सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२१४ दशकुमारचरितम्। [ उत्तरपीठिकायां

२१४ दशकुमारचरितम्। [ उत्तरपीठिकायां
च प्रियसखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत् ।
( १ ) तस्मिन्नेव च समये मालवेन मगधराजस्य महज्जन्यमजनि।
तत्र लेशतोऽपि दुर्लक्षां गतिमगमनमगधराजः । मैथिलेन्द्रस्तु मालवेन्द्र-
प्रयत्नप्राणितः स्वविषयं प्रतिनिवृत्तो ज्येष्ठस्य संहारवर्मणः सुतैर्विकटवर्म-
प्रभृतिभिर्व्याप्तं राज्यमाकर्ण्य स्वस्त्रीयात्सुह्मपतेर्दण्डावयवमादित्सुरटवीपथ-
मवगाह्य लुब्धकलुप्तसर्वस्वोऽभूत् ।
( ३ ) तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिनी वनचरशरवर्ष-
नीयम् । प्रथमगर्भेण अभिनन्दितां सुशोभिताम् । तां वसुमतीम् । भर्त्रा स्वामिना
प्रहारवर्मणेत्यर्थः । पुष्पपुरं राजहंसराजधानीम् ।
( २ ) मालवेन मालवदेशाधिपतिना मानसागख्येन सह । मगधराजस्य राज-
हंसस्य । जन्यं युद्धम् । तत्र युद्धे । लेशतोऽपि दुर्लक्षां किञ्चिदपि निश्चेतुमशक्याम्।
गतिं दशाम् । सारथिशून्यत्वाद् अश्वाः राजहंसस्य रथं कुत्र निन्युरिति न केनापि
विदितमिति भावः। मैथिलेन्द्रः प्रहारवर्मा । मालवेन्द्रस्य मानसारस्य प्रयत्नेन
चेष्टया प्राणितो जीवितो रक्षित इति यावत् । स्वविषयं स्वदेशम् । ज्येष्ठस्य
भ्रातुरिति शेषः । व्याप्तमाक्रान्तम् । स्वस्त्रीयाद् भागिनेयात् । सुह्मपतेः सुह्याख्य-
देशाधिपात् । दण्डावयवं दण्डस्य संग्रामस्यावयवमुपकरणं हस्त्यश्वादिकम् ।
आदित्सुर्गृहीतुमिच्छुः । अटवीपथमरण्यमार्गम् । अवगाह्य प्रविश्य लुब्धकैर्व्याधैः
लुप्तं हृतं सर्वस्वं यस्य तादृशः ।
( ३ ) तत्सुतेन प्रहारवर्मपुत्रेण । हस्तवर्त्तिना मम हस्तस्थितेन । एकाकिनी
लिये प्रियंवदा अपने स्वामीके साथ पुष्पपुरको गयी ।
( २ ) उसी समय मालवदेश के अधिपति मानसार के साथ मगधराज राजहंस का
युद्ध आरम्भ हो गया । उस युद्धमें मगधराज राजहंस कुछ भी वर्णन करने की अयोग्य
परिस्थिति में प्राप्त हुए । मगधराज राजहंस का सहायताकारी मैथिल देश का अधिपति
प्रहारवर्मा मालवदेश के अधिपति मानसार की दया से येन-केन-प्रकारेण अपने जीवित
प्राणों को लेकर अपने देश को लौट गया । वहाँ लौटकर उसने ( प्रहारवर्मा ने ) सुना
कि उसका राज्य उसके बड़े भाई संहारवर्मा के पुत्र विकटवर्मा आदि ने आक्रान्त कर
लिया है । ऐसा ज्ञात कर उस प्रहारवर्मा ने अपने बहिन के पुत्र ( भानजे ), जिसका
नाम सुह्मपति था, से सेना सामग्री ( हाथी घोड़े आदि ) की सहायता लेने की इच्छा की
और अरण्य के मार्ग से अपने भाजने के पास जा रहा था कि अरण्यवासी कोल-भीलों ने
उसके पास जो भी था लूट लिया ।
