सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१७६ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

१७६ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

बन्धमकरवम्—‘अजिनरत्नमुदारकान्मुषित्वा मया तुभ्यं देयम्, यदि प्रति-
दानं रागमञ्जरी' इति । सोऽहं संप्रतिपन्नायां च तस्यां तथा तदर्थं संपाद्य
मद्गुणोन्मादिताया रागमञ्जर्याः करकिसलयमग्रहीषम् । यस्यां च निशि
चर्मरत्नस्तेयवादस्तस्याः प्रारम्भे कार्यान्तरापदेशेनाहूतेषु शृण्वत्स्वेव नाग-
रमुख्येषु मत्प्रणिधिर्विमर्द्दकोऽर्थपतिगृह्यो नाम भूत्वा धनमित्रमुल्लङ्घ्य
बह्वतर्जयत् । उक्तं च धनमित्रेण—‘भद्र, कस्तवार्थो यत्परस्य हेतोर्मामा-
क्रोशसि । न स्मरामि स्वल्पमपि तवापकारं मत्कृतम्' इति । स भूयोऽपि
तर्जयन्निवात्रवीत्—‘स एष धनगर्बो नाम, यत्परस्य भार्या शुल्कक्रीतां
पुनस्तत्पितरौ द्रव्येण विलोभ्य स्त्रीचिकीर्षसि । ब्रवीषि च—‘कस्तवाप-

टय। सहति शेषः। पणबन्धं शुल्कादिदानव्यवस्थाम् । उदारकात् धनमित्रात् ।
मुषित्वा चोरयित्वा । प्रतिदानमिति-विनिमयरूपेण रागमञ्जरीं ददासि चेदित्यर्थः ।
सम्प्रतिपन्नायां स्वीकृतायाम् । तदर्थं तत्प्रयोजनं चर्मभस्त्रिकादानरूपम् । मद्गुणो-
न्मादिताया-मद्गुणमुग्धायाः । करकिसलयं पाणिपल्लवम् । चर्मरत्नस्तेयवादः-
चर्मभस्त्रिकाचौर्यवार्त्ताप्रचारः, अभूदिति शेषः । तस्याः रात्रेः । प्रारम्भे-प्रदोषे
इत्यर्थः । कार्यान्तरापदेशेन-अन्यकार्यच्छलेन । आहूतेषु-आकारितेषु । नागर-
मुख्येषु-नगरप्रधानपुरुषेषु । मत्प्रणिधिर्मम गुप्तचरः । अर्थपतिगृह्यः अर्थपतिपक्षी-
यः। नृमेति अलीकसम्भावनायाम् । उल्लंघ्य मर्यादामतिक्रम्य । बहु-अनेक-
प्रकारम् । अतर्जयत् भीषयामास । अर्थः प्रयोजनम् । हेतोः निमित्तम् । आक्रो-

पणबन्ध' शुल्कादिदान व्यवस्था की कि,–'धनमित्रसे चुराकर 'चर्मरत्नभस्त्रिका' को मैं
तुम्हें दूंगा, यदि तुम मुझे उसके विनिमयमें रागमञ्जरी दो' उस काममञ्जरीके स्वीकार
करनेपर मैने उसे चर्मरत्नभस्त्रिका का प्रबन्ध करके मेरे गुणोंसे उन्मुग्ध ( प्रफुल्लित ) राग-
मञ्जरीके पाणिपल्लवोंको ग्रहण किया। जिस रातमें चर्मरत्नभस्त्रिकाकी चौर्यवार्त्ताका प्रकाश
होनेवाला था, उसके पूर्व में ही अन्य कार्यके छलसे नगरके प्रधान पुरुषोंको एकत्र करके
मेरे गुप्तचर विमर्दकने जो अर्थपतिका पक्षीय हो गया था, धनमित्रका अनादर किया और
अनेक प्रकारसे डराया। धनमित्रने कहा—'इसमें आपका क्या प्रयोजन है जो आप दूसरे
के निमित्त मुझे गाली देते हैं। मेरे द्वारा आपका स्वल्प भी अपकार हुआ हो इसका भी
मुझे स्मरण नहीं है।' वह विमर्दक पुनः डरवाते हुए धनमित्रसे बोला-'यही धनका गर्व
है, कि दूसरेकी स्त्रीको जो धनके द्वारा खरीदी गयी थी । फिरसे उसके माता-पिताको
धनके लोभमें फंसाकर उसी ( परस्त्री ) को स्वीकार करना चाहते हो' । और कहते हो-

