दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२८ दशकुमारचरितम् । [ पूर्वपीठिकायां
२८ दशकुमारचरितम् । [ पूर्वपीठिकायां
( ५९ ) स कुत्र गतः, केन वा गृहीतः, परीच्यापि न वीक्ष्यते तन्मु-
खावलोकनेन विनानेकान्यहान्यतीतानि । किं करोमि, क्व यामि, भवद्भिर्न
किमदर्शि' इति ।
( ६० ) 'द्विजोत्तम, कश्चिदत्र तिष्ठति । किमेष तव नन्दनः सत्यमेव ।
तदेनं गृहाण' इत्युक्त्वा दैवानुकूल्येन मह्यं तं व्यतरन् ।
( ६१ ) तेभ्यो दत्ताशीरहं बालकमङ्गीकृत्य शिशिरोदकादिनोपचारे-
णाश्वास्य निःशङ्कं भवदङ्कं समानीतवानस्मि । एनमायुष्मन्तं पितृरूपो
भवानभिरक्षतात्' इति ।
( ६२ ) राजा हृदापन्निमित्तं शोकं तन्नन्दनवलोकनसुखेन किञ्चि-
दधरीकृत्य तमुपहारवर्मनाम्नाहूय राजवाहनमिष पुपोष ।
( ५९ ) स मत्पुत्रकः । परीक्ष्य अन्विष्य । अहानि दिनानि । अतीतानि
गतानि । अदर्शि दृष्टः ।
( ६० ) कश्चित् एको बालकः । नन्दनः सुतः । दैवानुकूल्येन देवानुग्रहेण ।
व्यतरन् दत्तवन्तः ।
( ६१ ) तेभ्यः किरातेभ्यः । दत्ता अर्पिता आशिषो येन सः । अङ्गीकृत्य गृहीत्वा ।
शिशिरोदकादिना शीतलजलादिरूपेण शुश्रूषणेन । आश्वास्य स्वस्थं कृत्वा भवदङ्कं
भवत्समीपम् । पितृरूपः पितृतुल्यः । अभिरक्षतात् रक्षतु । तुह्योस्तातङ्ङाशिष्य-
न्यतरस्याम् इति तातङ् ।
( ६२ ) राजा राजहंसः । सुहृदो मित्रस्य प्रहारवर्मणः आपद् विपद् निमित्तंकारणं
यस्य तम् । तस्य मित्रस्य नन्दनस्य सुतस्य विलोकनाद् दर्शनाद् यत्सुखं तेन । अधरी-
कृत्य स्वल्पीकृत्य । उपहारवर्मनाम्ना । आहूय आकार्य । राजवाहनमिव स्वतनयवत् ।
( ५९ ) किन्तु, लौटने पर मैंने उसे वहां न पाया । नहीं ज्ञात हुआ कि वह कहाँ गया,
उसे कौन जानवर ले गया । अन्वेषण करनेपर भी उसे नहीं पाया उसका मुख देखे विना
कई दिन व्यतीत हो गये । क्या करूँ ? आपलोगों ने उसे देखा है ?
