सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२०० दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२०० दशकुमारचरितम् । [ उत्तरपीठिकायां
पर्यङ्कतले दक्षिणपादपाष्ण्र्यधोभागानुवलितेतरचरणाग्रपृष्ठम् , ईषद्विवृत-
मधुरगुल्फसंधि, परस्पराश्लिष्टजङ्घाकाण्डम् , आकुञ्चितकोमलोभयजानु,
किंचिद्वेल्लितोरुदण्डयुगलम् , अधिनितम्बस्रस्तमुक्तैकभुजलताग्रपेशलम् ,
अपाश्रयान्तनिमिताकुञ्चितेतरभुजलतोत्तानतलकरकिसलयम् , आभुग्नश्रो-
णिमण्डलम्, अतिश्लिष्टचीनांशुकान्तरीयम्, अनतिवलिततनुतरोदरम् ,
अतनुतरनिःश्वासारम्भकम्पमानकठोरकुचकुड्मलम् , आतिरश्चीनबन्धुर-
खट्वायाम् । दक्षिणेति-दक्षिणपादस्य पाष्र्णेः पश्चाद्भागस्याधोभागेन निम्नप्रदेशेन
अनुवलितं युक्तं इतरचरणस्य वामपादस्याग्रपृष्ठमग्रभागोपरितलं यस्मिन् कर्मणि
तद् यथा-तथेति इदं वक्ष्यमाणानि च क्रियाविशेषणानि । ईषदिति-ईषद्विवृतः
किञ्चित्प्रकटितो मधुरो मनोहो गुल्फयोर्घुटिकयोः सन्धिः संयोगो यस्मिन् तद्
यथा तथा । परस्परेति-परस्परमन्योन्यमाश्लिष्टः संलग्नो जंघाकाण्डो यस्मि-
स्तद् यथा तथा। आकुञ्चितेति-आकुञ्चिते ईषद्वक्रीकृते कोमले उभयजानुनी
यस्मिंस्तद् यथा तथा। किञ्चिदिति-किञ्चिद्वेल्लितमीषत्सङ्कुचितमूरुदण्डयुगलं
यस्मिंस्तद् यथा तथा । अधिनितम्बेति-अधिनितम्बं नितम्बस्योपरिस्रस्तं शि-
थिलं यथा स्यात्तथा मुक्तं निःक्षिप्तं यदेकस्या भुजलताया अग्रम्ग्रभागस्तेन पेशलं
मनोज्ञं यथा तथा । अपाश्रयेति-अपाश्रयस्य पर्यङ्कशिरोभागस्यान्ते प्रान्ते निमितं
निःक्षिप्तम् आकुञ्चितेतरायाः प्रसारिताया भुजलताया बाहुवल्लयाः, उत्तानं तलं
यस्य तादृशः करः किसलयमिव करकिसलयं यस्मिंस्तद् यथा तथा। आभुग्नश्रो-
णिमण्डलं ईषद्वक्रीकृतनितम्बम् । अतिश्लिष्टेति-अतिश्लिष्टं अतिशयेन शरी-
रलग्नं चीनांशुकस्य चीनदेशीयसूक्ष्मवस्त्रस्यान्तरीयमधोवस्त्रं यस्मिंस्तद् यथा
तथा। अनतीति-अनतिवलितंमीषत्कम्पितं तनुतरमतिशीणमुदरं कुक्षिदेशो
यस्मिंस्तत्तथा तथा । अतनुतरेति-अतनुतरेण दीर्घेण निःश्वासारम्भेन कम्प-
माने चंचले कठोरे अतिदृढे कुचकुड्‌मले स्तनमुकुले यस्मिंत्तद्यथा तथा निद्रि-
मनोहर गुल्फोंकी टेहुनेकी सन्धि प्रकटित है। थोड़े संकुचित एवं परस्पर सटे हुए
जंघास्तम्भोंसे युक्त और थोड़े संकुचित कोमल दोनों जानुओं ( घुटनों ) से युक्त, एवं कुछ
संकुचित ऊरुदण्डों ( जांघों ) से परिव्याप्त तथा नितम्ब भागके ऊपर एक शिथिल
लतारूपी हस्त बड़ा सुन्दर दीख रहा है। पलंगके शिरोभागमें संकुचित करके धरा
हुआ दूसरा लतारूपी हाथ जिसका तल ( हथेली ) उत्तान है। पल्लवके समान सुन्दर
दिखायी दे रहा है। जिसने अपना नितम्बस्थल थोड़ा संकुचित कर लिया है। जिसके
शरीरके अधोभागमें अतिशय करके चीन देशके बारीक रेशमी वस्त्र शोभा दे रहे हैं।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

