दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२४८ दशकुमारचरितम्। [ उत्तरपीठिकायां
२४८ दशकुमारचरितम्। [ उत्तरपीठिकायां
शालदृष्टिरसकृदभ्यचुम्बत् ।
(३१) अथैनाम् 'इहैव कुरण्टकगुल्मगर्वे तिष्ठ यावदहं निर्गत्य
साधयेयं साध्यं सम्यक्' इति विसृज्य तामुपसृत्य होमानलप्रदेशमशोक-
शाखावलम्बिनीं घण्टामचालयम्। अकूजच्च सा तं जनं कृतान्तदूतीवाह्व-
यन्ती। प्रावर्तिषि चाहमगुरूचन्दनप्रमुखानि होतुम्। अयासीच्च राजा
यथोक्तं देशम्। शङ्कापन्नमिव किञ्चित्सविस्मयं विचार्य तिष्ठन्तमब्रवम्-
'ब्रूहि सत्यं भूयोऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य। न चेदनेन
विश्रान्ते घूर्णिते विशाले दीर्घे दृष्टी नयने यस्याः सा। असकृत्-वारंवारम्। अभ्य-
चुम्बत्-चुम्बितवती मामिति शेषः।
(३१) एनां-कल्पसुन्दरीम् । कुरण्टकगुल्मगर्वे-पीतकुरवकस्तम्बमध्ये । अह-
मुपहारवर्मा । साधयेयं सम्पादयेयम् । साध्यं कार्यम् । उपसृत्य-प्राप्य । होमान-
लप्रदेशं-होमाग्निस्थानम् । अशोकेति-अशोकशाखायामाबद्धाम् । अचालयमवा-
दयम् । अकूजत्-अध्वनत् । सा-घण्टा । तं जनं-विकटवर्माणम् । कृतान्तदूती-
यमदूतिका । आह्वयन्ती-आकारयन्ती । यमदूती यथा आसन्नमृत्युं मानवं यमालयं
नेतुमाह्वयति तद्वदित्यर्थः । प्रावर्त्तिषि-प्रवृत्तोऽभवम् । होतुं अग्नौ प्रक्षेप्तुम् अया-
सीद्गच्छत् । राजा विकटवर्मा। यथोक्तं पूर्वकथितम्। शङ्कापन्नं सशङ्कितम् । येयं
जुहोति सा कल्पसुन्दरी अन्या वा काचिदिति सन्दिहानमिति भावः। सविस्मयं-
मन्त्रप्रभावादशक्यमपि सम्भवतीति साश्चर्यम् । विचार्य स्थिरीकृत्य । तिष्ठन्तम्-
दिया और अपने मुखकमलको, ऊंचा करके अपने विशाल नेत्रोंको बार-बार नचाते
हुए मेरा मुख बार-बार चूमने लगी।
(३१) उसके पश्चात् मैंने (उपहारवर्माने) उस रानीसे कहा-'तुम इसी पीले
कुरवक के स्तम्बमध्यमें तबतक बैठो जबतक मैं यहाँसे निकल करके अपने साध्यकार्यको
सम्पादित करता हूँ।' इस तरहसे उसे वहीं छोड़ करके मैं होमाग्निस्थानके समीप जा
पहुँचा और अशोक वृक्षकी डालीपर लटकी हुई घण्टीको बजा दिया। वह घण्टी ऐसी
बजी मानो वह यमराजकी दूती हो और राजा विकटवर्माको बुला रही हो। मैं अगुरु
चन्दन आदि प्रमुख होमकी सामग्रियोंको ले करके होम करनेमें प्रवृत्त हो गया। राजा
विकटवर्मा भी वहांपर आ गया। सशङ्कित तथा कुछ विस्मित हो करके खड़े होनेवाले
उस राजा विकटवर्मासे मैंने कहा-'सत्य कहिये, फिरसे भगवान् अग्निको साक्षी करके
सत्य कहिये कि यह अनुपम सौन्दर्य पा करके आप मेरी सौतों (सपत्नीजनों) के
[Header]
तृतीयाेच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २४६
