सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३८ दशकुमारचरितम् । [ पूर्वपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
३८ दशकुमारचरितम् । [ पूर्वपीठिकायां
नरपतिः सुमतये मन्त्रिणे सोमदत्तं नाम तदनुजतनयमर्पितवान् । सोऽपि
सोदरमागतमिव मन्यमानो विशेषेण पुपोष ॥
(८०) एवं मिलितेन कुमारमण्डलेन सह बालकेलीरनुभवन्नधिरू-
ढानेकवाहनो राजवाहनोऽनुक्रमेण चौलोपनयनादिसंस्कारजातमलभत ।
ततः सकललिपिज्ञानं निखिलदेशीयभाषापाण्डित्यं षडङ्गसहितवेदसमुदा-
यकोविदत्वं काव्यनाटकाख्यानकाख्यायिकेतिहासचित्रकथासहितपुराणग-
णनैपुण्यं धर्मशब्दज्योतिस्तर्कमीमांसादिसमस्तशास्त्रनिकरचातुर्यं कौटिल्य-
वावतिष्ठते न वेति जीवति न वेति वा सन्दिग्धतया । खिन्नं खेदाकुलं मानसं यस्य
सः । नरपतिः राजा राजहंस इत्यर्थः । सोऽपि सुमतिरपि । सोदरं सत्यवर्माणमि-
त्यर्थः । पुपोष वर्द्धयामास ।
(८०) एवमनेन प्रकारेण । मिलितेन एकत्र सङ्गतेन । कुमारमण्डलेन कुमारसं-
घेन । बालकेलीः, शैशवोचितक्रीडाः । अधिरूढानि समारूढान्यनेकानि नानाविधानि
वाहनानि हस्त्यश्वादीनि येन सः । कदाचिद् गजं कदाचिच्चाश्वमारुरोहेति भावः ।
अनुक्रमेण यथाक्रमम् । सकललिपिज्ञानं सर्वविधाक्षरसंस्थानपरिचयम् । षडङ्गैः
शिक्षाकल्पादिरूपैर्वेदाङ्गैः सहिते युक्ते वेदसमुदाये वेदसमूहे कोविदत्वं पाण्डित्यम् ।
काव्यं रामायणादि, नाटकं रूपकादि, आख्यानकं चूर्णम् , आख्यायिका कादम्बर्यादि-
कथा, इतिहासो महाभारतादि, चित्रकथा रमणीयकथा । एतः सहितो युक्तो यत्पुराण-
गणः वेदव्यासरचिताष्टादशपुराणानि तत्र नैपुण्यं पाटवम् । धर्मेत्यादि प्रत्येकं
शास्त्रेण सम्बध्यते तेन धर्मशास्त्रं स्मृतिः, शब्दशास्त्रं व्याकरणं, ज्योतिषं, तर्कशास्त्रं
न्यायः, मीमांसा पूर्वोत्तरभेदेन द्विविधा, जैमिनीयदर्शनं वेदान्तदर्शनञ्चेत्यादिषु, आदि-
पदेन धनुर्वेदादिसंग्रहः, शास्त्रनिकरेषु शास्त्रसमूहेषु चातुर्यं अभिज्ञत्वम् । कौटिल्यश्चा-
राजहंस दुखी हुए और सुमति नामक अमात्यको बुलवाकर उस बालकको उन्हें सौप दिया
और उसका सोमदत्त नाम भी धर दिया । उस सुमति मन्त्रीने उसे पाकर भाईके आनेके
समान सुख प्राप्त किया तथा अति प्रीतिसे उसका लालन-पालन करने लगा ।
(८०) इस रीतिसे राजवाहन उन मिले हुए कुमारोंके साथ बालक्रीड़ा करता हुआ
बढ़ने लगा और सवारियोंके आरोहणमें निपुण उस राजवाहनके क्रमसे चौल तथा उपनयन-
सहित वेदका कोविदत्त्व, काव्य, नाटक, आख्यायिका, आख्यानक, इतिहास, चित्रकथासहित
