्ध्रं बिलं तत्र निलीनो गुप्तः । ईषदिति ईषच्छिद्रे स्वल्परन्ध्रे दत्तौ
हजारों अग्निशिखासे रातका अन्धकार दूर करें । और अपने अर्थसिद्धिका प्रयत्न करें ।
( १८ ) उस राजाने कृतज्ञता प्रकाशित करते हुए कहा—'यह लाभ मुझे इस समय
अलाभके समान प्रतीत होता है, क्योंकि, इस अवसर पर आपका रहना न
होगा । आपके संगसे रहित होना कष्टप्रद है । हाय ! निःसंगताके कारण निरपराधी
सेवकका (मेरा) आपसे वियोग हो जायगा । गुरुजनोंकी वाणीका लङ्घन नहीं
करना चाहिये (इसलिए मैं आपको रोक भी नहीं सकता ) ।' इस प्रकार कहकर
स्नानके लिये घर चला गया । मैं ( मन्त्रगुप्त ) भी सूनी आधी रातमें उस
कुटीसे निकलकर तालाबके तीरवाले बिल ( छेद ) में प्रविष्ट होकर छोटे छेदमें
कान लगाकर बैठ गया । आधी रातके समय वह राजा, मुझसे उपदेशित क्रियाओंको
करके स्थान-स्थान पर रक्षक पुरुषोंको नियुक्त करके, अनेकों धीवरोंको लाकर,
उस तालाबके अन्तःप्रदेशके शल्यों ( कांटों ) को निकलवाकर उस तालाबके जलमें

सप्तमोच्छ्वासः । बालबोधिनीव्याख्यासहितम् । ४०५
स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जाल-
कजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगा-
हत गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया
नीरातिनिलीनया तं तथा शयानं कन्धरयां कन्थया न्यग्रहीषम् । खर-
तरकालदण्डसंघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेना-
जहात्स चेष्टाम् । ततश्चाकृष्य तच्छरीरं छिद्रं निधाय नीरान्निर्यासिषम् ।
( १६ ) सङ्गतानां च सैनिकानां तदत्यचित्रियताकारान्तरग्रहणम् ।
कर्णौ येन तादृशः । स्थिते अवशिष्टे । कृतेति—कृता अनुष्ठिता यथादिष्टा मत्व-
थनानुरूपा क्रिया येनासौ । स्थानेति-स्थाने अनेकेषु स्थानेषु रचिता कृता रक्षा
रक्षिपुरुषसंस्थापनं येनासौ । राजा जयसिंहः । निराकृतेति—निराकृतं दूरीकृतं
परीक्ष्य शोधितमिति यावत् अन्तःशल्यं जलमध्यस्थविघ्नो यस्य तादृशं सरः
सलिलम् । सलीलगतिः सविलासगमनः । अगाहत प्राविशत् । गतमित्यादि—
कीर्णकेशं कीर्णा विक्षिप्ताः केशा मूर्द्धजा यस्मिन् कर्मणि तद् यथा तथा, संहत-
कर्णनासं—कर्णौ च नासे चेति कर्णनासं प्राण्यङ्गत्वादेकवद्भावः संहतं पिहितं
कर्णनासं यस्मिन् कर्मणि तद् यथा तथा । एतत्पदद्वयं गतमिति क्रियाया विशेष-
णम् । हास्तिनं-हस्तिप्रमाणकं—हस्ती प्रमाणमस्येति अण्प्रत्ययः । सरसस्तलं
गतं प्रविष्टं, तथा पूर्वोद्दिष्टानुसारेण शयानं सुप्तम् तं जयसिंहं ग्रीवायां कन्थरायां
नक्रलीलया नक्रस्य मकरस्येव लीला तया-नक्रवदित्यर्थः नीरातिनिलीनया नीर
सलिले अतिनिलीनया अत्यन्तनिमग्नया कन्थया प्रावरणविशेषेण न्यग्रहीपं
निगृहीतवानहमिति शेषः । खरतरेति—खरतरोऽतितीक्ष्णः यः कालदण्डो यम-
दण्डस्तस्य यत्सङ्घट्टनं सङ्घर्षस्तद्वत् अतिचण्डैः अतिभीषणैः । करचरणघातः
हस्तपादप्रहारैः । निर्दयैति—निर्दयं यथा तथा दत्तो निग्रहो निकारो यस्यासौ ।
स जयसिंहः चेष्टां अजहात् अम्रियत । ततः—सरस्तलात् । आकृष्य बहिष्कृत्य ।
छिद्रे पूर्वकृतरन्ध्रे । निधाय संस्थाप्य । निर्यासिषम्-निर्गतोऽभवम् ।
( १९ ) सङ्गतानां तत्रोपस्थितानाम् । तदाकारान्तरग्रहणं अन्याकारप्राप्तिः ।
विलासयुक्त प्रविष्ट हुआ । राजा अपने बालोंको खोलकर, कान-नाक बन्दकर
हस्तिप्रमाण जलमें सो गया । तब मैने उस सोनेवाले राजाके गलेको पानीमें अत्यन्त
गुप्त मगरकी लीलासे कन्धा कन्था द्वारा पकड़ लिया । तदनन्तर अत्यन्त तीक्ष्ण कालदण्ड
के संघटनके समान अति भीषण अपने हाथ-पैरोंके आघातसे उस राजाको खूब मारा
जिससे उस जयसिंहने एक क्षणमें ही अपनी लीला समाप्त कर दी ( मर गया ) ।
फिर उसके शरीरको ले जाकर उसी छेदमें रख दिया और मै जलसे बाहर आ गया ।
( १९ ) वहांपर उपस्थित सैनिकोंने रूप-परिवर्त्तन देखकर अत्यन्त आश्चर्य प्रकट-