सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

Panchatantra (with Commentary – All Five Tantras)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( १९६ ) पञ्चतन्त्रम् ।

( १९६ ) पञ्चतन्त्रम् ।

राज्ञो वक्षःस्थलोपरि मक्षिका उपविष्टा । व्यजनेन मुहुर्मुहु-
र्निषिध्यमानापि पुनः पुनस्तत्रैव उपविशति । तत-
स्तेन स्वभावचपलेन मूर्खेन वानरेण क्रुद्धेन सता तीक्ष्णं
खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिका
उड्डीय गता तेन शितधारेण असिना राज्ञो वक्षो द्विधा
जातं राजा मृतश्च । तस्मात् चिरायुरिच्छता नृपेण मूर्खोऽ-
नुचरो न रक्षणीयः । अपरमेकस्मिन्नगरे कोऽपि विप्रो महा-
विद्वान् परं पूर्वजन्मयोगेन चौरो वर्त्तते । स तस्मिन् पुरेऽन्य-
देशादागतान् चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा
चिन्तितवान्, "अहो ! केन उपायेन एषां धनं लभे" ! ।
इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषि-
तानि च अतिप्रियाणि मधुराणि वचनानि जल्पता तेषां
मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथ वा साधु
चेदमुच्यते-

किसी एक राजाका नित्य अत्यन्त भक्त एक वानर अंगरक्षक अन्तःपुर-
मेंभी अनिवारित प्रवेशवाला अति विश्वासपात्र था, एक समय निद्रित हुए
राजाके वानरके पंखा लेकर हवा करनेमें राजाकी छातीपर मक्खी बैठ गई पंखेसे
वारंवार निषेध की हुईभी वहीं बैठती । तब उस स्वभावसे चपल मूर्ख वानरने
क्रोध कर तीक्ष्ण खड्ग ले उसपर प्रहार दिया । तब मक्खी तो उड़गई उस
तीक्ष्ण धारवाली तल्वारसे राजाकी छाती दो खण्ड हुई जिससे वह मरगया,
इससे चिरायुकी रक्षा करनेवाले राजाको मूर्ख अनुचर करना उचित नहीं ।
दूसरी बात यह कि, एक नगरमें कोई ब्राह्मण महाविद्वान् था, परन्तु पूर्वजन्मके
योगसे चोर होगया, वह उस पुरमें और देशोंसे आये हुए चार ब्राह्मणोंको
बहुतसी चीजे बेचता देखकर विचारने लगा, "अहो किस उपायसे इनका धन
लूं"। ऐसा विचार कर उनके सम्मुख अनेक शास्त्रोक्त सुभाषित अतिप्रिय मधुर
वचनोंको कहकर उनके मनमें विश्वास उत्पन्न कर सेवा करनी प्रारम्भ की।
अथवा यह अच्छा कहा है-

असती भवति सलज्जा क्षारं नीरञ्च शीतलं भवति ।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्त्तजनः ॥४५२॥
असती लजावती होती है, खारी पानी ठंढा होता है, ज्ञानी पाखण्डी होता
है और धूर्त्तमनुष्य प्रियवक्ता होता है ॥ ४५२ ॥
अथ तस्मिन् सेवां कुर्वति तैः विप्रैः सर्ववस्तूनि विक्रीय
बहुमूल्यानि रत्नानि क्रीतानि । ततः तानि जंघामध्ये त-
त्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः । ततः स
धूर्त्तविप्रस्तान् विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ताव्याकुलित-
मनाः सञ्जातः । “अहो ! धनमेतत् न किञ्चित् मम घटि-
तम् । अथ एभिः सह यामि, पथि क्वापि विषं दत्त्वा एता-
न्निहत्य सर्वरत्नानि गृह्णामि” । इति विचिन्त्य तेषामग्रे
सकरुणं विलप्य इदमाह, - "भोः मित्राणि ! यूयं मामेका-
किनं मुक्त्वा गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेहपाशेन
बद्धं भवद्विरहनाम्नैव आकुलं सञ्जातं यथा धृतिं क्वापि न
धत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत ।
तद्वचः श्रुत्वा ते करुणाईचित्ताः तेन सममेव स्वदेशं प्रति
प्रस्थिताः । अथ अध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये
व्रजतां ध्वांक्षाः कथयितुमारब्धाः,- "रे रे किराताः !
धावत धावत । सपादलक्षधनिनो यान्ति । एतान् निहत्य
धनं नयत” । ततः किरातैः ध्वाक्षवचनमाकर्ण्य सत्वरं गत्वा
ते विप्रा लगुडप्रहारैः जर्जरीकृत्य वस्त्राणि मोचयित्वा वि-
लोकिताः, परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभि-
हितम्-“भोः पान्थाः ! पुरा कदापि ध्वाक्षवचनमनृतं न
आसीत् । ततो भवतां सन्निधौ क्वापि धनं विद्यते । तद्-
र्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं
प्रेक्ष्य धनं नेष्यामः” । तदा तेषामीदृशं वचनमाकर्ण्य चौर-
विप्रेण मनसि चिन्तितम्, यदा एषां विप्राणां वधं विधाय
अंगं विलोक्य रत्नानि नेष्यन्ति तदा अपि मां वधिष्यन्ति