दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
१५२ दशकुमारचरितम् । [ उत्तरपीठिकायां
१५२ दशकुमारचरितम् । [ उत्तरपीठिकायां
पासादिदुःखः स्थानासनशयनभोजनेष्वपि द्विप इव नवग्रहो बलवतीभिर्य-
न्त्रणाभिरुद्वेजितः प्रत्यवामृशम् । अहमस्मि द्विजातिः । अस्वधर्मो ममैष
पाषण्डपथावतारः । श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रावर्तन्त ।
मम तु मन्दभाग्यस्य निन्द्यवेषममन्ददुःखायतनं हरिहरहिरण्यगर्भादि-
देवतापवादश्रवणनैरन्तर्यात्प्रेत्यापि निरयफलम् अफलं विप्रलम्भप्रायमी-
यावत् , मलपङ्कः सान्द्रीभूतरजःसमूहो यत्र सः । बौद्धानां देहमार्जननिषेधात्
सर्वशरीरव्याप्तमल इत्यर्थः । प्रबलेति-प्रबला अत्यधिका केशानां लुञ्चनेनोत्पा
टनेन व्यथा पीडा यस्य स तथा। बौद्धानां लुञ्चनमपि प्रसिद्धम् । प्रकृष्टेति-
प्रकृष्टतमं अतिप्रबलं क्षुत्पिपासादिभिर्दुःखं यस्य सः । • स्थानमवस्थानं, आसन-
मुपवेशनं, शयनं निद्रा, भोजनमशनमित्यादिकार्येषु । द्विपो-हस्ती । नवग्रहः-
नवो नूतनो ग्रहो ग्रहणं यस्य सः । अचिरगृहीत इत्यर्थः । यन्त्रणाभिः-पीडाभिः।
अचिरगृहीतो हस्ती यथा शयनभोजनादिष्वपि नितरां दुःखमनुभवति तथाहम-
पीति भावः। प्रत्यवामृशम्-अचिन्तयम् । द्विजातिर्वैश्यः । अस्वधर्मः-स्वधर्मो
नेत्यर्थः । पाषण्डेति-पाषण्डानां वैदिकाचारभ्रष्टानां पन्थाः इति पाषण्डपथस्तत्र
अवतारोऽवतरणम्-बौद्धमार्गानुसरणम् । पूर्वजाः-पितृपितामहादयः । प्रावर्त्तन्त-
प्रवृत्ता अभूवन् । निन्द्यो गर्हणीयो वेषो यस्य तम् । अमन्दस्य महतो दुःखस्य-
क्लेशस्यायतनं स्थानम् । हरिहरेति-हरिहरौ विष्णुशंकरौ हिरण्यगर्भो ब्रह्मा-तदादि-
देवतानामपवादो निन्दा तस्य श्रवणस्य नैरन्तर्यं तस्मात् । अनवरतनिन्दाश्रव-
णात् । प्रेत्य-जन्मान्तरे । निरयफलं-नरकपरिणामकम् । अफलं-निष्फलं अत एव
विप्रलम्भप्रायं प्रायेण वर्जनात्मकम् एतावद् विशेषणं अधर्मवर्त्मेत्यस्य । इदं-
मत्स्वीकृतम् अधर्मवर्त्म-बौद्धमतानुसरणरूपम् । धर्मवत्-धर्मेण तुल्यम् । समा-
चरणीयं-सेव्यमाश्रयणीयमिति यावत् । प्रत्याकलितेति-प्रत्याकलितश्चिन्तितः
जानेके कारण पीड़ा होने लगी, अत्यन्त भूख-प्याससे असह्य वेदना हुई और खड़े होने,
बैठने, सोने तथा भोजनमें भी नये पकड़े हुए हाथीकी भाँति बलवती यन्त्रणाओंसे ऊब उठा,
तब मैंने सोचा-मैं द्विज (वैश्य) हूँ । मेरा इस तरह पाषण्डपथपर आना भी स्वधर्मका
त्याग ही है। मेरे पूर्वज श्रुति और स्मृतिविहित धर्मपथपर ही चले थे लेकिन मुझ अभागेने
इस निन्द्य वेष और अतिशय दुखदायी जीवनको अपनाया है । विष्णु, शिव और ब्रह्मा
