Skip to content
SarvaKosh
Back to the archive

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

१७८ दशकुमारचरितम् । [ उत्तरपीठिकायां

Page 176Permalink

१७८ दशकुमारचरितम् । [ उत्तरपीठिकायां
कश्च तेनार्थः' इति कथिते राज्ञोक्तम्- 'अपि शक्नोषि तमाह्वातुम्' इति ।
'बाढमस्मि शक्तः' इति निर्गत्य स्वगृहे वेशवाटे द्यूतसभायामापणे च
निपुणमन्विष्यन्नोपलब्धवान् । कथं वोपलभ्येत स वराकः । स खलु वि-
मर्दको मद्ग्राहितत्वदभिज्ञानचिह्नो मन्नियोगात्त्वदन्वेषणायोज्जयिनीं तद-
हरेव प्रातिष्ठत । अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसंबद्धं मत्वा
मोहाद्भयाद्वा प्रत्याख्याय पुनर्धनमित्रेण विभाविते कुपितेन राज्ञा निगृह्य
निगडबन्धनमनीयत ।
(४६) तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा
काममञ्जरी पूर्वदुग्धं क्षपणीभूतं विरूपकं रहस्युपसृत्य ततोऽपहृतं सर्वम-
परमस्यन्तम् । तेन विमर्दकेन । अर्थः प्रयोजनम् । बाढमित्यङ्गीकारार्थकमव्ययम् ।
वेशवाटे वेश्यागृहमार्गे । निपुणं सावधानम् । स वराकः तुच्छो विमर्दकः । मद्-
ग्राहितेति-मया ग्राहितं बोधितं तव राजवाहनस्य अभिज्ञानचिह्नं परिचयसूचकं
यस्मै सः । मन्नियोगात् मदादेशात् । त्वदन्वेषणाय-तव भवतो राजवाहनस्या-
न्वेषणमनुसन्धानं तस्मै । तदहः तस्मिन् दिने । प्रातिष्ठत चलितोऽभवत् । तत्कृतं
विमर्दकविहितम् । आत्मसम्बद्धं-स्वकीयम् । प्रत्याख्याय विपरीतमुक्त्वा
अस्वीकृत्य वा । विभाविते-प्रमाणीकृते । निगृह्य बलाद् धृत्वा । निगडबन्धनं-
पादयोः शृङ्खलाबन्धनम् । अनीयत प्रापितः ।
(४६) विधिना-अनुष्ठानेन । कल्पोक्तेन-चर्मरत्ननियमोक्तेन । दोग्धु-
कामा रत्नदोहनेच्छुः । पूर्वदुग्धं-प्राग्गृहीतसर्वस्वम् । क्षपणीभूतं-बौद्धभिक्षुकम् ।
क्या प्रयोजन है?' ऐसा कहनेपर राजाने कहा- 'क्या उसे बुला सकते हो ?' (अर्थपतिने
कहा-) अतिसमर्थ हूँ।' इसके पश्चात् अर्थपतिने अपने घर जाकर विमर्दकको वेश्याओंके
पथोंमें, जुआखानोंमें, बाजारोंमें खोजवाय । लेकिन, वह सावधान विमर्दक न मिला। भला
वह तुच्छ (हीन) विमर्दकको कैसे पावे ? वह विमर्दक तो मेरे द्वारा बोधित कराये हुए परि-
चय-सूचक चिह्नसे और मेरे आदेशसे आपको (राजवाहनको) खोजनेके लिए उसी दिन
ही उज्जयिनी-(उज्जैन-) के लिए प्रस्थान कर चुका था। अर्थपतिने विमर्दकको न पा
करके विमर्दकद्वारा किये अपराधको अपने ऊपर मान करके, मोहसे अथवा भयसे अस्वी-
कार करनेपर फिरसे धनमित्रके आविष्कृत करने तक राजाने क्रोधसे अर्थपतिको बेड़ी
पहिना दी।
(४६) उन्हीं दिनोंमें चर्मरत्नभस्त्रिकाको नियमोक्त विधिसे दुहनेकी इच्छा करने
वाली काममञ्जरी जो पहले बौद्धभिक्षुक विरूपकका धन ले चुकी थी। उस बौद्धभिक्षुक-
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 177Permalink

