सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३८६ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
३८६ दशकुमारचरितम् । [ उत्तरपीठिकायां
चिन्तनीया । यद्यस्ति दया तेऽत्र जने, अनन्यसाधारणः करणीयः स
एव चरणाराधनक्रियायाम् । यदि च कन्यागाराध्यासने रहस्यक्षरणादनर्थ
आशङ्क्येत, नैतदस्ति । रक्ततरा हि नस्तत्र सख्यश्चेट्यश्च । यथा न
कश्चिदेतज्ज्ञास्यति तथा यतिष्यन्ते' इति ।
(७) स चाहं देहजेनाकर्णाकृष्टसायकासनेन चेतस्यतिनिर्दयं ताडि-
तस्तत्कटाक्षकालायसनिगडगाढंसंयतः किंकरानननिहितदृष्टिरगादिषम्-
पादपद्मघूलिकणाः । तथा तादृशी । अत्र जने मयि । अनन्यसाधारणः अनन्यस-
दृशः । स एव-अहमेव । चरणाराधनक्रियायां-पदसेवाकार्ये । कन्यागाराध्यासने-
कन्यान्तःपुरवासे । रहस्यक्षरणात्-गुह्यप्रकटनात् । अनर्थो विपत्तिः । आशङ्क्येत
भवतेति शेषः । नैतदस्ति-शंका नास्तीत्यर्थः । रक्ततराः अतिशयेन अनुरक्ताः ।
नः अस्माकम् । सख्यः सहचर्यः । चेट्यः दास्यः। न कश्चित्-नान्यः कोऽपि ।
एतत्-भवदवस्थानम् । यतिष्यन्ते चेष्टिष्यन्ते ता इति शेषः ।
(७) स चाहं-मन्त्रगुप्त इत्यर्थः । देहजेन मदनेन । आ-गैति-आकर्णं श्रवण-
पर्यन्तं आकृष्टं आयतीकृतं सायकासनं कार्मुकं येन तेन । दहजेनेत्यस्य विशेषण-
मिदम् । अथवा आकर्णाकृष्टं यत् सायकासनं धनुस्तेनेति करणे तृतीया । अति-
निर्दयमतिकठोरम् । तत्कटाक्षेति-तस्याः राजकन्यायाः कटाक्ष एव कालायस-
निगडः लोहशृङ्खलं तेन गाढं दृढं संयतो बद्धः । किङ्करेति किङ्करस्य राक्षसस्यानाने
मुखे निहिता अर्पिता दृष्टियेन तादृशोऽहम् । अगादिषं-कथितवान् । यथा यादृक् ।
आप किस हेतु इस दासीको कालके गालसे ( हाथ से) बचाकर, फिर अनुरागरूपी
पवनसे चञ्चल तथा उत्कण्ठारूपी तरङ्ग (लहर) वाले कामदेवरूपी समुद्रमें ढकेल रहे
हैं। आप मुझे अपने चरणकमलकी रजके तुल्य ही जानें। यदि आपकी इस तुच्छ जनपर
दया है, आप मुझे अपने पादसेवाकार्यमें नियुक्त करें और अपनी अनन्य सेविका
बनावें। यदि आप यह सोचें कि कन्यान्तःपुरमें जानेसे गुप्त बातें प्रकट हो जायँगी
तो इसकी आप जरा भी शंका न करें—अर्थात् निःशंक होकर मेरे साथ वहां चलकर
रहें। क्योंकि वहांपर सब सहचरी और दासियां मेरी प्रगाढ स्नेहवती हैं और वे भी
मुझपर अति अनुराग करती हैं। आपका अन्तःपुरमें निवास कोई भी न जानें ऐसा
ही उद्योग वे सब करेंगी।'
(७) वही मैं ( मन्त्रगुप्त ) कामदेवद्वारा कानकर खींचकर धनुषसे वेधित हृदयवाला,
उस राजपुत्रीके कटाक्षरूपी लोहेकी जंजीरोंसे परिवद्ध होकर, उस किंकरके मुखपर दृष्टि
