दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३५६ दशकुमारचरितम् । [ उत्तरपीठिकायां
३५६ दशकुमारचरितम् । [ उत्तरपीठिकायां
कालशेयकाञ्जिकाभ्यां शेषमन्नमभोजयत् । सशेष एवान्धस्यसावतृप्यत् ।
अयाचत च पानीयम् । अथ नवभृङ्गारसंभृतागुरुधूपधूपितमभिनवपाट-
लाकुसुमवासितमुत्फुल्लोत्पलग्रथितसौरभं वारि नालीधारात्मना पातयांब-
भूव । सोऽपि मुखोपहितशरावेण हिमशिशिरकणकरालितारुणायमाना-
क्षिपद्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्नरोमाञ्चकर्कशकपोलः
परिमलप्रवालोत्पीडफुल्लघ्राणरन्ध्रो माधुर्यप्रकर्षावर्जितरसनेन्द्रियस्तदच्छं
पानीयमाकण्ठं पपौ ।
न्धिभ्यामनुष्णाभ्यां च । कालशेयं तक्रं काञ्जिकाग्लद्रव्यविशेषः-ताभ्याम् ।
शेषमवशिष्टम् । सशेषे किञ्चिदवशिष्टे । अन्धसि अन्ने । असौ शक्तिकुमारः ।
अतृप्यत् तृप्तोऽभवत् । नवभृङ्गारेति-नवे नूतने शृंगारे जलपात्रविशेषे सम्भृतं
पूरितं तथा अगुरुधूपेन गन्धद्रव्यविशेषेण धूपितं सुगन्धीकृतं अभिनवैः प्रत्यग्र-
विकसितैः पाटलाकुसुमैर्वासितं सुरभीकृतं तथा उत्फुल्लैर्विकसितैरुत्पलैः ग्रथितं
सम्पादितं सौरभं सौगन्ध्यं यस्य तत् । वारि विशेषणमेतत् । भृङ्गारस्य जलनिर्ग-
मनमार्गो नाली तस्या धारात्मना धारारूपेण । पातयाम्बभूव निःक्षिप्तवती।
सोऽपि शक्तिकुमारोऽपि । मुखेति-मुखे स्ववदने उपहितो लग्नो यः शरावस्तेन ।
मुखलग्नशरावे जलं पातितवतीत्यर्थः । हिमशिशिरेत्यादि-हिमवत् तुषारवत्
शिशिरैः शीतलैः कणैर्जलविन्दुभिः करालितानि व्याप्तानि अरुणायमानानि
रक्तीभूतानि अक्षिपद्मानि नेत्ररोमाणि यस्य तादृशस्तथा धारारवेण जलपतन-
शब्देन अभिनन्दिते मुदिते श्रवणे कर्णौ यस्य तादृशस्तथा जलस्पर्शसुखेन उद्भि-
न्नैः प्रादुर्भूतैः रोमाञ्चैः रोमविकारैः कर्कशौ अमसृणौ कपोलौ गण्डौ यस्य
तथाभूतस्तथा परिमलस्य सौरभस्य यः प्रवालोत्पीडः लक्षणया विस्तारस्तेन फुल्ले
विकसिते आमोदिते इत्यर्थः घ्राणरन्ध्रे नासाविवरे यस्य तादृशस्तथा माधुर्यस्य
भोज्यस्वादस्य प्रकर्षेणाधिक्येन आवर्जितं वशीभूतं रसनेन्द्रियं जिह्वा यस्य तादृशः
शक्तिकुमारः । अच्छं निर्मलम् । आकण्ठं कण्ठं यावत् ।
प्रसन्न हुआ कि उसने पेटभर खाकर भी कुछ थोड़ा अन्न छोड़ दिया-अर्थात्
उसकी उतने प्रस्थ परिमाण चावलोंसे खूब तृप्ति हो गयी । ततः उस अतिथिने पानी
मांगा । तब उसने अगुरु और पाटल कुसुमोंसे सुवासित शीतल जल नये घड़ेसे
निकालकर करोआकी टोंटीसे देना शुरू किया । वह अतिथि अपने मुंहमें मिट्टीके
वर्त्तनको लगाकर पानी पीने लगा और वह कन्या उस पात्रमें करोआसे पानी डालने
लगी । तदनन्तर जलके शीतल स्पर्श सुखके अनुभवसे रोमाञ्चित होकर उसके कपोल
प्रदेश कर्कश हो गये । नासिकाके छेद भी सुवासित पदार्थके संसर्गसे प्रमुदित हो उठे।
