सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१६४ दशकुमारचरितम् । [ उत्तरपीठिकायां

१६४ दशकुमारचरितम् । [ उत्तरपीठिकायां
पत्तिः' इति । सोऽभ्यधत्त—'न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञायोप-
यम्य जीवितुम् । अतोऽस्यामेव यामिन्यां देशमिमं जिहासासि । को वा-
हम् । यथा त्वमाज्ञापयसि' इति । अथ मयोक्तम्—'अस्त्येतत् । स्वदेशो
देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य । किन्तु बालेयमनल्पसौ-
कुमार्या । कष्टाः प्रत्यवायभूयिष्ठाश्च कान्तारपथाः । शैथिल्यमिव किञ्चि-
त्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन संभाव्यते । तत्सहानया सुखमि-
हैव वस्तव्यम् । एहि । नयावैनां स्वमेवावासम्' इति ।
उपश्लिष्य-आलिङ्ग्य । अभाषिषि-उक्तवानस्मि । प्रतिपत्तिः-कर्त्तव्यबुद्धिः ।
अभ्यधत्त अकथयत् । एनां-कुबेरदत्तकन्यां । पित्रोः तन्माता पित्रोः । अनभ्यनु-
ज्ञाय अननुमत्या । उपयम्य विवाह्य । जिहासासि त्यक्तुमिच्छामि । को वाहं
एतत्करणे मम प्रभुत्वं नास्तीत्यर्थः । अस्त्येतत्-सत्यमेव त्वयोक्तम् । देशान्तरं
परदेशः । गणना विचारः । विदग्धस्य चतुरस्य । विद्वान् सर्वत्र पूज्यत इति भावः ।
बाला कन्या । अनल्पसौकुमार्या-अतिकोमला । कष्टाः क्लेशजनकाः । प्रत्यवाय-
भूयिष्ठाः-विघ्नबहुलाः । कान्तारपथाः । अरण्यमार्गाः । शैथिल्यमिवेति-अनर्थेन
विपत्पूर्णेन ईदृशेन पूर्वोक्तप्रकारेण देशत्यागेन स्वदेशं त्यक्त्वाऽऽन्यत्रगमनेन
प्रज्ञासत्त्वयोर्बुद्धिसामर्थ्ययोः किञ्चित् ईषत् शैथिल्यं ह्रास इव सम्भाव्यते विवि-
च्यते । बुद्धिहीना दुर्बलाश्च देशत्यागिनो भवन्तीति भावः । तत् तस्मात् कार-
णात् । अनया त्वद्भार्यया । सहैव अस्यामेव नगर्याम् । वस्तव्यं वसतिः कर्त्तव्या।
नयाव-प्रापयाव आवामिति शेषः । आवासं गृहम् ।
क्या चाहते हो ? उसने कहा—'इसके माता-पिताकी अनुमति पाये बिना इसके साथ
विवाह करके मैं जीवित नहीं रह सकता । अत एव इसी रातको यह देश त्यागकर मैं
चल देना चाहता हूँ। अथवा मैं (अपने मनकी करने वाला) हूँ ही कौन ? आप जैसी
आज्ञा दें, वैसा करूँ।' तब मैने कहा—'तुम्हारा कथन यथार्थ है। 'स्वदेश' और 'विदेश'
में समझदार लोग कोई अन्तर नहीं मानते । किन्तु, यह युवती बड़ी ही सुकुमार है।
वनके मार्ग बड़े दुखदायी और विविध विघ्न-बाधाओंसे भरे रहते हैं। तुम्हारे इस तरह देश
त्याग देनेपर लोग बुद्धि और बलका शैथिल्य ही समझेंगे । इसलिए तुम इसके साथ
सुखपूर्वक यहीं रहो । चलो, इसे अपने घर ले चलें।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६५
