सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां

कतः सरस्तटं तीर्थासन्निकृष्टं केनचित्खननसाधनेनाकार्षम् । घनशिले-
ष्टिकाच्छन्नच्छिद्राननं तत्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादिस्नान-
निर्षिक्तगात्रश्च नक्षत्रसंतानहारयष्ट्यग्रग्रथितरत्नम्, क्षणदान्धकारगन्ध-
हस्तिदारणैककेसरिणम्, कनकैलशृङ्गरङ्गलास्यलीलानटम्, गगन-
सागरघनतरङ्गराजलङ्घनैकनक्रम्, कार्याकार्यसाक्षिणम्, सहस्रार्चिषं
सहस्राक्षदिगङ्गनाङ्गरागरागायितकिरणजालम्, रक्तनीरजाञ्जलिनाराध्य
निजनिकेतनं न्यशिश्रियम् ।

तादृशम् तथा तीर्थानां जलावतरणसोपानानां असन्निकृष्टं दूरवर्त्ति एवम्भूतं सर-
स्तटं केनचित् खननसाधनेन खनित्रेणाकार्ष कृतवानहम् । घनेति-घनाभिर्नि-
विडाभिः शिलाभिः पाषाणैः इष्टिकाभिश्च छन्नमाच्छादितं छिद्रस्य सुरङ्गाया आननं
मुखं यस्य तादृशं तत्तीरदेशं जनैर्लोकैः अशङ्कनीयं जनानां शङ्का न भविष्यती-
त्येवं निश्चित्य अवधार्य दिनादौ प्रभाते निर्षिक्तं स्नानेन शुद्धीकृतं गात्रं शरीरं
येन तादृशोऽहं सहस्रार्चिषं दिवाकरं किम्भूतमित्याह-नक्षत्रेत्यादि । नक्षत्राणां
सन्तानः समूह एव हारयष्टिर्मौक्तिकलता तस्या अग्रग्रथितं सम्मुखगुम्फितं यद्-
रत्नं तत्स्वरूपं, तथा क्षणदाया रजन्याः अन्धकार एव गन्धहस्ती मत्तगजस्तस्य
दारणे भेदने एककेसरिणं अद्वितीयसिंहस्वरूपम्, तथा कनकैलस्य सुमेरुपर्वत-
स्य शृङ्गशिखरमेव रङ्गः नृत्यशाला तत्र या लास्यलीला नृत्यादिक्रिया तस्या
नटं नर्त्तकस्वरूपं, तथा गगनमेव सागरस्तस्य घना मेघा एव तरङ्गाणामूर्मिणां
राजिः तस्य लङ्घने अतिक्रमणे एकनक्रं अद्वितीयग्राहस्वरूपं, कार्याणां कृत्यानाम-
कार्याणामकृत्यानाञ्च साक्षिणं सर्वद्रष्टारम् । तथा सहस्राक्षस्य इन्द्रस्य दिक्पूर्वा
सै वाङ्गना कामिनी तस्या अङ्गरागेण अङ्गविलेपनेन रागायितं रक्तवदाचरितं किर-
णजालं स्वमयूखसमूहो येन तादृशं रक्तनीरजानां कोकनदानां अञ्जलिना
अर्घ्यदानेनेत्यर्थः-आराध्य सम्पूज्य निजनिकेतनं स्वगृहं न्यशिश्रियं गतवानह-
मिति शेषः ।

ईंटोंसे ऐसा बन्द कर दिया जिसमें लोगोंको शङ्का भी न होवे । इस तरीकेकी यह
सुरङ्ग लोगोंसे न जानी जायगी ऐसा निश्चय हो जाता अर्थात्-जब सुरङ्गका छिद्र
खूब ढक जाता तब प्रभात कालमें ही स्नान करके देह धोकर मैं, नक्षत्रसमूहरूपी
मौक्तिकलताके मुख्य मणि, रात्रिके अन्धकाररूपी मत्तगजके विदारणमें अद्वितीय सिंह,
सुमेरु पर्वतके शिखररूपी नृत्यलीलाके नर्त्तकरूप, आकाशरूपी सागरकी मेघरूपी तरङ्गोंको
लांघनेमें मकर (ग्राह), कार्य और अकार्यके द्रष्टा, सहस्रदीधिति, इन्द्रकी प्राचीदिशारूपी

सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६६

( १५ ) याते च दिनत्रये, अस्तगिरिशिखरगैरिकतटसाधारण-
च्छायतेजसि, अचलराजकन्यकाकदर्थनान्तरिक्षाख्येन शंकरशरीरेण
संसृष्टायाः संध्याङ्गनायाः रक्तचन्दनचर्चितैकस्तनकलशदर्शनीये दिनाधि-
नाथे, जनाधिनाथः स आगत्य जनस्यास्य धरंणिन्यस्तचरणनखकिरण-
च्छादितकिरीटः कृताञ्जलिरतिष्ठन् । आदिष्टश्च—'दिष्ट्या दृष्टेष्टसिद्धिः।
इह जगति हि न निरीहं देहिनं श्रियः संश्रयन्ते । श्रेयांसि च सकलान्यान-

( १५ ) याते व्यतीते । अस्तगिरीति—अस्तगिरेरस्ताचलस्य शिखरे शृङ्गे-
यत् गैरिकतटं गैरिकमयप्रदेशः तत्साधारणी तत्सदृशा छाया कान्तिर्यस्य तथाभूतं
तेजो यस्य तादृशे आरक्तमयूखे इत्यर्थः । अचलेति—अचलराजो हिमालयस्तस्य
कन्यका पार्वती तस्याः कदर्थनया पीडनेन सपत्नीबुद्धयेति भावः, अन्तरिक्षाख्येन
शङ्करशरीरेण शिवस्याकाशमूर्त्या संसृष्टायाः सङ्गतायाः सन्ध्यैवाङ्गना कामिनी
तस्याः रक्तचन्दनेन रक्तानूलेपनेन चर्चितः रञ्जितो य एकः स्तनकलशः कुचकुम्भ-
स्तद्वत् दर्शनीये विलोकनीये । अस्तमनसमये सूर्यस्य तादृशरूपवत्त्वात् । दिनाधि-
नाथे सूर्ये । जनाधिनाथः राजा । सः जयसिंहः । जनस्य अस्य-ममेत्यर्थः । धरणि-
न्यस्तेति-धरण्यां भूमौ न्यस्तयोः स्थापितयोः चरणयोः पादयोः नखानां किरणै-
र्मयूखैः छादितं व्याप्तं किरीटं मुकुटं यस्यासौ । मच्चरणनिपतित इत्यर्थः । आदिष्ट
उक्तो मयेति शेषः । दिष्ट्या भाग्येन । दृष्टा मयावलोकिता । इष्टसिद्धिः—अभीष्ट-
लाभः । जगति संसारे निरीहं निस्पृहं देहिनं नरं श्रियः सम्पदः न संश्रयन्ते
नाश्रयन्ति निःस्पृहाणां सम्पल्लाभो न भवतीत्यर्थः । श्रेयांसि शुभानि । अनलसानां

अंगनाके अङ्गरागसे लाल किरणोंवाले, सूर्यको लाल कमलोंद्वारा पूजकर अपनी कुटीमें
चला जाता था ।
( १५ ) तीन दिन बीत जानेपर, अस्ताचलके शिखरपर जो गेरू आदि धातु हैं
उनकी प्रभाके समान तेजवाले, भवानीकी कदर्थनासे अन्तरिक्ष ( व्योम ) रूप शिवकी
देहमें संश्लिष्ट सन्ध्यारूपो महिलाके लाल चन्दनसे व्याप्त एक स्तन-कलशके सदृश
दर्शनीय, अस्त होनेवाले सूर्यके समय (सायंकालमें) वह राजा (आंध्रेश) आया
और इस जनके ( मेरे ) भूमिपर घरे हुए चरणके नाखूनकी प्रभासे अपने मुकुटको
आच्छादित करता हुआ बद्धाञ्जलि होकर बैठा । मैने आदेश दिया—'भाग्यवशात्
आपकी इष्टसिद्धि मालूम हो गयी । इस संसारमें अनुद्योगीके समीप लक्ष्मी नहीं
आती । उद्योगियोंके समीप कल्याणकारी कार्य आते रहते हैं—उद्योगी लक्ष्मीवान्
होता है । अस्तु, आपके सदाचारसे, साधुसदृश आचरणसे तथा निष्पाप भावसे