Skip to content
SarvaKosh
Back to the archive

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

३५८ दशकुमारचरितम्। [ उत्तरपीठिकायां

Page 358Permalink

३५८ दशकुमारचरितम्। [ उत्तरपीठिकायां
भर्ता सर्वमेव कुटुम्बं तदायत्तमेव कृत्वा तदेकाधीनजीवितशरीरस्त्रिवर्गं
निर्विवेश । तद्ब्रवीमि—‘गृहिणः प्रियहिताय दारगुणाः’ इति ।
( ३५ ) ततस्तेनानुयुक्तो निम्बवतीवृत्तमाख्यातवान्—‘अस्ति सौरा-
ष्ट्रेषु वलभी नाम नगरी। तस्यां गृहगुप्तनाम्नो गुह्यकेन्द्रतुल्यविभवस्य ना-
विकपतेर्दुहिता रत्नवती नाम । तां किल मधुमत्याः समुपागम्य बलभद्रो
नाम सार्थवाहपुत्रः पर्यणैषीत् । तयापि नववध्वा रहसि रभसविघ्नितसु-
रतसुखो झटिति द्वेषमल्पेतरं बबन्ध । न तां पुनर्द्रष्टुमिष्टवान् । तद्गृहा-
गमनमपि सुहृद्वाक्यशतातिवर्ती लज्जया परिजहार । तां च दुर्भगां तदा-
यत्तीकृतः। कुटुम्बं परिवारम् । तदायत्तं तस्या अधीनम् । तदेकेति-तस्या एकस्या
अधीनमायत्तं जीवितं प्राणाः शरीरञ्च यस्य तादृशः। त्रिवर्गं धर्मार्थकामान् ।
निर्विवेश बुभुजे । तत् तस्मात् । ब्रवीमि कथयामि । गृहिणो गृहस्थस्य । प्रियहि-
ताय प्रियं हितञ्च कर्त्तम् । दारगुणाः पत्नीगुणा इति ।
(३५) ततः गोमिनीवृत्तान्तश्रवणानन्तरम् । तेन ब्रह्मराक्षसेन । अनुयुक्तः
पृष्टः। आख्यातवान् अहमिति शेषः । तस्यां वलभ्याम् । गुह्यकेति-गुह्यकानां
यक्षाणामिन्द्रो राजा कुबेरस्तेन तुल्यो विभवो धनं यस्य तादृशस्य । नाविकपतेः
पोतवणिजामधिपतेः। तां रत्नवतीम् । मधुमत्याः तदाख्यनगरात् । सार्थवाह-
पुत्रः वणिक्तनयः। पर्यणैषीत् ऊढवान् । तया पूर्वोक्तया । नववध्वा नवोढया ।
रभसेति-रभसेन वेगेन बलात्कारेणेति यावत् विघ्नितं व्याहतं सुरतसुखं यस्य सः ।
मुग्धा सा बलात्कारेण रन्तुं नानुमोदितवतीति भावः । अल्पेतरं अत्यधिकम् ।
बबन्ध दधार । तद्गृहागमनं रत्नवतीगेहगमनम् । सुहृद्वाक्येति-सुहृदां मित्राणां
वशमें कर लिया । उस पतिपरायणाके गुणोंपर मुग्ध होकर उसके पतिने सम्पूर्ण
कुटुम्बका भार उसपर सौंप दिया और उसीके अधीन स्वयं भी होकर धर्म, अर्थ, कामसुखों
को भोगने लगा। अतः कहता हूं कि ‘गृहस्थोंके प्रियको गुणवती स्त्री कर सकती है ।'
( ३५ ) इसके पश्चात् उस ब्रह्मराक्षस द्वारा पूछे जाने पर मैंने निम्बवतीके चरितको
सुनाना प्रारम्भ किया-‘सौराष्ट्र प्रदेशमें वलभी नामकी एक पुरी है। इस पुरीमें राज-
राज कुबेरके समान धनवान् जहाज़के व्यापारियोंका एक मुखिया रहता था। जिसकी
एक रत्नवती नामकी पुत्री थी । उस कन्याके साथ, मधुमती नामकी नगरी से आये
हुए एक बलभद्र नामक वैश्यपुत्रने विवाह कर लिया। उस नवविवाहिता स्त्रीके साथ
एकान्तमें जब वह बलभद्र रतिक्रीड़ा करने चला, तो नवीना होनेसे उसने रतिक्रीड़ामें
कुछ विघ्न किया । उस अल्प अपराधने बृहद् रूप धारण कर लिया । यहां तक कि