शिरोधरोद्देशदृश्यमाननिष्टप्ततपनीयसूत्रपर्यस्तपद्मरागरुचकम्, अर्धल-
दयाधरकर्णपाशनिभृतकुण्डलम्, उपरिपरावृत्तश्रवणपाशरत्नकर्णिकाकिरण-
मञ्जरीपिञ्जरितविषमव्याविद्धाशिथिलशिखण्डबन्धम्, आत्मप्रभापटलदु-
र्लक्ष्यपाटलोत्तराधरविवरम्, गण्डस्थलीसंक्रान्तहस्तपल्लवदर्शितकर्णावतं-
सकृत्यम्, उपरिकपोलादर्शवलनिषक्तचित्रवितानपत्रजातजनितविशेषक-

ताया निःश्वासाधिक्यादतनुतरेणेति । आतिरश्चीनेति-आतिरश्चीने ईषद्वक्रे बन्धुरे
उन्नतानते शिरोधरोद्देशे ग्रीवाप्रदेशे दृश्यमानं लक्ष्यमाणं निष्टप्ते गलिते तप-
नीयसूत्रे सुवर्णतन्तौ पर्यस्तं लम्बमानं पद्मरागरुचकं पद्मरागनिर्मितग्रीवाभरणवि-
शेषो यस्मिंस्तद् यथा तथा । अर्धलक्ष्येति-अर्धलक्ष्यः अर्धदृश्यमानः अधरः
अधोभागो यस्य तादृशमिति कुण्डलविशेषणं कर्णपाशे शोभनकर्णे निभृतं
निश्चलं कुण्डलं यस्मिन् कर्मणि तद् तथा तथा । उपरीति-उपरि ऊर्ध्वदेशे
परावृत्तः समुत्तानो यः श्रवणपाशः कर्णपाशस्तस्य रत्नकर्णिकायाः रत्ननिर्मित-
कर्णाभरणस्य किरणमञ्जरीभिर्मयूखमालाभिः पिञ्जरितः पिञ्जीकृतः विषमव्या-
विद्धः । विषमप्रकारेण बद्धः वेणीकृत इति यावत् अतएवाशिथिलः अस्तस्तः
शिखण्डबन्धः केशकलापो यस्मिंस्तत्तथा तथा। आत्मप्रभेति-आत्मनः स्वस्यैव
प्रभापटलेन कान्तिनिचयेन दुर्लक्ष्यमविभाव्यं पाटलस्य श्वेतरक्तस्य उत्तराधर-
स्योष्ठस्य विवरं छिद्रं यस्मिंस्तत्तथा तथा । गण्डस्थलीति-गण्डस्थल्यां कपोल-
देशे संक्रान्तो मिलितो यः करपल्लवः करकिसलयं तेन दर्शितं प्रकटितं कर्णा-
वतंसस्य कर्णभूषणस्य कृत्यं कार्यं यस्मिंस्तत्तथा तथा । कपोलसंक्रान्तकर एव
तस्याः कर्णपल्लवोऽभवदिति भावः । उपरीति-उपरिकपोलः उत्तानगण्डप्रदेशः
स एवादर्शो मुकुरस्तस्य तले निषक्तेन प्रतिबिम्बितेन चित्रवितानस्य नानावर्णो-
ल्लोचस्य पत्रजातेन पत्राकारचिह्नसमूहेन जनिता उत्पादिता विशेषकक्रिया

जिसका अतिक्षीण अक्षि प्रदेश कुछ कम्पित हो रहा है। दीर्घ निःश्वासोंके आनेसे कठोर
कुचमंडल कम्पमान हो रहा है। (क्योंकि सोनेमें सांस वेगसे चलती है) जिसके गलेमें
पद्मराग मणिकी माला है जो, सुवर्णके तारोंसे गूंथी हुई कुछ इधर-उधर तिरछी पड़ी हुई है।
जिसके कानोंका आधा हिस्सा दिखाई दे रहा है ऐसे सुन्दर कानोंमें जिसने कुण्डल
धारण किये हैं। जिसने अपने कानोंके ऊपरी भागमें रत्ननिर्मित कर्णिकाभूषण धारण
किया है जिसकी किरणजालोंकी प्रभा से, विषम रूपसे बांधे गये जिससे कुछ ढीले भी
पड़ गये हैं ऐसे केशकलापोंकी, शोभा (कृष्णत्व) को पीला बना दिया है। जिसने
अपनी कान्तिके पुञ्जसे पाटल (श्वेतरक्त) अपने ओष्ठविवरको दुर्लक्ष्य बना दिया है।