सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२२४ दशकुमारचरितम् । [ उत्तरपीठिकायां

२२४ दशकुमारचरितम् । [ उत्तरपीठिकायां
स्मेरयोदीरितम्—'देवि, सदृशमाज्ञापयसि । भगवान्मकरकेतुरप्येवं
सुन्दर इति न शक्यमेव संभावयितुम् । अथ च विस्तीर्णेयमर्णवनेमिः।
क्वचिदीदृशमपि रूपं दैवशक्त्या संभवेत् । अथ तु यद्येवंरूपो रूपानुरूप-
शिल्पशीलविद्याज्ञानकौशलो युवा महाकुलीनश्च कश्चित्संनिहितः स्यात्,
स किं लप्स्यते' इति ।
(१३) तयोक्तम्—'अम्ब, किं ब्रवीमि । शरीरं हृदयं जीवितमिति
सर्वमिदमल्पमनर्हं च । ततो न किंचिल्लप्स्यते । न चेदयं विप्रलम्भस्त-
स्यामूष्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवेत्तथानुग्रहः कार्यः' इति ।
यति । आदृतवती आदरं दर्शितवती । व्याहृतवती उक्तवती । मया वृद्धयेत्यर्थः।
स्मेरया सहास्या। सदृशं युक्तम् । मकरकेतुर्मदनः। एव एतादृशः । अर्णवनेमिः
पृथिवी । क्वचित्-कुत्रापि । अथ तु-आस्ताम् । एवंरूपः एतादृशः । रूपानुरूपेति-
रूपस्य सौन्दर्यस्यानुरूपं सदृशं शिल्पं कलाविद्या, शीलं स्वभावः, विद्या अष्टादश
प्रकारा, ज्ञानं लिप्यादिज्ञानं कौशलं नैपुण्यञ्च यस्यासौ । युवा तरुणः। महाकु-
लीनः उच्चवंशोद्भवः । सन्निहितः निकटवर्त्ती। स तादृशो युवा। किं लप्स्यते-
चित्रदर्शनसन्तुष्टाया भवत्याः सकाशात् कं पुरस्कारं प्राप्स्यतीत्यर्थः।
(१३) तया राजपत्न्या । शरीरं मम देहं हृदयं चित्तं जीवितं प्राणांश्च,
लप्स्यत इत्यनेनान्वयः । सर्वमिदं-यन्मया शरीरादिके दास्यते तदखिलं, अल्पं
तुच्छं अनर्हं तस्यायोग्यञ्च । ततः-यतः शरीरादिकं मे तस्यायोग्यं तस्मात् । न
किञ्चिल्लप्स्यते-किमपि न प्राप्स्यति । विप्रलम्भः वंचनम्-त्वं यदि मिथ्या न
लोकमें है। किसने इस चित्रको खींचा है ?' इस प्रकारसे इस चित्रका आदर करने लगी
और मुझसे (वृद्धासे) पूछने लगी । मैंने मन्द हास्य करके कहा—'हे देवि ! आप युक्ति-
युक्त कहती हैं । क्योंकि भगवान् मकरकेतु (कामदेव) भी इतना सुन्दर है ऐसी
सम्भावना करनेका सामर्थ्य भी किसीमें नहीं है। फिर यह पृथ्वी बड़ी विस्तीर्णा है।
भाग्यवश कहीं पर ऐसा रूपवान् प्राप्त हो सकता है । और यदि ऐसा ही सौन्दर्यानुरूप-
वाला, शिल्पकलामें निपुण, शीलवान्, विद्यावान्, विज्ञानवेत्ता, कलाकौशलवाला, उच्च-
वंशवाला कोई युवक मिल गया तो वह क्या पुरस्कार पावेगा ?'
(१३) उस रानी कल्पसुन्दरीने उत्तर दिया—'हे अम्ब ! क्या कहूँ । मेरी देह,
हृदय, जीवन, ये सब उसके लिये थोड़े और अनुरूप नहीं होंगे । इससे-शरीरादिसे
अधिक और कुछ नहीं वह पा सकेगा । यह मैं प्रवञ्चना नहीं करती हूँ। अपितु,
जिस रीतिसे हो उस रीतिसे उस पुरुषके दर्शन करा करके मेरी आँखोंको चरि-

तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२५

भूयोऽपि मया दृढतरीकर्तुमुपन्यस्तम्—'अस्ति कोऽपि राजसूनुर्निगूढं
चरन् । अमुष्य वसन्तोत्सवे सहसखीभिर्नगरोपवनविहारिणी रतिरिव
विग्रहिणी यदृच्छया दर्शनपथं गतासि । गतश्चासौ कामशरैकलक्ष्यतां
मामन्ववर्त्तिष्ट । मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणाति-
शयैश्च प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासि-

कथयसि तर्हीति तात्पर्यम् । तस्य पूर्वोक्तस्य । अमुष्य-तरुणस्य । यथा-येन
प्रकारेण । इदं चक्षुर्मम नयनम् । चरितार्थं सार्थकम् । कृतकृत्यमिति यावत् ।
तथा तेन प्रकारेण । अनुग्रहः-कृपा । कार्यः विधेयस्त्वयेति शेषः । मया वृद्धये-
त्यर्थः । दृढतरीकर्तुं-त्वयि तस्या अनुरागं निश्चलीकर्तुम् । उपन्यस्तं कथितम् ।
निगूढं-सुगुप्तम् । अमुष्य-राजपुत्रस्य । नगरोपवनविहारिणी-पुरोद्यानविहरण-
शीला । विग्रहिणी-मूर्तिमती । यदृच्छया दैववशात् । दर्शनपथं-नयनमार्गं गता-
सि-दृष्टासीत्यर्थः । असौ राजपुत्रः । कामशरैकलक्ष्यतां मदनवाणवेध्यताम् । गत-
इत्यनुषज्यते । मां वृद्धामित्यर्थः । अन्ववर्त्तिष्ट-अनुसृतवान् । वां युवयोः । राज-
पत्न्यास्तव चेत्यर्थः । अन्योन्यानुरूपैः तुल्यरूपैः । प्रेर्यमाणया नोद्यमानया । तद्र-
चितैः तेन राजसूनुना निर्मितैः । कुसुमेति-कुसुमशेखरः आपीडः, स्रक् माल्यं
अनुलेपन गन्धादि तैः । उपासिता सेविता । सादृश्यं प्रतिकृतिम् । स्वं स्वकीयम् ।
अनेन राजपुत्रेण । अभिलिख्य चित्रयित्वा । त्वदिति तव समाधेश्चित्तैकाग्रयस्य
गाढत्वं गभीरत्वं द्रष्टुमित्यर्थः । एषः-यस्त्वया प्रागेवोक्तोऽर्थो विषयः । नि-
श्चितः नियतो दृढ इति यावत् । अमुष्य राजसूनोः । अतिमानुषेति-अतिमानुषः

तार्थ करनेकी दया करो।' तत्पश्चात् मैंने (वृद्धाने) उस बातको पुष्ट करनेके निमित्त
रानीसे (अर्थात्—रानीका आप पर प्रेम है कि नहीं इसे जाननेके लिये) कहा—'हे
कल्पसुन्दरी! इस नगरमें कोई राजपुत्र गुप्त वेषमें घूमता है। वसन्तोत्सवके समय अपनी
सखी-सहेलियोंके सहित अपनी विरोधिनी रतिदेवीके सदृश सुन्दर रूपवाली अपनी
इच्छासे नगरीकी वाटिकाओंमें विचरण करनेवाली आप उस राजपुत्रद्वारा देखी गयी हैं।
आपको देखते ही वह राजपुत्र कामवाणसे वेधित हो करके मेरे समीप आया। मैंने भी
सोचा कि आप दोनोंके समान स्वरूप हैं, अन्योंमें अप्राप्य आकृतियाँ हैं, समान अति-
शय गुण हैं, अतः उससे प्रेरित हो करके मैंने उस राजपुत्रके द्वारा रचित् आपीड्, माला,
गन्धादि अनुलेपनद्वारा आपकी दीर्घकालसे सेवा की है। अपनी प्रतिकृति आपको दिखा-
नेके हेतु उस राजपुत्रने, अपने हाथोंसे अपनी तस्वीर खींच करके, आपके प्रति अपना
गम्भीर प्रेम प्रकट करनेके लिए ही, मेरे द्वारा भेजी है। यदि आपका अभीष्ट निश्चितरूपसे