( ३ ) मेरी गोदीमें प्रहारवर्मा का छोटा शिशु था ! कोल-भीलों के बाणोंकी वर्षा के

तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । २१५
भयपलायिता वनमगाहिषि । तत्र च मे शार्दूलनखावलीढनिपतितायाः
पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत । तच्छवा
कर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् । भिल्लदारकैः
स बालोऽपाहारि ।
( ४ ) सा त्वहं मोहसुप्ता केनापि वृष्णिपालेनोपनीय स्वं कुटीरमावेश्य
कृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया याव-
द्व्याकुलीभवामि तावन्ममैव दुहिता सह यूना केनापि तमेवादेशमागमत् ।
असहाया । वनचरेति-वनचराणां किरातानां शरवर्षात् बाणनिक्षेपाद् भयेन पला-
यिता अहमिति शेषः । अगाहिषि प्राविक्षम् । तत्र वने । शार्दूलस्य व्याघ्रस्य
नखैः अवलीढा विद्धा अतएव निपतिता भूमाविति शेषः, तस्यास्तथाभूतायाः ।
मे इत्यस्य विशेषणम् । पाणिभ्रष्टो हस्तच्युतः । कपिलाशवस्य मृतधेनोः । क्रोडं
वक्षःस्थलम् । अभ्यलीयत यत्र लीनोऽभवत् । तच्छवं कपिलाशवं व्याकर्षतीति
तस्य । असून् प्राणान् । इषुश्चाणः । इष्वसनेति-अस्यतेऽनेनेति असनम्-इषोर-
सनमिष्वसन धनुस्तदेव यन्त्रस्तस्मान्मुक्तस्त्यक्तः । इषुरित्यस्य विशेषणम् । अलि-
क्षत् आस्वादयत्-प्राणान् जहारेत्यर्थः । लिह आस्वादे इत्यस्य धातोलुँङ् । भिल्ल-
दारकैः किरातबालकैः । अपाहारि अपहृतः ।
( ४ ) मोहसुप्ता मोहेन मूर्छ्या सुप्ता निद्रिता । वृष्णिपालेन मेषपालेन ।
'मेष वृष्णय एडका' इत्यमरः । उपक्रान्तव्रणा चिकित्सितव्याघ्रकृतक्षता । स्वभर्तु-
र्विदेहराजस्य । उपतिष्ठासर्गन्तुमिच्छुः । सार्थघाते संघभ्रंशे । राजपुत्रस्य विदेह-
राजापरपुत्रस्य । तेन वनचरेण । उपयन्तुं चिन्तितायाः परिणेतुमभिलषितायाः ।
भयसे मैं अकेली उसे (शिशुको) लिये हुए जंगलमें घुस गयी । उस जंगलमें मैं शेरके
झपटनेसे-उसके नाखूनकी खरोंच आदिके लगनेसे-भूमिपर गिर पड़ी । मेरे हाथसे
वह शिशु छूट करके किसी कपिला धेनु (गौ) के मृत शवकी गोदमें गिर पड़ा । जब वह
शेर उस कपिला गौके मृत शवकी ओर आकर्षित हो रहा था, ठीक उसी समय
किसीके धनुषसे निकले हुए बाणके द्वारा वह (शेर) मार डाला गया । भीलके
बालकोंके द्वारा वह शिशु भी अपहृत कर लिया गया ।
(४) मुझे, जो मैं शेरके आक्रमणसे मूर्च्छित हो गयी थी, एक गोप निश्चेष्टावस्थामें
ही अपनी कुटीमें ले गया । वहाँ ला करके उस गोपने दया करके मेरी चिकित्सा आदि
की तथा सेवा-शुश्रूषा करके मुझे स्वस्थ कर दिया । स्वस्थ होनेपर मैं (वृद्धा) अपने
स्वामी विदेहाधिपतिके समीप जानेके लिए सहायताहीन होनेसे जब व्याकुल हो रही थी,
Nepal Sanskrit University, Balmeeki Campus, Kathmandu