Skip to content
SarvaKosh
Back to the archive

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

by पण्डित विष्णु शर्मा

Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)

DevanagariHindipublished536 pages

( ४९० ) पञ्चतन्त्रम् ।

Page 505Permalink

( ४९० ) पञ्चतन्त्रम् ।
कश्चित् व्यन्तरः सिद्धः, स वाञ्छितं प्रयच्छति, तदहं त्वां
प्रष्टुम् आगतः । तत्कथय किं प्रार्थये ? एष तावत् मम मित्रं
नापितो वदति एवं यत् राज्यं प्रार्थयस्व” । सा आह,-
“आर्य्य पुत्र ! का मतिर्नापितानाम् । तत न कार्य्य तद्वचः ।
उक्तञ्च-
कौलिक बोला,-“तौभी उससे पूंछना चाहिये । कारण कि वह पतिव्रता
है । और उसके बिना पूछे मैं कुछभी नहीं करता । ऐसा उससे कह शीघ्र
जाकर उससे बोला,-“प्रिये ! हमको आज कोई व्यन्तर सिद्ध हुआ है वह
मनोवांछित देता है सो मैं तुमको पूछनेको आया हूं । सो कह क्या मांगूं ? ।
और यह मेरा मित्र नाई तो कहता है कि राज्यकी प्रार्थना करो” । वह बोली-
“स्वामिन् नाईयोंको क्या बुद्धि होती है। सो उसके वचन न करना। कहा है कि-
चारणैर्बन्दिभिर्नीचैर्नापितैर्बालकैरपि ।
न मन्त्रं मतिमान्कुर्यात्सार्द्धं भिक्षुभिरेव च ॥ ६७ ॥
चारण, बन्दीजन, नीच, नापित और बालकों भिक्षुकोंके साथ बुद्धिमान
सम्मति न करे ॥ ६७ ॥
अपरं महती क्लेशपरम्परा एषा राज्यस्थितिः सन्धिविग्र-
हयानासनसंश्रयद्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं
न प्रयच्छतीति । यतः-
और यह राज्यकी स्थिति तो बडे क्लेशकी करनेवाली है। संधि, विग्रह, यान,
आसन, संश्रय, द्वैधीभावादिसे कभी पुरुषको सुख नहीं मिलता । कारण कि-
यदैव राज्ये क्रियतेऽभिषेकस्तदैव याति व्यसनेषु बुद्धिः ।
घटा नृपाणामभिषेककाले सहाम्भसैवापद्मुद्गिरन्ति ६८॥
जबी राज्य अभिषेक किया जाता है उसी समय व्यवसनोंमें बुद्धि लग
जाती है राजोंके अभिषेक समयमें घडे जलोंके साथ आपत्तिको उद्गीर्ण
करते हैं ॥ ६८ ॥
तथाच-
और देखो-
रामस्य व्रजनं वने निवसनं पण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् !

Page 506Permalink

भाषाटीकासमेतम् । (४९१

सौदासं तदवस्थमर्जुनवधं सञ्चिन्त्य लंकेश्वरं
दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वाञ्छयेत् ॥ ६९ ॥
रामचन्द्रको वनमें जाना, पाण्डुपुत्रोंका वनगमन, वृष्णिवंशियोका निधन,
नलराजाका राज्यसे भ्रष्ट होना, सौदास राजाका गुरु शापसे राक्षस होना,
कार्तवीर्य अर्जुन और रावणका वध विचार राज्यके निमित्त अनेक विडम्बना
देखकर राज्यकी वाञ्छा न करे ॥ ६९ ॥

यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः।
वधं राज्यकृतां राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥ ७० ॥”
जो अपने भाई पुत्र हैं वेभी जिस राज्यके निमित्त राजाके वधकी इच्छा
करते हैं इस कारण दूरसेही राज्यको त्यागे ॥ ७० ॥”

कौलिक आह,-“सत्यमुक्तं भवत्या । तत् कथय किं
प्रार्थये ?” सा आह,-“त्वं तावदेकं पटं नित्यमेव निष्पाद-
यसि, तेन सर्वा व्ययसिद्धिः सम्पद्यते । इदानीं त्वं आत्म-
नोऽन्यद् बाहुयुगलं द्वितीयं शिरश्च याचस्व, येन पटद्वयं
सम्पादयसि पुरतः पृष्ठतश्च, एकस्य मूल्येन गृहे यथापूर्वं
व्ययं सम्पादयिष्यसि । द्वितीयस्य मूल्येन विशेषकृत्यानि
करिष्यसि । एवं सौख्येन स्वजातिमध्ये श्लाघमानस्य
कालो यास्यति । लोकद्वयस्य उपार्जना च भविष्यति”
सोऽपि तदाकर्ण्य प्रहृष्टः प्राह.-“साधु पतिव्रते ! साधु,
युक्तमुक्तं भवत्या; तदेवं करिष्यामि, एष मे निश्चयः”।
ततोऽसौ गत्वा व्यन्तरं प्रार्थयाञ्चक्रे,-“भो ! यदि मम
ईप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहुयुगलं शिरश्च”।
एवम् अभिहिते तत्क्षणादेव द्विशिराः चतुर्बाहुश्च सञ्जातः ।
ततो हृष्टमना यावत् गृहम् आगच्छति, तावत् लोकैः राक्ष-
सोऽयमिति मन्यमानैः लगुडपाषाणप्रहारैः ताडितो मृतश्च ।
अतोऽहं ब्रवीमि-

कौलिक बोला-“तैने सत्य कहा, सो बता कि क्या मांगू ?” वह बोली-
“तुम एक पट प्रतिदिन बुन लेतेहो उससे सब खर्च भली प्रकार चलता है; इस