Page 359Permalink

षष्ठोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ३५६

प्रभृत्यैव 'नेयं रत्नवती, निम्बवती चेयम्' इति स्वजनः परिजनश्च
परिबभूव ।
( ३६ ) गते च कस्मिंश्चित्कालान्तरे सा त्वनुतप्यमाना 'का मे गतिः'
इति विमृशन्ती कामपि वृद्धप्रव्राजिकां मातृस्थानीयां देवशेषकुसुमैरुप-
स्थितामपश्यत् । तस्याः पुरो रहसि सकरुणं रुरोद । तयाप्यश्रुमुख्या बहु-
प्रकारमनुनीय रुदितकारणं पृष्टा त्रपमाणापि कार्यगौरवात्कथञ्चिदब्रवीत्-
'अम्ब, किं ब्रवीमि, दौर्भाग्यं नाम जीवन्मरणमेवाङ्गनानाम्, विशेषतश्च


वाक्यशतमतिवर्त्तते अतिक्रामतीति तथा। सुहृद्वाक्यमशृण्वन्नित्यर्थः। परिजहार
तत्याज । दुर्भगां दौर्भाग्यवतीं भर्तुरप्रियामित्यर्थः । तदाप्रभृति-तद्दिनादारभ्य ।
स्वजनः आत्मीयवर्गः परिबभूव तिरश्चकार ।
( ३६ ) सा निम्बवती । अनुतप्यमाना अनुतापं भजन्ती । विमृशन्ती विचा-
रयन्ती । मातृस्थानीयां मातृतुल्याम् । वृद्धप्रव्राजिकां स्थविरसंन्यासिनीम् । देव-
शेषकुसुमैः निर्माल्यपुष्पैरुपलक्षिताम् । उपस्थितां तत्रागताम् । तस्याः वृद्धप्रव्राजि-
कायाः । पुरः अग्रे । रुरोद विललाप । तया प्रव्राजिकया । अश्रुमुख्या बाष्पपूर्णवद-
नया । अनुनीय सान्त्वयित्वा । रुदितकारणं रोदनहेतुम् । पृष्टा सा निम्बवती । त्रप-
माणा लज्जावती । कार्यगौरवात् स्वप्रयोजनस्यावश्यवक्तव्यत्वात् । कथञ्चित् केनापि
प्रकारेण । जीवन्मरणं मृत्युतुल्यम् । तस्य दौर्भाग्यस्य । उदाहरणभूता दृष्टान्त-


वह वैश्यपुत्र बलभद्र उस रत्नवतीको देखना भी नहीं पसन्द करता था । उस वैश्यपुत्रने
उस रत्नवती के घर पर आना जाना भी छोड़ दिया और मित्रोंके सैकड़ों बार समझाने
पर भी धृष्टतासे उनकी बातें न सुनता था । फिर उस मन्दभाग्या रत्नवतीको
परिजन और स्वजन सभी घृणाकी दृष्टिसे देखने लगे और कहने लगे कि 'यह रत्नवती
नहीं, अपितु निम्बवती है।'
( ३६ ) कुछ समय बीतनेके पश्चात् सन्तप्ता वह रत्नवती 'अब मेरी क्या दशा होगी'
ऐसा विचार करती हुई एक वृद्धा संन्यासिनीसे मिली जो देवताओंके चढ़े फूलोंको
लिये हुए वहांपर आयी थी । उस संन्यासिनीके आगे वह रत्नवती करुणस्वरसे
विलाप करने लगी । उस रोती हुई संन्यासिनीने इसे बहुत तरहसे समझाकर रोनेका
कारण पूछा । लज्जान्वित होकर उस रत्नवतीने आवश्यक बात समझकर उस संन्या-
सिनीसे कहा—'हे माता ! क्या कहूँ, महिलाओंको दुर्भाग्यसे रहना जीतेजी मरनेके
तुल्य है, प्रधानतः कुलवतियोंके लिये तो और भी । उन्हीं कुलवतियोंके उदाहरणमें
मैं एक हूँ । माता आदि प्रमुख जन तथा जातिके लोग मेरा तिरस्कार करते हैं । अतः