दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
२४६ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
२४६ दशकुमारचरितम् । [ उत्तरपीठिकायां
धिराहुतीनां च परिमलः पवनानुसारी दिशि दिशि प्रावासीत् । प्रशान्ते
च सहसा धूमोद्गमे तस्मिन्नहमविशम् ।
( २९ ) निशान्तोद्यानमगाच्च गजगामिनी । आलिङ्गय च मां सस्मि-
तं समभ्यधत्त- 'धूर्त्त, सिद्धं ते समीहितम् । अवसितश्च पशुरसौ । अमुष्य
प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम् - 'कितव, न साधयामि ते
सौन्दर्यम् । एवं सुन्दरो हि त्वमप्सरसामपि स्पृहणीयो भविष्यसि, किमुत
मानुषीणाम् । मधुकर इव निसर्गचपलो यत्र क्वचिदासज्जति भवादृशो
रुधिरं शोणितं तेषां या आहुतयस्तासाम् । परिमलो गन्धः । पवनानुसारी पवन-
मनुसृत्य प्रसरणशीलः । प्रावासीत् प्रासरत् । प्रपूर्वकद्वाद्गमनाार्थकवाधातोलुँङि
रूपम् । प्रशान्ते अपगते दूरीभूते इति यावत् । प्रविशं प्रविष्टवान् ।
( २९ ) निशान्तोद्यानं गृहोपवनम् । गजगामिनी-गजवन्मन्दगमनशीला-
कल्पसुन्दरीति शेषः । समभ्यधत्त-उक्तवती । धूर्त्त-कितव । सिद्धं सम्पन्नम् ।
समीहितम् ईप्सितम् । अवसितः समाप्ति गतः आसन्नमरण इति भावः । पशुः
पशुवद् विवेकरहितः । असौ-विकटवर्मा । अमुष्य-विकटवर्मणः । प्रलोभनाय-
प्रलोभनार्थम् । त्वदादिष्टया-त्वत्प्रदर्शितया । दिशा-मार्गेण । मया-कल्पसुन्द-
र्या । कितव धूत्र्त्तेति सम्बोधनम् । साधयामि-सम्पादयामि । एवं-एतादृशः ।
अप्सरसां स्वर्गवेश्यानाम् । स्पृहणीयः अभिलषणीयः । किमुत-किं वक्तव्यमि-
त्यर्थः । मधुकरी भ्रमरः । निसर्गचपलः स्वभावचञ्चलः । यत्र क्वचित्-यत्र कुत्रा-
पि । आसज्जति लगति-आसक्तो भवतीति यावत् । नृशंसः-निर्दयः । तेन-
हुआ । दूध, घी, दही और गौर सर्षप, वसा, मांस और शोणित (रक्त) की आहुतियोंके
द्वारा उड़ी हुई गन्ध, पवनकी गतिसे प्रत्येक दिशामें फैल गयी । उस धूम्रके प्रशान्त होते
ही सहसा मैंने उद्यानमें प्रवेश किया।
( २९) हाथीके समान मन्द गमन करनेवाली वह रानी कल्पसुन्दरी भी उस गृह
उपवनमें आ गयी। मेरा आलिङ्गन करके हंसती हुई मुझसे कहने लगी-'हे कितव !