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३५७
(३४) शिरःकम्पसंज्ञावारिता च पुनरपरकरकेणाचमनमदत्त कन्या ।
वृद्धया तु तदुच्छिष्टमपोह्य हरितगोमयोपलिप्ते कुट्टिमे स्वमेवोत्तरीयकर्पटं
व्यविधाय क्षणमशेत । परितुष्टश्च विधिवदुपयम्य कन्यां निन्ये । नीत्वैत-
दनपेक्षः कामपि गणिकामवरोधमकरोत् । तामप्यसौ प्रियसखीमिवोपा-
चरत् । पतिं च दैवतमिव मुक्ततन्द्रा पर्यचरत् । गृहकार्याणि चाहीनमन्व-
तिष्ठत् । परिजनं दाक्षिण्यनिधिरात्माधीनमकरोत् । तद्गुणवशीकृतश्च
( ३४ ) शिरःकम्पेति-शिरसः कम्पेन धूननेन या संज्ञा सङ्केतस्तया । वारिता
निषिद्धा कन्या अपरकरकेण अन्यभृङ्गारेण आचमनं मुखप्रक्षालनार्थं जलम् ।
वृद्धया धात्र्या । अपोह्य दूरीकृत्य । हरितगोमयोपलिप्ते प्रत्यग्रगोमयसंमृष्टे । स्वमेव
स्वकीयमेव । उत्तरीयकर्पटं उत्तरीयवस्त्रम् । व्यवधाय आस्तीर्य । अशेत निद्रां
कृतवान् । विधिवत्-स्वजात्युक्तविधिना । उपयम्य परिणीय । निन्ये स्वगृहं नीत-
वान् । एतदनपेक्षः एतस्यां कन्यायामनपेक्षः अपेक्षारहित-एतामनादृत्येत्यर्थः ।
गणिकां वेश्याम् । अवरोधं पत्नीम् । तां गणिकाम् । असौ कन्या । प्रियसखीमिव
स्वसहचर्या तुल्यम् । उपाचरत्-व्यवहृतवती । दैवतमिव देवतावत् । मुक्ततन्द्रा-
आलस्यरहिता । पर्यचरत् असेवत । अहीनं सुचारु सम्यगिति यावत् । अन्व-
तिष्ठत् सम्पादयामास । दाक्षिण्यं परच्छन्दानुवर्त्तनं तस्य निधिराधारः-दाक्षिण्य-
परायणेत्यर्थः । आत्माधीनं स्ववशीभूतम् । तद्गुणेति-तस्या गुणेन वशीकृत आ-
शीतल जलके माधुर्याधिक्यसे जिह्वा तृप्त हो गयी । इस प्रकारके सुवासित स्वच्छ और
शीतल जलको उस अतिथिने कण्ठतक पी लिया ।
( ३४ ) जब उस अतिथिने, जो अपने मुखमें मिट्टीके पात्रको लगाकर जल पी
रहा था और कन्या उस पात्रमें जल गिरा रही थी, अपने शिरको हिलाकर उसे रोका,
तब उस कन्याने दूसरे हाथसे दूसरे वरतनसे उसे हाथ धोनेको जल दिया । उसकी धात्रीने
उसकी जूठनको हटाकर वहांकी पृथिवीको हरे गोबर से लीप दिया । फिर उस अति-
थिने अपने उत्तरीय ( दुपट्टे ) को बिछा दिया और कुछ देरतक सो गया । इस रीतिकी
अतिथि-सेवापर मुग्ध होकर मैंने उस कन्याके साथ यथाशास्त्र विवाह किया और उसको
अपने साथ ले आया । ले आने के पश्चात् उस कन्याकी उपेक्षा करके उस शक्तिकुमारने
एक वेश्याको पत्नीरूपमें लाकर अपने घरमें बैठा दिया । उस वेश्या के साथ भी उस
कन्याने अपनी प्रिय सखी के समान सद्व्यवहार करना प्रारम्भ कर दिया । पतिकी
( इतने अपराधपर भी ) अपने देवताके तुल्य आलस्यहीना होकर सेवा करती थी ।
घरेलू धन्धोंको सुचारुरूपेण किया करती थी । दाक्षिण्यपरायणा होकर सभी परिजनोंको
Nepal Sanskrit University, Balmeeki Campus, Kathmandu