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७६
र्थजातं तस्मै प्रत्यर्प्य सप्रश्रयं च बहुनुनीय प्रत्यागमत् । सोऽपि कथंचि-
न्निर्ग्रन्थिकग्रहान्मोचितात्मा मदनुशिष्टो हृष्टतमः स्वधर्ममेव प्रत्यप-
द्यत । काममञ्जर्यपि कतिपयैरेवाहोभिरश्मन्तकशेषमजिनरत्नदोहाशया
स्वमभ्युदयमकरोत् ।
(४७) अथ मत्प्रयुक्तो धनमित्रः पार्थिवं मिथो व्यज्ञापयत्—'देव,
येयं गणिका काममञ्जरी लोभोत्कर्षाल्लोभमञ्जरीति लोकावक्रोशपात्रमा-
सीत्, साद्य मुसलोलूखलान्यपि निरपेक्षं त्यजति । तन्मन्ये मच्चर्मरत्नलाभं
विरूपकं-वसुपालितापरनामकम् । ततस्तस्माद्विरूपकात् । तस्मै विरूपकाय ।
प्रत्यर्प्य दत्त्वा । सप्रश्रयं-सविनयम् । सप्रश्रयमिति पाठे सशपथम् । प्रत्यागमत्
प्रतिगतवती । सोऽपि-विरूपकोऽपि कथञ्चित् केनापि प्रकारेण । निर्ग्रन्थिकग्रहात्-
निर्ग्रन्थिकः क्षपणकाचारः स एव ग्रह उत्पातविशेषस्तस्मात् । 'निर्ग्रन्थोऽर्हन् क्षप-
णकः श्रमणो जिन इत्यपी'त्यमरः । निर्ग्रन्थस्यायमिति निर्ग्रन्थिको निर्ग्रन्थ्याचार
इत्यर्थः । मदनुशिष्टः मया बोधितः । स्वधर्मं वैदिकधर्मम् । प्रत्यपद्यत-पुनरग्रहीत् ।
अश्मन्तकशेषम् । अश्मन्तकं चुल्लिः शेषोऽवशिष्टं यस्मिन् तमिति स्वमभ्युद-
यमित्यस्य विधेयविशेषणम् । 'अश्मन्तमुद्धानमधिंश्रयणी चुल्लिरन्तिके'त्यमरः ।
स्वमभ्युदयं स्वकीयसम्पदम् । काममञ्जरी सर्वाण्येव स्वधनानि तथा व्यतरद् यथा
चुल्लिमात्रमेव गृहेऽवशिष्टमासीदिति भावः ।
(४७) मत्प्रयुक्तः मयोपदिष्टः । पार्थिवं राजानम् । लोभोत्कर्षात् लोभातिशया-
त् । लोकावक्रोशपात्रं जनापवादभाजनम् । निरपेक्षं निर्विचारं यथा तथा । त्यजति
ददाति । तत्-तस्मात्कारणात् । मच्चर्मरत्नलाभं मदीयचर्मरत्नप्राप्तिम् । हेतुं
(क्षपणक-) को एकान्तमें बुलाया तथा उस बौद्धभिक्षुसे जो धन पहले प्राप्त किया था
उस धनको बौद्धभिक्षुको विनयपूर्वक देते हुए तथा उस भिक्षुकी बहुत सम्मान्यता करके
पुनः घर पर लौट आयी । वह बौद्धभिक्षु भी किसी प्रकारसे अर्हन् सिद्धान्तकी वेदनाओंसे
युक्त हो करके मेरे आदेशोंसे प्रसन्न वदन होकर अपने वैदिक-धर्ममें लौटकर आ गया ।
काममञ्जरीने भी थोडे ही दिनोंमें अपने अभ्युदयके लिये चर्मरत्नभक्षिका दुहनेकी इच्छासे
सब धनको दान करके केवल चूल्हामात्र अवशिष्ट अपनेको बना डाला ।
(४७) तत्पश्चात् मेरे द्वारा उपदिष्ट धनमित्रने एकान्तमें राजासे कहा—'हे देव !
आजकल जो यह काममञ्जरी वेश्या है । वह अतिशय लोभके कारण लोभमञ्जरीकी तरह
जनोंके द्वारा अपवादधारिणी हो रही है । वह आज मूसल, ओखली भी अविचारसे त्याग