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७७
कारो मत्कृतः' इति, ननु प्रतीतमेवैतत् 'सार्थवाहस्यार्थपतेर्विमर्दको बहि-
श्चराः प्राणाः' इति ।
( ४५ ) सोऽहं तत्कृते प्राणानपि परित्यजानि । ब्रह्महत्यामपि न
परिहरामि । 'ममैकरात्रजागरणप्रतीकारस्तवैष चर्मरत्नाहंकारदाहज्वरः'-
इति । तथा ब्रुवाणश्च पौरमुख्यैः सामर्षं निषिद्ध्यापवाहितोऽभूत् । इयं च
वार्ता कृत्रिमार्तिना धनमित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य पार्थिवाय
निवेदिता । स चार्थपतिमाहूयोपह्वरे पृष्टवान् 'अङ्ग, किमस्ति कश्चिद्विम-
र्दको नामात्र भवतः' इति । तेन च मूढात्मना 'अस्ति देव, परं मित्रम्' ।
शसि निन्दसि । मत्कृतं मया कृतम् । अपकारमिति स्मरामीत्यस्य कर्म । स विम-
र्दकः । । धनगर्वः अर्थमदः । शुल्कक्रीतां अर्थविनिमयेन गृहीताम् । द्रव्येण
अर्थेन । स्वीचिकीर्षसि स्वीकर्त्तुमिच्छसि । प्रतीतं प्रसिद्धम् । बहिश्चराः प्राणाः
परममित्रम् ।
( ४५) सोऽहं-विमर्दकः । तत्कृते अर्थपतिनिमित्तम् । परिहरामि त्यजामि ।
ब्रह्महत्यामपि न गणयामीति भावः । एकरात्रेति-एकरात्रं जागरो जागरणमेव
प्रतीकारो वैरशुद्धिर्यस्य सः । चर्मरत्नेति-चर्मरत्नस्याहङ्कारः मम चर्मरत्नमस्तीति
गर्वः स एव दाहज्वर ऊष्मा । तव चर्मरत्नापहरणं ममैकरात्रजागरणसाध्यं तेन च
ते चर्मरत्नाहङ्कारमपनयामीति भावः । ब्रुवाणः वदन् । सामर्षं सक्रोधम् । अपवा-
हितः दूरीकृतः । कृत्रिमार्त्तिना-कृत्रिमा स्वाभाविकेतरा आर्त्तिः पीडा यस्य तेन ।
आदौ प्रथमम् । उपक्षिप्य प्रस्तूय । पार्थिवाय राज्ञे । निवेदिता विज्ञापिता वार्त्तेति
शेषः । स पार्थिवः । उपह्वरे एकान्ते । तेन अर्थपतिना । मूढात्मना अल्पबुद्धिना ।
मैंने आपका कौनसा अपकार किया है।' यह तो प्रसिद्ध ही है कि, मैं सार्थवाह अर्थपतिका
परममित्र हूं।
( ४५ ) 'मैं उसके ( अर्थपतिके ) लिये प्राणोंको भी त्याग सकता हूँ । ब्रह्महत्याको
भी नहीं गिनता हूँ मेरे एक रातका जागरण तुम्हारे चर्मरत्नरूपी अहंकारके दाहज्वरकी
वैरशुद्धिके लिए काफी है।' ऐसी क्रोधपूर्ण वाणी बोलनेवाले विमर्दकको मुख्यनगरवासियोंने
मनाकर हटा दिया । राजासे, उस चर्मरत्नभस्त्रिकाकी चोरीकी वार्ताका प्रथम उपक्षेप
करके बनावटी पीड़ाका बहाना करनेवाले धनमित्रने निवेदन कर दिया । उस राजाने अर्थ-
पतिको एकान्तमें बुला करके पूछा- हे अङ्ग ! ( मित्र ! ) विमर्दक नामक कोई व्यक्ति
तुम्हारे यहां है ?' उस मन्दबुद्धिने कहा-'हे देव ! मेरा परम मित्र है।' उससे आपका