रूपेण मत्सपत्नीरभिरमयिष्यसि, ततस्त्वयीदं रूपं संक्रामयेयम्' इति ।
(३२) स तदैव 'देव्येवेयम् नोपधिः' इति स्फुटोपजातसंप्रत्ययः
प्रावर्त्तत शपथाय । स्मित्वा पुनर्मयोक्तम्-'किं वा शपथेन । कैव हि
मानुषी मां परिभविष्यति । यद्यप्सरोभिः सङ्गच्छसे, सङ्गच्छस्व कामम् ।
कथय कानि ते रहस्यानि । तत्कथनान्ते हि त्वत्स्वरूपभ्रंशः' इति । सोऽ-
ब्रवीत् -'अस्ति बद्धो मत्पितुः कनीयान्भ्राता प्रहारवर्मा । तं विषान्नेन
व्यापद्याजीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहाध्यवसितम् । अनुजाय
प्रविष्टम्-विकटवर्माणमिति शेषः । भूयोऽपि-पुनरपि । चित्रभानुं वह्निम् । अनेन-
भाविना । ततः-तर्हि । संक्रामयेयं योजयेयम् ।
(३२) स विकटवर्मा । तदैव-श्रवणसमये एव । देवी महिषी कल्पसुन्दरीति
यावत् । इयं-या एवं कथयति सा । उपधिः-कपटम् । स्फुटेति-स्फुटं व्यक्तमुपजात
उत्पन्नः सम्प्रत्ययो विश्वासो यस्य सः । प्रावर्त्तत-प्रवृत्तोऽभवत् । शपथाय-शपथं
कर्तुम् । मया-कल्पसुन्दरीरूपधारिणा उपहारवर्मणेत्यर्थः । किं-किं कार्यमित्यर्थः ।
कैव हीति-मानुषीषु कापि तादृशी नास्ति या मां परिभवितुमर्हतीति भावः ।
सङ्गच्छसे सङ्गतो भवसि । कामं-यथेष्टम् । रहस्यानि-गोपनीयविषयाः । तत्कथ-
नान्ते-रहस्यप्रकाशानान्तरम् । त्वत्स्वरूपभ्रंशः-तव पूर्वाकारध्वंसः । भविष्यतीति
शेषः । स विकटवर्मा । बद्धः कारागारे संयतः । कनीयान्-कनिष्ठः । तं प्रहारवर्मा-
णम् । विषान्नेन-विषमिश्रितभोज्यद्रव्येण । व्यापाय-विनाश्य । अजीर्णदोषं प्रख्या-
पयेयम्-विसुचिका्रोगेणायं मृत इति प्रकाशयिष्यामीत्यर्थः । अध्यवसितं-निर्णी-
तम् । इत्येकं रहस्यम् । अनुजाय-स्वकनिष्ठभ्रात्रे । दण्डचक्रं-सेनापत्यम् । पुण्ड्रेति-
साथ रमण न करेंगे, तो मैं आपमें इस रूपको संक्रामित करू।'
(३२) यह बात श्रवण करके उस राजाको विश्वास हो गया कि बोलने वाली मूर्त्ति
रानी कल्पसुन्दरी ही है । इसमें जरा भी कपटजाल नहीं है । ऐसा प्रत्यक्ष विश्वास हो
जानेपर वह शपथादि करनेके लिए प्रवृत्त हो गया । मैंने हँस कर के कहा - 'शपथसे क्या
लाभ । कौनसी ऐसी नारी होगी जो मुझे पराजित कर सकेगी । यदि अप्सराओंसे
रमण करना चाहें तो खूब करें । अब बताइये कि आपके कौन-कौन रहस्य भेद हैं
(गुप्त बातें हैं) । इनको बतानेके बाद आपके स्वरूपका परिवर्त्तन होगा । उस नृपतिने
कहा-'मेरे पिताके छोटे भाई प्रहारवर्मा कारागारमें बन्द हैं । उन्हें जहर मिला हुआ
अन्न खिला करके मरवा डालूँगा और अजीर्ण दोषसे मर गये ऐसी प्रसिद्धि कर दूंगा ।
यह बात मन्त्रियोंके साथ निश्चित हो गयी है । यह प्रथम रहस्य है । अपने छोटे भाई
[Footer]
Nepal Sanskrit University, Balmeeki Campus, Kathmandu