आदि देवताओंके अपवाद निरन्तर सुनते रहनेके कारण यद्यपि मुझे नरकफल प्राप्त हुआ
है, फिर भी इस असार और जुआचोरीसे भरे अधर्म-मार्गको मैंने धर्मकी भाँति मान रखा
द्वितीयोच्छ्वासः ] . व्याख्याद्वयोपेतम् । ० १५३
दृशमिदमधमवर्त्म धर्मवत्समाचरणीयमासीत्' इति प्रत्याकलितस्वदुर्नयः
पिण्डीषण्डं विविक्तमेतदासाद्य पर्याप्तमश्रु मुञ्चामि' इति ।
(२५) श्रुत्वा चैतदनुकम्पमानोऽब्रुवम्-‘भद्र क्षमस्व । कञ्चित्कालमत्रैव
निवस । निजेन द्युम्नेनासावेव वेश्या यथा त्वां योजयिष्यति तथा यतिष्ये ।
सन्त्युपायास्तादृशाः' इत्याश्वास्य तमनूत्थितोऽहम् । नगरमाविशन्नेव
चोपलभ्य लोकवादाल्लुब्धसमृद्धपूर्णं पुरमित्यर्थानां नश्वरत्वं च प्रदर्श्य
प्रकृतिस्थानमून्र्विधास्यन्कर्णीसुतप्रहिते पथि मतिमकरवम् ।
स्वस्य दुर्नयो येन सः । पिण्डीषण्डम्-अशोकसमूहम् । विविक्तं-विजनम् ।
आसाद्य-प्राप्य । पर्याप्तं-प्रचुरम् । अश्रु-नयनजलम् । मुञ्चामि-त्यजामि ।
( २५) अनुकम्पमानो-दयमानः । अहमपहारवर्मेति शेषः । क्षमस्व-सहस्व
अत्रैव-जैनायतने एव । निवस-तिष्ठ । द्युम्नेन-धनेन । 'हिरण्यं द्रविणं द्युम्नमि'-
त्यमरः । असौ-काममञ्जरी । यथा येन प्रकारेण । योजयिष्यति-युक्तं करिष्यति
धनेनेति शेषः । तथा-तेन प्रकारेण । यतिष्ये-चेष्टिष्ये । उपायाः-साधनानि ।
आश्वास्य-सान्त्वयित्वा । तं-विरूपकं अनु-पश्चात् । अहमपहारवर्मा । आविशन्-
प्रविशन् । उपलभ्य-ज्ञात्वा । लोकवादात्-जनमुखात् । लुब्धेति-लुब्धैर्धूर्त्तैः
समृद्धैः धनशालिभिः पूर्णं व्याप्तम् । पुरं-नगरम् । इत्यन्तं उपलभ्येत्यस्य कर्म ।
नश्वरत्वं-क्षणिकत्वम् । प्रदर्श्य-बोधयित्वा । अमून्-पौरान् । प्रकृतिस्थान् स्वभा-
वस्थान् सन्मार्गवर्तिन इत्यर्थः । विधास्यन्-करिष्यन् । कर्णीसुतेति-कर्णीसुतः
स्तेयशास्त्रप्रवर्त्तकस्तेन प्रहिते प्रदर्शिते । पथि-मार्गे चौरशास्त्रे इत्यर्थः ।
है । इस प्रकार अपने अनाचारको सोचकरके मैं इस एकान्त अशोकवनमें आ करके पर्याप्त
आँसू बहाता हूं ।
( २५ ) उसका वृत्तान्त सुन करके उसपर अनुकम्पा करते हुए मैने कहा—‘भद्र,
क्षमा करो और कुछ समय यहीं रहो । तबतक मै ऐसा उपाय करूँगा कि, जिससे वही
वेश्या अपना सब धन तुम्हें लौटा दे । ऐसे बहुतेरे उपाय हैं।' इस प्रकार उसे ढाढ़स
बँधा करके मै उठ पड़ा। नगरमें घुसते ही मैंने सुना कि, वह नगर, लोभियोंके विपुल
धनसे भरा है। वस, मैंने धनकी नश्वरता दिखा करके उन धनलोलुपोंको प्रकृतिस्थ
करनेके लिए चौर्यशास्त्रके प्रवर्त्तक कर्णीसुतके विहित पथपर चलनेका संकल्प किया ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu