पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
Panchatantra (with Commentary – All Five Tantras)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
[२६८) पंचतन्त्रम् ।
[२६८) पंचतन्त्रम् ।
इन दोनोंका इसके पीछे भी पात् न होगा । सो आओ अपने स्थानको
चलें । इससे मैं कहता हूं-
शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १५६ ॥”
शिथिल और सुदृढ हैं गिरेंगे वा नहीं हे भद्रे ! यह मैंने बराबर पन्द्रह वर्ष-
तक देखे ॥ १५६ ॥”
पुरुष आह-“यदि एवं तद्गच्छ भूयोऽपि वर्द्धमानपुरम् ।
तत्र द्वौ वणिक्पुत्रौ वसतः, एको गुप्तधनः, द्वितीय उपभु-
क्तधनः । ततः तयोः स्वरूपं बुद्ध्वा एकस्य वरः प्रार्थनीयः ।
यदि ते धनेन प्रयोजनम् अभक्षितेन ततः त्वामपि गुप्तधनं
करोमि । अथवा दत्तभोग्येन धनेन ते प्रयोजनं तदुपभुक्तधनं
करोमि” इति । एवमुक्त्वा अदर्शनं गतः । सोमिलकोऽपि
विस्मितमना भूयोऽपि वर्द्धमानपुरं गतः । अथ सन्ध्यासमये
श्रान्तः कथमपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन्कृच्छ्रात्
लब्ध्वा अस्तमितसूर्ये प्रविष्टः । अथ असौ भार्य्यापुत्रसमे-
तेन गुप्तधनेन निर्भर्त्स्यमानो हठाद्गृहं प्रविश्य उपविष्टः ।
ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किञ्चिदशनं
दत्तम् । ततश्च भुक्त्वा तत्र एव यावत् सुप्तो निशीथे
पश्यति तावत् तौ अपि द्वौ पुरुषौ परस्परं मन्त्रयतः ।
तत्र एक आह-“भोः कर्त्तः ! किं त्वया अस्य गुप्तधनस्य
अन्योऽधिको व्ययो निर्मितो यत् सोमिलकस्य अनेन
भोजनं दत्तम् । तदयुक्तं त्वया कृतम्” । स आह-“भोः
कर्मन् ! न मम अत्र दोषः मया पुरुषस्य लाभप्राप्ति-
र्दातव्या । तत्परिणतिः पुनः त्वदायत्ता” इति । अथ असौ
यावदुत्तिष्ठति तावत् गुप्तधनो विसूचिकया खिद्यमानो
रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्दोषेण
कृतोपवासः सञ्जातः । सोमिलकोऽपि प्रभाते तद्गृहात्
निष्क्रम्य उपभुक्तधनगृहं गतः । तेनापि च अभ्युत्थानादिना
भाषाटीकासमेतम् । (२६९)
सत्कृतो विहितभोजनाच्छादनसंमानः तस्य एव गृहे भव्य-
शय्यामारुह्य सुष्वाप । ततश्च निशीथे यावत्पश्यति तावत्
तौ एव द्वौ पुरुषौ मिथो मन्त्रयतः । अथ तयोः एक आह-
“भोः कर्त्तः ! अनेन सोमिलकस्य उपकारं कुर्वता प्रभूतो
व्ययः कृतः, तत् कथय कथमस्य उद्धारकविधिः भविष्यति ।
अनेन सर्वमेतद्व्यवहारकगृहात् समानीतम्” । स आह-
“भोः कर्मन् मम कृत्यमेतत् । परिणतिः त्वदायत्ता” इति ।
अथ प्रभातसमये राजपुरुषो राजप्रसादजं वित्तम् आदाय
समायात उपभुक्तधनाय समर्पयामास । तद् दृष्ट्वा सोमिलकः
चिन्तयामास । “सञ्चयरहितोऽपि वरमेष उपभुक्तधनो न असौ
गुप्तधनः । उक्तञ्च-
पुरुष बोला- "जो ऐसा है तो फिर वर्द्धमान पुरको जा वहा दो वणिक्पुत्र
रहते हैं एक गुप्तधन दूसरा उपभुक्तधन (धनका भोगनेवाला) है उन दोनोंका
आशय देखकर पीछे वर मांगना, और जो केवल तेरा भी गुप्तधन (धनरक्षा)
से प्रयोजन होगा तो तुझे भी गुप्तधन करदूगा । अथवा दत्तभोग्य धनसे तेरा
प्रयोजन होगा तो वैसा करदूगा” । यह कहकर वह अन्तर्हित हुआ ।
सोमिलक आश्चर्ययुक्त होकर फिर वर्द्धमानपुरको गया, सन्ध्या समय थका हुआ
किसी प्रकार उस पुरमें प्राप्त हो गुप्तधनके घरको पूछता हुआ कठिनतासे प्राप्त
होकर सूर्यास्तमें प्रविष्ट हुआ तब यह भार्या पुत्रके सहित हुए गुप्तधनसे घुड-
काया हुआ भी हठसे उसके घरमें प्रवेश कर बैठगया, तब भोजनके समय
उसको भी भक्तिसे हीन कुछ भोजन दिया, तब यह भोजन कर जबतक सो
कर आधी रातमे देखता है कि, वही दोनों पुरुष परस्पर मन्त्रणा करते हैं । तब
एक बोला- "भो प्रभो क्यों तुमने इस गुप्तधनका अधिक व्यय किया, जो
सोमिलकको इसने भोजन दिया, सो यह तुमने अयुक्त किया”। वह बोला-
“भो कर्मन् इसमें मेरा दोष नहीं मुझे तो पुरुषको लाभ प्राप्ति देनी है ।
उसका परिणाम तुम्हारे आधीन है” । सो यह जबतक उठता है तबतक गुप्तधन
विषूचिका (उवान्त) रोगसे खेदको प्राप्त हुआ रुग्णहै। क्षणमात्रको स्थित
हुआ । सो दूसरे दिन उस दोषसे उसने लंघन किया । सोमिलक भी प्रभात