( ३४ ) अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयैवाप-
सर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव । ततो निष्पत्य क्वचिन्मुषितकं
निधाय समुच्चलन्तौ नागरिकसंपाते मार्गपार्श्वशायिनं कंचिन्मत्तवारण-
मुपरिपुरुषमाकृष्याध्यारोहाव । ग्रैवेयप्रोतपादयुगलेन च मयोत्थाप्यमान
एव पतिताधोरणपृथुलोरःस्थलपरिणतः पुरीतलतातपरीतदन्तकाण्डः स
रक्षिकवलमक्षिणोत् । अध्वंसयाव चामुनेवार्थपतिभवनम् । अपवाह्य च
(३४) अविचारानुमतेन-निर्विचारस्वीकृतेन । तेन धनमित्रेण-तद्वारेणे-
त्यर्थः । एनां कन्याम् । तद्गृहं-तस्याः कन्याया गृहम् । उपनीय-नीत्वा । अपस-
र्पभूतया-चररूपया । अपसर्पश्चरः स्पशं इत्यमरः । तत्र कुबेरदत्तगृहे । मृद्भा-
ण्डेति-मृद्भाण्डानामवशेषो यस्मिंस्तद् यथा तथा । एवं चोरितं येन मृत्पात्रा-
ण्येव अविशिष्टानीति भावः । अचोरयाव आवामपहृतवन्तौ । ततस्तस्माद्भग-
रात् । निष्पत्य-निर्गत्य । मुषितकं-अपहृतद्रव्यम् । निधाय-संस्थाप्य । समु-
च्चलन्तौ-स्वगृहं गन्तुमुद्यतौ । नागरिकसंपाते-नगररक्षणां संमर्दे सति । मार्गपा-
र्श्वशायिनं पथिप्रान्तशायितम् । मत्तवारणं मत्तहस्तिनम् । अध्यारोहावेत्यस्याः
क्रियायाः कर्म । उपरिपुरुषम्-उपरि हस्तिपृष्ठे स्थितं पुरुषं-आधोरणमित्यर्थः ।
आकृष्येति क्रियायाः कर्म आकृष्य-निपात्य ग्रैवेयेति-ग्रैवेये कण्ठरज्ज्वां प्रोतं प्रवे-
शितं पादयुगलं येन तेन । उत्थाप्यमानः ऊर्ध्वमुत्क्षिप्यमानः । गज इत्यस्य विशेष-
णम् । पतितेति-पतितस्य गजपृष्ठादाकृष्टस्याधोरणस्य हस्तिपकस्य पृथुले विस्तृते
उरःस्थले वक्षसि परिणतस्तिर्यग्दन्तप्रहारी । तिर्यग्दन्तप्रहारस्तु गजः परिणतो मत
इति हलायुधः । पुरीतिदिति पुरीतलतया अन्तर्बल्या परीतं वेष्टितं दन्तकाण्डं
यस्य सः । स-गजः । रक्षिकवलं-नगररक्षिसैन्यम् । अक्षिणोत् क्षयमजयत् ।
(३४) बिना सोचे विचारे उसने मेरी बात मान ली तत्काल सुन्दरीको उसके घर
पहुँचा दिया तथा उसी नारीको अगुआ बनाकर उस घरके मृद्भाण्डमें जो अवशिष्ट धन था,
सो भी, हम दोनोंने चुरा लिया। वहां से चलकर चोरी करनेके सब उपकरण एक
स्थानपर रख दिये और आगे बढ़े। मार्गमें एक जगह मनुष्योंकी बड़ी भीड़ एकत्रित थी ।
पास ही राहके किनारे एक मतवाला हाथी पड़ा सो रहा था । उसपर सवार फीलवानको
पकड़कर हम दोनों उस हाथी पर चढ़ गये। मैंने तत्काल उसके गलेमें डाली हुई रस्सीमें
दोनों पांव डालकर जैसे ही उठाया, उसी समय उसने हाथीवान को जमीनमें गिरा दियऔर उसकी छातीमें अपना दांत गड़ाकर अतड़ियां निकाल लीं और उन्हें दांतमें लपेटकर