पुराणोंकी विज्ञता, धर्मशास्त्र, ज्योतिषशास्त्र, न्यायशास्त्र, मीमांसा प्रभृति सकल शास्त्रोंकी
चतुरता, कौटिल्य, कामन्दकीय आदि नीतिग्रन्थोंकी कुशलता, वीणा आदि सभी वाद्यकलाओंमें
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३६
कामन्दकीयादिनीतिपटलकौशलं वीणाद्यशेषवाद्यदाक्ष्यं संगीतसाहित्यहा-
रित्वं मणिमन्त्रौषधादिमायाप्रपञ्चचुञ्चुत्वं मातङ्गतुरङ्गादिवाह्नारोहणपा-
टवं विविधा‌युधप्रयोगचणत्वं चौर्यदुरोदरादिकपटकलाप्रौढत्वं च तत्तदा-
चार्य्येभ्यः सम्यगलब्ध्वा यौवनेन विलसन्तं कुमारनिकरं निरीक्ष्य महीव-
ल्लभः सः 'अहं शत्रुजनदुर्लभः' इति परमानन्दममन्दमविन्दत ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर्नाम प्रथम उच्छ्वासः ।

णक्यस्तेन प्रणीतं कौटिल्यं, कामन्दकरचितं कामन्दकीयम् आदिपदेन शुक्रनीत्यादि
संग्रहः । इत्यादीनि यानि नीतिपटलानि नीतिशास्त्रसमुदायास्तेषु कौशलं नैपुण्यम् ।
वीणादिषु वीणाप्रभृतिष्वशेषेषु सकलेषु वाद्येषु दाक्ष्यं दक्ष्ताम् । सङ्गीतसाहित्येषु
नृत्यगीतादिशिल्पकलासु हारित्वं मनोहारित्वम् । मणिमन्त्रौषधादिभिर्यो मायाप्र-
पञ्चः कपटप्रबन्धस्तेन वित्त इति 'तेन वित्तश्चुञ्चुप्चणपौ'ति चुञ्चुप्रत्ययः, तत-
स्तस्य भावस्तथा । कपटप्रबन्धकुशलत्वमित्यर्थः । विविधानामायुधानामह्स्त्राणां
प्रयोगेण वित्तस्तस्य भावस्तथा । अत्रापि तेनैव चणप् । चौर्यं स्तेयं, दुरोदरं द्यूतं
तदादिकपटकलासु प्रौढत्वं प्रावीण्यम् । तत्तदाचार्य्येभ्यस्तत्तच्छास्त्रनिष्णातैभ्यः ।
लब्ध्वा अधिगम्य । कृत्येषु कार्येषु अनलसमालस्यरहितमुद्यमशीलमित्यर्थः । महीव-
ल्लभो राजा । शत्रुजनदुर्लभः शत्रुभिरपराजेयः । अविन्दत अलभत ।
इति श्रीताराचरणभट्टाचार्य्यकृतायां बालबोधिनीसमाख्यायां
दशकुमारचरितव्याख्यायां प्रथमोच्छ्वासः ।

पटुता, संगीत, साहित्य, मणि, मन्त्र, औषध आदि माया-प्रपंचोंमें दक्षता; हाथी, घोड़े,
रथादि सवारियोंपर चढ़नेकी क्षमता; अनेक प्रकारके अस्त्र-शस्त्रोंके चलानेमें पटुता; चोरी,
जुआ, कपटकलामें प्रवीणता; आदि तत्तत् शास्त्रियोंसे अच्छी प्रकार सीखे हुए तरुणावस्थासे
सुशोभित एवं कार्योंमें आलस्यरहित कुमारोंको देखकर राजा हंसवाहनने अपनेको कृतकृत्य
माना तथा मनमें यह सोचा कि अब शत्रुजन मेरा कुछ भी नहीं बिगाड़ सकते-मै अजेय
हूँ और परमानन्दित होने लगा ।
इस प्रकारसे प्रथमोच्छ्वासकी बालक्रोडा हिन्दीटीका समाप्त हुई ।'

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
द्वितीयोच्छ्वासः
( १ ) अथैकदा वामदेवः सकलकलाकुशलेन कुसुमसायकसंशयित-