( ६० ) हे विप्र ? एक बालक यहाँ है । क्या सत्य ही आपका पुत्र है ? लीजिए
इसे आप ले जाइये । ऐसा कहते हुए उन्होंने इस बालकको मुझे दैवानुकूल होनेसे दे दिया ।
( ६१ ) मैंने उन लोगोंको आशीर्वाद दिया तथा शीतल जलोपचारसे इस बालकको
निःशंक कराकर आपके अंकमें ला रहा हूं । इस आयुष्मान बालकके आप पितातुल्य हैं ।
अतः इसकी आप रक्षा करें ।
( ६२ ) यह श्रवणकर राजाने सुहृदके विपत्ति जनित दुःखोंको उस बालकके मुखदर्शन
से थोड़ा-थोड़ा दूर किया और उसका नाम उपहारवर्मा रखकर राजवाहनकी तरह उसका
भी लालन-पालन करना प्रारम्भ किया ।
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २६
( ६३ ) जनपतिरेकस्मिन्पुण्यदिवसे तीर्थस्नानाय पक्कणनिकटमार्गेण
गच्छन्नबलया कयाचिदुपलालितमनुपमशरीरं कुमारं कंचिदवलोक्य कुतू-
हलाकुलस्तामपृच्छत्—'भामिनि ! रुचिरमूर्तिः सराजगुणसंपूर्तिरसाव-
र्भको भवदन्वयसंभवो न भवति कस्य नयनानन्दनः, निमित्तेन केन भव-
दधीनो जातः, कथ्यतां यथातथ्येन त्वया' इति ।
( ६४ ) प्रणतया तया शबर्या सलीलमलापि—'राजन् ! आत्मपल्लीस-
मीपे पदव्यां वर्तमानस्य शक्रसमानस्य मिथिलेश्वरस्य सर्वस्वमपहरति
शबरसैन्ये मद्दयितेनापहृत्य कुमार एष मह्यमर्पितो व्यवर्धत' इति ।
( ६५ ) तदवधार्य कार्यज्ञो राजा मुनिकथितं द्वितीयं राजकुमारमेव
( ६३ ) जनपतिः राजा । पुण्यदिवसे पुण्यतिथौ पर्वणि वा । तीर्थस्नानाय तीर्थे
स्नानं कर्तुम् । पक्कणस्य शबकालयस्य निकटमार्गेण सन्निहिताध्वना । अबलया
स्त्रिया । उपलालितं वात्सल्याेन धृतम् । अनुपमं अतुलनीयं शरीरं देहो यस्य तम् ।
कुतूहलेन कौतुकेन आकुलो व्याप्तः । भामिनि हे कामिनि ! सम्बोधनमेतत् । रुचिरा
मनोरमा मूर्तिः स्वरूपं यस्य सः । राजगुणानां नृपलक्षणानां संपूत्र्या_परिपूर्णतया
सह वर्त्ततेऽसाविति । अर्भको बालः । भवत्यास्तवत्वन्वये वंशे सम्भव उत्पत्तिर्यस्य
सः । नयनानन्दनो नेत्रप्रीतिदः पुत्र इति भावः । निमित्तेन कारणेन । भवदधीन-
स्त्वदायत्तः । याथातथ्येन तत्त्वतः ।
( ६४ ) प्रणतया कृतनमस्कारया । सलीलं सस्मितम् अलापि अभाषि । पदव्यां
मार्गे । शक्रसमानस्य इन्द्रतुल्यस्य । सर्वस्वं सर्वधनम् । मद्दयितेन मम भर्त्रा ।
व्यवर्धत वृद्धिं गतः ।
( ६५ ) अवधार्य विज्ञाय । कार्यज्ञः कृत्यवित् । सामदानाभ्यां साम्ना सान्त्व-
( ६३ ) एकदा किसी पुण्य कालके दिन मगधेश तीर्थस्नानके लिए जा रहे थे। रास्तेमें
शबरोंके गांवमें एक वनिताको एक सुन्दर बालकको लालन करते हुए एवं किसी-दूसरेको
दिखलाते हुए देखा । राजाने उस वनितासे आश्चर्यचकित होकर कुतूहलते पूछा-'हे भामिनि
इतना सुन्दर और सम्पूर्ण राजलक्षणोंसे युक्त यह सुन्दर मूर्तिवाला बालक किसका है। तुम्हारे
वंशमें तो ऐसे सुन्दर बालककी उत्पत्ति असम्भव है। अतः सत्य कहो यह किसके नेत्रोंकी
पुतली है। कैसे तुम्हारे पास यहां आया ?
( ६४ ) वह भीलिनी प्रणामकर कहने लगी—'हे देव ! जब शबरोंकी सेनाने इस
ग्रामसे जाते हुए मिथिलेशका सर्वस्व अपहरण कर लिया था । तब मेरे पतिने हरण करके
इस बालकको मुझे दिया था । तबसे मैं इसका पालन कर रही हूं।'
( ६५ ) उस भीलिनी द्वारा इस बालकका वृत्त ज्ञातकर तथा भलीभांति जानकर