सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३७२ दशकुमारचरितम् । [ उत्तरपीठिकायां

३७२ दशकुमारचरितम् । [ उत्तरपीठिकायां
गृहिण्यै 'स्वनूपुरयुगलं प्रेषय' इति संदिदेश । सा च सलज्जं ससाध्वसं
चाद्य रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रनष्टो ममैकः प्रशिथिलबन्धो
नूपुरः । सोऽद्याप्यन्विष्टो न दृष्टः । स पुनरयं द्वितीय इत्यपरं प्राहिणोत् ।
अनया च वार्तयामुं पुरस्कृत्य स वणिक् वणिग्जनसमाजमाजगाम । स
चानुयुक्तो धूर्तः सविनयमावेदयत्—'विदितमेव खलु वः, यथाहं युष्म-
दाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि । लुब्धाश्च कदाचिन्म-
दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपि श्मशानमधिशये ।
अपरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमाकर्षन्तीं श्यामाकारां नारीमप-
श्यम् । अर्थलोभात्तु निगृह्य साध्वसं सा गृहीता शस्त्रिकयोरुमूले यदृच्छया
असौ अनन्तकीर्त्तिः। गृहिण्यै-भार्यासकाशे । सन्दिदेश-वार्त्तां प्रेषितवान् । सा
नितम्बवती । ससाध्वसं सभयम् । विश्रामेति-विश्रमार्थं प्रविष्टायाम् । प्रनष्टः
चरणात्रिपतितः। प्रशिथिलबन्धः शरीरकार्श्यात् श्लथबन्धनः । स नूपुरः । अपरं
अन्यं नूपुरम् । अनया वार्त्तया-अनेन वृत्तान्तेन । अमुं नूपुरम् । पुरस्कृत्य
गृहीत्वा । अनुयुक्तः पृष्टः । स धूर्त्तः कलहकण्टकः । आवेदयत् अकथयत् । विदितं
ज्ञातम् । वः युष्माकम् वणिजामिति शेषः । युष्मदाज्ञया भवतामादेशेन । पितृ-
वनं श्मशानम् । तदुपजीवी-तेन श्मशानरक्षणेन उपजीवति जीविकां करोतीत्येवं-
शीलः । लुब्धाः धूर्त्ताः। मदर्शनभीरवः मदवलोकनभयशीलाः । निशि रात्रौ ।
अधिशये तिष्ठामि । अपरेद्युः अन्यस्मिन् दिने । दग्धादग्धं-कियद्दग्धं कियच्चादग्ध-
मेतादृशं मृतकं शवम् । चितायाः चितामध्यात् । प्रसभं बलात् । श्यामाकारां
कृष्णवर्णाकृतिम् । साध्वसं भयं निगृह्य परित्यज्य सा नारी । मया गृहीता धृता ।
उसने लज्जा और भयके साथ कहा कि आज रातको मैं विश्रान्तिके लिये वृक्षवाटिका में
गयी थी। वहाँपर एक नूपुर, शरीरके कृश होनेके कारण ढीला पड़ गया था, गिर गया ।
उसे आज भी मैंने खोजा, किन्तु नहीं मिला। अस्तु, यह दूसरा नूपुर मेरे पास है
इसे ले जाओ। इस उपर्युक्त कथनके साथ उस अनन्तकीर्तिने उस धूर्त्तको वणिक्-
समुदायके समीप उपस्थित किया । वणिकोंद्वारा पूछे जानेपर उस धूर्तने विनयसे
कहा—'आप लोगोंको ज्ञात ही है कि मैं आप लोगोंकी आज्ञासे श्मशानमें रक्षक बनकर
उसीसे प्राप्त द्रव्यद्वारा अपना जीवन निर्वाह करता हूँ । मेरी उपस्थितिसे डरनेवाले
धूर्त्त लोग कदाचित् रातमें शव न जला डालें इसी कारण मैं रातमें भी श्मशान ही में