तेरा ईप्सितार्थ ( मनोरथ ) सिद्ध हो गया । पशुके समान अविवेकी इस राजाकी मृत्यु
भी समीप है । इस नृपतिके प्रलोभनके लिए मैंने आपके आदेशानुसार उसी रीतिसे
कहा-'हे धूर्त्त ! तेरी सुन्दरता मैं नहीं सम्पादित करूंगी । इतनी उत्तम सुन्दरतापर
तेरे ऊपर स्वर्गकी अप्सरायें तक मोहित हो जायेंगी तब मृत्युलोककी महिलाओंकी तो
बात ही क्या । भौंरेके समान तू स्वभावसे ही चञ्चल है अतः जहां कहीं भी आसक्ति
हुई वहीं चिपक जायगा क्योंकि तू निर्दय है ही- (और मैं बिलखा करूंगी) ऐसा
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २४७
नृशंसः' इति । तेन तु मे पादयोर्निपत्याभिहितम्—'रम्भोरु, सहस्व मत्कृ-
तानि दुश्चरितानि । मनसापि न चिन्तयेयमितःपरमितरनारीम् । त्वरस्व
प्रस्तुते कर्मणि' इति ।
(३०) तदहमीदृशेन वैवाहिकेन नेपथ्येन त्वामभिसृतवती । प्राग-
पि रागाग्निसाक्षिकमनङ्गेन गुरुणा दत्तैव तुभ्यमेषा जाया । पुनरपीमं
जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता इति प्रपदेन चरणपृष्ठे निष्पीड्यो-
त्क्षिप्तपादपार्णिरितरेतरव्यतिषक्तकोमलाङ्गुलिदलेन भुजलताद्वयेन कंधरां
ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विश्रान्तवि-
विकटवर्मणा । मे-कल्पसुन्दर्याः । सहस्व-क्षमस्व । दुश्चरितानि-अपराधान् ।
इतरनारीम्-अन्यस्त्रियम् । त्वरस्व-शीघ्रतां कुरु । प्रस्तुते-प्रारब्धे ।
(३०) तत् तस्मात् कारणात् । वैवाहिकेन-विवाहोचितेन । नेपथ्येन--
वेषेण । त्वामुपहारवर्माणम् । अभिसृतवती-प्राप्तवती । प्राक्-पूर्वम् । रागाग्नि-
साक्षिकं-रागोऽनुराग एवाग्निः साक्षी दृष्टा यस्मिन् कर्मणि तदिति क्रियाविशेष-
णम् । गुरुणा-आचार्येण । दत्ता-अर्पिता । एषा मद्रूपा । जाया भार्या । जात-
वेदमसग्निम् । स्वहृदयेनेति-पूर्वमनङ्गेन दत्ता अधुना तु निजहृदयेनेति-विशे-
षः । प्रपदेन-पादाग्रेण । निष्पीड्य-पीडयित्वा । उत्क्षिप्तपादपार्णिः उत्क्षिप्तौ
उदृधृतौ पादयोश्चरणयोः पाष्णीं गुल्फदेशौ यया सा । इतरेतरेति-इतरेतरमन्योन्यं
व्यतिषक्तानि मिलितानि कोमलानि अङ्गुलय एव दलानि पत्राणि यस्य तेन ।
कंधरां-ग्रीवाम् । आवेष्ट्य-आश्लिष्य । सलीलं सविलासम् । आननं मदीयं मुखम् ।
आनमय्य-आनतीकृत्या । उन्नमितमुखकमला-ऊर्द्ध्वीकृताननपद्मा । विश्रान्तेति-
कहनेपर उस धूर्त्तने मेरे पैरोंपर गिरकरके कहा- हे रम्भोरु ! आप मेरे किये हुए अप-
राधोंको क्षमा कीजिये । अब मनसे भी अन्य रमणियोंको स्मरण न करूंगा। इस प्रारम्भित
कार्यके लिए शीघ्रता कीजिये ।'
(३०) इस कारणसे मैं इस प्रकारके विवाहके समयानुरूप वस्त्रोंको धारण करके
आपके समीप आयी हूँ। पूर्वमें भी अनुरागरूपी अग्निको साक्षी बना करके कामदेवरूपी
आचार्यने इस जायाको आपको सौंप दिया है । अब फिर भी इस अग्निकी साक्षी दे
करके अपने हृदयसे (अपनेको ) आपको सौंप रही हूँ। ऐसा कहकर वह कल्पसुन्दरी
रानी अपने चरणोंके अग्रिम भागोंसे मेरे चरणोंको दबाती हुई खड़ी हुई । परस्पर मिले
हुए गुल्फोंसे तथा अन्योन्यमें संश्लिष्ट कोमल अङ्गुलिरूपी दलवालो (पत्रवाली) दोनों
बाहुवल्लियोंसे मेरे गलेको परिवेष्टित करके उस रानीने बिलाससे मेरे मुखकी नीचे नवा