सौन्दर्येण कल्पितसौदर्येण साहसापहसितकुमारेण सुकुमारेण जयध्वजात-
पवारणकुलिशाङ्कितकरेण कुमारनिकरेण परिवेष्टितं राजानमानतशिरसं
समभिगम्य तेन तां कृतां परिचर्यामङ्गीकृत्य निजचरणकमलयुगलमिल-
न्मधुकरायमाणकाकपक्षकं विदलिष्यमाणविपक्षं कुमारचयं गाढमालिङ्ग्य
मितसत्यवाक्येन विहिताशीर्ब्यभाषत ।
( १ ) सकलासु निखिलासु कलासु नृत्यगीतादिविद्यासु कुशलेन निपुणेन ।
कुमारनिकरेणेत्यस्य विशेषणमेवमग्रेऽपि । कुसुमसायकः कन्दर्पः संशयितः कन्दर्पो
वा तदन्यो वेति सन्दिग्धो यस्मात् तथाभूतं सौन्दर्यं यस्य तेन । यस्य सौन्दर्यं
दृष्ट्वा जनस्य कन्दर्पभ्रमो भवतीत्यर्थः । कल्पितं परस्परं रचितं सौदर्यं सहोदरभावः
बन्धुतेति यावत्, येन तेन साहसेन पराक्रमेण अपहसितस्तिरस्कृतः कुमारः
कार्त्तिकेयो येन तेन कुमाराधिकवीर्यशालिनेत्यर्थः । सुकुमारेण कोमलशरीरेण ।
जयध्वजो जयपताका, आतपवारणं छत्रं; कुलिशं वज्रं, तैरङ्कितौ चिह्नितौ करौ हस्तौ
यस्य तेन । येषां करेषु ध्वजादिरेखाः सन्तीत्यर्थः । कुमारनिकरेण कुमारसमूहेन
आनतशिरसं कृतनमस्कारम् । तेन राज्ञा राजहंसेन । परिचर्यां सेवाम् अङ्गीकृत्य
स्वीकृत्य । निजस्य ( वामदेवस्य ) चरणकमलयुगले पादपङ्कजद्वये मिलन्तः पतन्तः
मधुकरायमाणा भ्रमरा इवाचरन्तः काकपक्षाः शिखण्डका यस्य तं वामदेवं प्रणम-
न्तमित्यर्थः । विदलिष्यमाणाः पराजेष्यमाणा विपक्षाः शत्रवो येन तम् । कुमारचयं
राजवाहनादिकुमारगणम् । गाढं निर्भरम् । मितं स्वल्पं सत्यमवितथं यद्वाक्यं तेन ।
परिमितसत्यप्रियवचनेनेत्यर्थः । विहिताशीः कृताशीर्वादः ।
( १ ) तत्पश्चात् एकदा वामदेव मुनि, सभी कलाओं में प्रवीण यही कामदेव है ऐसा
जनोंके चित्तों में सन्देहको उत्पन्न करानेवाले और वेश भूषादिसे अत्यन्त रमणीय एवं साहसमें
स्वामी कार्त्तिकेयका उपहास करनेवाले तथा जिनके हाथोंमें जयध्वज, छत्र एवं कुलिशके
चिह्न हैं ऐसे सुकुमार कुमारोंके समुदायसे परिव्याप्त हुए प्रणतमस्तक महाराजके समीप गये ।
वहाँ जाकर राजा द्वारा की गयी सेवा स्वीकार की । तत्पश्चात् अपने पादपद्ममें प्रणाम करते
समय जिनके काकपक्ष भ्रमरोंकी शोभाको धारण करनेवाले ज्ञात होते थे और भविष्यमें
शत्रुदलका दलन करनेवाले थे ऐसे कुमारोंके समुदायका आलिङ्गन किया । फिर परिमित
तथा सत्य वचनोंसे आशीर्वाद देकर कहने लगे-
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१
( २ ) ‘भूवल्लभ, भवदीयमनोरथफलमिव समृद्धलावण्यं तारुण्यं नुत-
मित्रो भवत्पुत्रोऽनुभवति । सहचरसमेतस्य नूनमेतस्य दिग्विजययारम्भस-
मय एषः । तदस्य सकलक्लेशसहस्य राजवाहनस्य दिग्विजयप्रयाणं
क्रियताम्’ इति ।
( ३ ) कुमारा माराभिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोप-
हसितसमीरणा रणाभियानेन यानेनाभ्युदयाशंसं राजानमकार्षुः । तत्सा-
चिव्यमितरेषां विधाय समुचितां बुद्धिमुपदिश्य शुभे मुहूर्ते सपरिवारं
कुमारं विजयाय विससर्ज ।
( ४ ) राजवाहनो मङ्गलसूचकं शुभशकुनं विलोकयन्देशं कंचिदति-
( २ ) भवदीयानां त्वदीयानां मनोरथानामभिलाषाणां फलमिव । समृद्धमति-
शयेन वर्धितं लावण्यं सौन्दर्यं यस्मिन् तदिति तारुण्यविशेषणम्। नुतानि प्रशंसितानि
मित्राणि सुहृदो यस्य सः । नूनं निश्चयेन । दिशां विजयस्यारम्भः प्रारम्भस्तस्य
समयः कालः । अस्मिन्नेव समये दिग्विजयोद्योगः कर्त्तव्यः इत्यर्थः । सकलक्लेशस-
हस्य सत्त्वसम्पन्नतया सकलक्लेशसहिष्णोः । दिग्विजयप्रयाणं दिग्विजययात्रा ।
( ३ ) मारः कन्दर्पस्तद्वदभिरामा मनोहराः । रामो दाशरथिराद्यो येषां ते तेषां
पौरुषमिव पौरुषं पराक्रमो येषां ते । रुषा कोपेन भस्मीकृता विनाशिता अरयः शत्रवो
यैस्ते । रयेण वेगेनोपहसितस्तिरस्कृतः समीरणः पवनो यैस्ते । रणमभियातीति रणा-
भियानं तेन रणाभियानेन रणाभिमुखेन । यानेन यात्रया । अभ्युदयेऽभ्युन्नतौ आशंका
०यस्य तम् । तस्य राजवाहनस्य साचिव्यं मन्त्रित्वं सहायत्वमिति यावत् । इतरेषां
अन्यकुमाराणाम् । समुचितां विजययात्राय योग्याम् । सपरिवारं सपरिजनम् ।
विजयाय विजयं कर्तुमिति ‘तुमर्थाच्च भाववचनादि’ति चतुर्थी । विससर्ज प्रेषयामास ।
( ४ ) मङ्गलसूचकं शुभोदर्कज्ञापकम् । शुभशकुनं सुनिमित्तम् । तत्र विन्ध्याट-
( २ ) हे पृथिवीपति ! अनुकूलसुहृद् आपका पुत्र राजवाहन आपके मनोरथ फलकी
तरह समृद्ध-लावण्य तथा युवावस्थाका अनुभव करता है। अतः सहचर वर्गोंके सहित उसके
दिग्विजय करनेका यह समय अच्छा है। इसलिये उसे आप दिग्विजयार्थ भेज देवें ।
( ३ ) कामदेवके सदृश मनोहर तथा श्रीरामचन्द्रादिके समान पराक्रमशील एवं कोपसे
ही अरिवर्गको भस्म करनेमें समर्थ और वेगमें पवनको भी तिरस्कृत करनेवाले कुमारवर्गकी
रणयात्राके द्वारा राज्यश्रीका अभ्युदय निश्चित होगा । यह बात परिज्ञात करके उस राजहंस
ने अन्य कुमारोंको कुमार राजवाहनके साहाय्यके लिए नियुक्त किया तथा समुचित उपदेशों
को देकर शुभ मुहूर्तमें परिजनोंके साथ राजवाहनको विजय करनेके लिए भेज दिया ।
( ४ ) कुमार राजवाहन यात्रामें मंगलसूचक शुभ लक्षणों ( शकुनों ) को देखता हुआ
Nepal Sanskrit University, Balmeeki Campus, Kathmandu