सोता हूँ । गत दिनकी रातमे मैंने चितापर जलनेवाले एक अर्धदग्ध शवको जबर्दस्तीसे
खींचती हुई कृष्णवर्णवाली स्त्री देखी। धनके लोभसे भयको त्यागकर मैंने उसे पकड़ा

किञ्चिदुल्लिखितम् । एष च नूपुरश्चरणादाक्षिप्तः । तावत्येव द्रुतगतिः
सा पलायिष्ट । सोऽयमस्यागमः । परं भवन्तः प्रमाणम्' इति ।
(४७) विमर्शेन च तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमत-
मासीत् । भर्त्रा च परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्वध्य
मर्तुकामा तेन धूर्तेन नक्तमगृह्यत । अनुनीता च 'सुन्दरि, त्वदाकारोन्मा-
दितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनोपन्यस्य तेष्वसिद्धेषु
पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः । तत्प्रसीदानन्य-
शरणायास्मै दासजनाय' इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य सान्त्व-
क्षत्रिकया छुरिकया । ऊरुमूले तस्या इति शेषः । यदृच्छया स्वेच्छया । तावति
तस्मिन्नेव समये । अस्य नूपुरस्य । आगमः प्राप्तिः । परं अतः परम् ।
(४७) विमर्शेन-विचारेण । तस्या नितम्बवत्याः । शाकिनीत्वं पिशाचत्वम् ।
ऐकमत्येन अविसंवादित्वेन । पाशेन रज्वा । उद्वध्य आत्मानं बद्ध्वा । तेन-कल-
हकण्टकेन । अगृह्यत गृहीता नितम्बवतीति शेषः । त्वदाकारेति-तव आकारेण
आकृत्या उन्मादितेन उन्मादग्रस्तेन । त्वदावर्जने तवायत्तीकरणे भिक्षुकीमुखेन
श्रमणिकाद्वारेण । उपन्यस्य कृत्वा । तेषु उपायेषु । असिद्धे निष्फलेषु सत्सु ।
असाधारणीकृत्य-अन्यवैलक्षण्येनेत्यर्थः । रन्तुं विहर्तुम् । अनन्यशरणाय अनन्य-
गतिकाय । अस्मै मह्यमित्यर्थः । प्रयुज्य उक्त्वा । अगल्यन्तरां न विद्यते गत्य-
और मेरे हाथमेंकी छुरीसे उसके जांघमें कुछ चोट भी आ गयी । (मैंने जांघमें जानकर
छुरी नहीं मारी थी अपितु सहज हीमें लग गयी थी) यह नूपुर मैंने उसके चरणमेंसे
खींच लिया । तब वह तेज चालसे भाग गयी । यही इस नूपुरप्राप्तिका वृत्त है । इसके
अतिरिक्त मैं कुछ नहीं जानता, आप लोग ही जानें ।
(४७) सब पुरवासियोंने इस वृत्तसे ऐक्यमत होकर यही निश्चय किया कि यह
नितम्बवती पिशाचयोनिकी है । उसके पतिने भी उसे त्याग दिया । उसी श्मशानपर
जाकर वह बहुत विलाप करके अपनेको रस्सीसे बांधकर मरनेको इच्छा करने लगी—
फांसी लगाकर मरना चाहती थी कि उसी धूर्तने उसे आकर पकड़ लिया । और
अनुनय करके कहने लगा—'हे सुन्दरी ! आपकी आकृति और सुन्दरतासे मैं उन्मत्त
हो गया था । और आपकी प्राप्तिके लिये भिक्षुकी आदिके मुख द्वारा सन्देश कहलाया ।
अनेक यत्न किये, परन्तु वे सभी निष्फल हो गये । तब मैंने यह उपाय सोचा कि
'जबतक मैं जीता रहूँगा तबतक तुम्हें ही रमणी बनाये रहूँगा' ऐसा विचारकर उक्त