डालकर बोला—'हे किंकर ! जैसा यह प्रशस्तजघना राजपुत्री कहती है वैसा यदि
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३८७
'यथेयं रथचरणजघना कथयति तथा चेन्नाचरेयम् , नयेत नक्रकेतनः
क्षणेनैकेनाकीर्त्तनीयां दशाम्। जनं चैनं सह नयानया कन्यया कन्या-
गृहं हरिणनयनया' इति । नीतश्चाहं निशाचरेण शारदजलधरजालकान्ति
कन्याकनिकेतनम् । तत्र च कांचिन्नालकलां चन्द्राननानिदेशाच्चन्द्रशा-
लैकदेशे तद्दर्शनचलितधृतिरतिष्ठम्।
(८) सा च स्वच्छन्दं शयानाः करतलालससंघट्टनापनीतनिद्राः
काश्चिदधिगतार्थाः सखीरकार्षीत् । अथागत्य ताम्प्रणनिहितशिरसः क्षर-
रथचरणजघना रथचरणः चक्रं तदाकारे जघने यस्याः सा, प्रशस्तजघनेति यावत् ।
तथा तादृक् । आचरेयं अनुतिष्ठेयम् । नयेत प्रापयेत् । नक्रकेतनः मकरध्वजः ।
क्षणेन एकेन मुहूर्त्तेन । अकीर्त्तनीयां अकथनीयाम् । दशां मरणदशामिति भावः ।
एनं जनं मामित्यर्थः । नय प्रापय । नीतः प्रापितः । शारदेति-शरदि भवः शार-
दस्तादृशो यो जलधरो मेघस्तस्य जालं मण्डलं तस्येव कान्तिर्यस्य तादृशम्
सुधासितमित्यर्थः । कन्याकनिकेतनं कन्यागृहम् । तत्र कन्यागृहे । काञ्चित्-
कियत्परिमिताम् । कालकलां कालस्य समयस्य कलामंशम् । चन्द्राननानिदेशात्-
राजकन्यादेशात् । चन्द्रशालैकदेशे चन्द्रशाला शिरोगृहं तस्या एकदेशे एकस्मिन्
विभागे । तद्दर्शनेति-तस्या राजकन्याया दर्शनेन चलिता च्युता धृतिधैर्यं
यस्य सः ।
(८) सा राजकन्या । स्वच्छन्दं प्रकामम् । शयानाः निद्रामधिगताः । करत-
लेति-करतलेन अलसं मन्दं यत् संघट्टनं प्रेरणं तेन अपनीता दूरीभूता निद्रा
यासां ताः एवम्भूताः काश्चित सखीः सहचरीः अधिगतार्थाः अधिगतः सम्यक्
ज्ञातः अर्थः मदागमनरूपो विषयो याभिस्ताः । अथ निद्रापगमनानन्तरं ताः
सख्यः । किम्भूताः, चरणनिहितशिरसः-मत्पादसंस्थापितमस्तकाः प्रणता इति
आचरण न करूंगा तो, कामदेव एक ही क्षणमे अवर्णनीया परिस्थिति ला देगा। अर्थात्
मरणावस्था प्राप्त करा देगा। अत एव इस जन (मुझ) को इसी मृगनयनी राजपुत्रीके
साथ अन्तःपुरमें ले चलो।' मैं (तथा वह राजपुत्री) उस निशाचर (किंकर) द्वारा
शरत्कालिक मेघोंके समान सुन्दर छविकाले (सफेद) कन्यान्तःपुरमें पहुँचा दिया
गया। उस कन्यान्तःपुग्में कुछ कालतक उस चन्द्रमुखी राजकन्याके आदेशसे अट्टा-
लिका (शिरोगृह) के एक स्थलमें 'फिर उस चन्द्रमुखीका दर्शन होगा' इस आशासे
अधीरबुद्धि होकर बैठ गया।
(८) वह चन्द्रमुखी, घोर निद्रामें सोती हुई कई सखियोंको, हाथकी धीमी
थपकियोंसे जगाकर, तथा मेरे आगमन रूपी समाचारको ज्ञात कराकर वहाँ बुलाकर